________________ न्यायभाष्यम्। 79 छलम् ] ___ अवयवविपर्यासवचनं न सूत्रार्थः / कस्मात् ?. “यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य सः. अर्थतो ह्यसमर्थानामानन्तर्यमकारणम्" इत्येतद्वचनाद् विपर्यासेनोक्तो हेतुरुदाहरणसाधयात् तथा वैधात् साध्यसाधनं हेतुलक्षणं न जहाति अजहद्धेतुलक्षणं न हेत्वाभासो भवतीति / “अवयवविपर्यासवचनमप्राप्तकालम् 5-2-11" इतिनिग्रहस्थानमुक्तं तदेवेदं पुनरुच्यते इत्यतस्तन्न सूत्रार्थः / // 9 // अथ छलम् वचनविघातोऽर्थविकल्पोपपत्त्या छलम् // 10 // न सामान्यलक्षणे छलं शक्यमुदाहर्तु विभागे तूदाहरणानि // 10 // विभागश्चतत् त्रिविधम्- वाक्छलं सामान्यच्छलमुपचारच्छलं चेति // 11 // सूत्रकारानभिमतमुक्तसूत्रस्य व्याख्यानान्तरं प्रत्याचष्टे- अवयवेति, प्रतिज्ञाद्यवयवानां विपर्यासेन= व्युत्क्रमेण यद् वचनम्= प्रयोगः स कालात्ययेऽपदिष्टत्वात् कालातीतो यथा- 'पर्वतो धूमादू कालात्ययो जात इति कालातीतो हेतुर्हेत्वाभास इत्येवं कालातीतशब्दस्य स्थूलार्थबुद्धया केनचित् सूत्रं व्याख्यातं स न सूत्रार्थ इत्यर्थः / अवयवविपर्यासवचनस्य सूत्रानर्थत्वे कारणं जिज्ञासते- कस्मादिति / उत्तरं पद्येनाह- यस्येति, यस्य पदार्थस्य येन पदार्थेन सह अर्थतः= सामर्थ्यात् संबन्धो भवति तस्य पदार्थस्य तेन पदार्थेन सह स संबन्धः समीपस्थस्येव दूरस्थस्यापि भवत्येव यथा पित्रा पुत्रस्य तथा च वह्निना धूमस्य स्वज्ञानज्ञाप्यत्वलक्षणः संबन्धो यथा 'वह्निमान् धूमात् ' इत्यत्र भवति तथा 'वह्निमान् . महानसवद् धूमात्' इत्यादावपि व्यवधाने सत्यपि भवतीति अवयवविपर्यासेन वचनेपि हेतोहेत्वाभासत्वं नापद्यते इत्यर्थः, विपक्षे बाधकमाह- अर्थत इति, अर्थतः स्वशक्या असमर्थानाम् परस्परसंबन्धरहितानामानन्तर्य साध्यसाधनभावे कारणं न भवति. नहि वह्निमान् जलादित्येवमानन्तर्येपि वह्निजलयोः साध्यसाधनभावः संभवति तस्माद् हेतोविपर्यासेन वचनेपि हेत्वाभासत्वानुपपत्त्या उक्तमवयवविपर्यासवचनम्= व्याख्यानं न सूत्रार्थ इत्यर्थः / स्ववक्तव्यमाह- इत्येतदिति, उक्तवचनानुकूल्यात् 'वह्निमान् महानसवद् धूमात्' इत्येवं विपर्यासेनाप्युक्तो हेतुः उदाहरणसाधर्म्यात् प्रत्युदाहरणवैधाच्च यत् हेतुलक्षणयुक्तश्च हेतुर्हेत्वाभासो न भवतीति हेतोविपर्यासेनापि प्रयोगे साध्यसाधकत्वसंभवाद्' हेत्वाभासत्वापत्तिर्नास्तीत्यन्वयः, अवयवानां विपर्यासेन वचने तु अप्राप्तकालनामकं निग्रहस्थानं पञ्चमाध्याये उक्तमिति तादृशावयवविपर्यासस्यैवात्रापि सूत्रार्थत्वे पुनरुक्तिरेव स्यादिति तन्न सूत्रार्थः किं तु भाष्योक्त एव सूत्रार्थ इत्याह- अवयवेति // 9 // . छलं लक्षयति- वचनेति, अर्थविकल्पस्य= अर्थभेदस्य= वक्तुरनभिप्रेतस्यार्थान्तरस्योपपादनेन यो वचनविघातः= वाक्यविरोधप्रदर्शनं तत् छलमित्युच्यते यथा- नवीनकम्बलत्वाभिप्रायेण 'नवकम्बल:' इत्युक्ते नवत्वसंख्यानुपपत्तिप्रदर्शनेन वाक्यविरोधप्रदर्शनं छलमिति सूत्रार्थः। अत्र सामान्यलक्षणे छलविभागसूत्रमवतारयति- विभागश्चेति, छलानां विभाग इत्यन्वयः / तदिति- तत्= छलं त्रिविधम्- वाक्छलं सामान्यच्छलमुपचारच्छलं चेति सूत्रान्वयः // 11 //