________________ प्रसन्नपदापरिभूषितम् [1 अध्याये. २आह्निके तेषाम अविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् // 12 // नवकम्बलोयं माणवक इति प्रयोगः अत्र 'नवः कम्बलोऽस्य' इति वक्तुरभिप्रायः, विग्रहे तु विशेषो न समासे, तत्रायं छलवादी वक्तुरभिप्रायादविवक्षितमन्यार्थम्- 'नव कम्बला अस्येति तावदभिहितं भवता' इति कल्पयति. कल्पयित्वा चाऽसंभवेन प्रतिषेधति- 'एकोऽस्य कम्बलः कुतो नव कम्बलाः' इति, तदिदं सामान्यशब्दे= वाचि छलं वाक्छलमिति / अस्य प्रत्यवस्थानम्- सामान्यशब्दस्याऽनेकार्थत्वेऽन्यतराभिधानकल्पनायां विशेषवचनम्- नवकम्बलः / इत्यनेकार्थस्याभिधानम्- 'नवः कम्बलोऽस्य' 'नव कम्बला अस्य 'इति. एतस्मिन् प्रयुक्ते येयं कल्पना 'नव कम्बला अस्येत्येतद् भवताभिहितं तच्च न संभवति ' इति एतस्यामन्यतराभिधानकल्पनायां विशेषो वक्तव्यः यस्माद्विशेषोऽर्थविशेषेषु विज्ञायते- अयमोंऽनेनाभिहित इति. स च विशेषो नास्ति तस्माद् मिथ्यानियोगमात्रमेतदिति / प्रसिद्धश्च लोके ___अग्रिमसूत्रमवतारयति- तेषामिति, तेषां विभक्तानां छलानां मध्ये सूत्रकृत् वाक्छलं लक्षयती. त्यर्थः / अविशेषेति, अत्र ‘अविशेषाभिहितार्थे ' इति वक्तव्यमासीत्. अविशेषेण= सामान्यरूपेणाऽभिहितोऽथों यस्य तादृशे= अविशेषेणार्थबोधके वाक्ये प्रयुक्ते सति वक्तुरभिप्रायात्= अभिप्रायापेक्षया याऽर्थान्तरकल्पना तद् वाक्च्छलं यथा नवीनकम्बलत्वाभिप्रायेण 'नवकम्बलः' इतिसामान्यवाक्ये प्रयुक्ते वक्तुरभिप्रायापेक्षया याऽर्थान्तरस्य नवसंख्याककम्बलत्वस्य कल्पना तया चैककम्बले वाक्यवि. रोधप्रदर्शनं तद् वाक्छलमिति सूत्रार्थः, यथाश्रुतसूत्रपक्षे तु अर्थे= पदार्थे अविशेषाभिहितत्वं नोपपद्यते वक्त्रा विशेषेणैवाभिधानाद् वाक्ये त्वविशेषेणाभिहितार्थत्वमुपपद्यते इत्यनुसंधेयम् / ब्याचष्टे- नवेति, प्रयोगः= उदाहरणम् / अत्र वक्तुरभिप्रायमाह- अत्रेति, 'नवः कम्बलोऽस्य ' इति वक्तुरभिप्रायपक्षे विग्रहः. 'नव= नवसंख्याकाः कम्बला अस्य ' इति छलवाद्यभिप्रायपक्षे विग्रह इति विग्रहे विशेषोस्ति समासस्तूभयत्रापि 'नवकम्बलः' इत्येवेति समासे विशेषो नास्तीति वाक्यस्य नवसंख्याककम्बलपरत्ववर्णनमपि संभवतीत्यर्थः / छलापत्ति प्रदर्शयति- तत्रेति / अन्यार्थमाह- नवेति / कल्पयति वाक्यार्थम् / प्रतिषेधमाह- एक इति / नव नवसंख्याकाः / उपसंहरति- तदिदमिति, सामान्येति वाक्छलशब्दस्य व्युत्पत्तिः / तथा च 'नवकम्बलः' इति सामान्यरूपेण= उभयपक्षानुकूल्येनार्थबोधके वाक्ये कम्बलस्य नवत्वसंख्याकत्वानुपपत्तिप्रदर्शनमेव वाक्छलमित्यन्वयः स्पष्टमन्यत् / ___ एवं निरूपितछलस्य प्रत्याख्यानप्रकारमाह- अस्येति, अस्य उक्तच्छलस्य, प्रत्यवस्थानम् खण्डनमारभ्यते, प्रयुक्त: सामान्यशब्दो यत्रानेकार्थों भवति तत्र तस्यान्यतराभिधानकल्पनायाम्= अम्यतरार्थकल्पनायां विशेषवचनम्= कल्पितान्यतरार्थोपपादको विशेषो वक्तव्यो भवति येन तादृशविशेषात् स कल्पितोऽर्थ उपपद्यतेत्यर्थः / उदाहरति- नवेति, 'नवकम्बलः' इति सामान्यपदं यदुक्तं तद् अनेकार्थाभिधानम्= अनेकार्थबोधकमस्ति यतोस्य 'नवः कम्बलोऽस्य' इत्यपि 'नव कम्बला अस्य' इत्यपि चार्थः संभवति अत एवायं शब्दः सामान्यशब्द इत्युच्यते. एतस्मिन्= 'नवकम्बलः' इतिपदे प्रयुक्ते सति या भवतः 'नव कम्बला अस्येति भवताऽभिहितम्= उक्तं तत्= नवसंख्याककम्बलवत्त्वं च न संभवति- एकस्यैव कम्बलस्य दृश्यमानत्वात्' इतीयमन्यार्थकल्पना एतस्यामन्यतराभिधानकल्पनायां विशेषः= एतत्कल्पनोपपादको विशेषो वक्तव्यः यस्माद् विशेषवचनादर्थविशेषेषु= 'नव कम्बला अस्य' इत्यस्मिन्नर्थे विशेषः= अयमेवाओं मयोक्त इति विशेषो विज्ञायते= विज्ञायेत= 'अयमोंऽनेन वक्त्राऽभिहितः' इति विज्ञायेत सः= तादृशश्च विशेषोत्र नास्ति येन ‘मव कम्बला अस्य ' इत्यर्थो मयोक्त इति