________________ छलम् न्यायभाष्यम् / शब्दार्थसंबन्धोऽभिधानाभिधेयनियमनियोगः- अस्याभिधानस्याऽयमर्थोऽभिधेय इति. समानः सामान्यशब्दस्य विशेषो विशिष्टशब्दस्य, प्रयुक्तपूर्वाश्चमे शब्दा अर्थे प्रयुज्यन्ते नाऽप्रयुक्तपूर्वाः, प्रयोगश्चार्थसंप्रत्ययार्थः अर्थप्रत्ययाच व्यवहार इति, तत्रैवमर्थगत्यर्थे शब्दप्रयोगे सामर्थ्यात् सामान्यशब्दस्य प्रयोगनियमः. 'अजां ग्रामं नय' 'सर्पिराहर' 'ब्राह्मणं भोजय, इति सामान्यशब्दाः सन्तोऽवयवेषु प्रयुज्यन्ते. सामर्थ्याद् यत्रार्थक्रियादेशना संभवति तत्र प्रवर्तन्ते नार्थसामान्ये-क्रियादेशनाऽसंभवात् , एवमयं सामान्यशब्दः 'नवकम्बलः' इति. योऽर्थः संभवति- ' नवः कम्बलोऽस्य ' इति तत्र प्रवर्तते. यस्तु न संभवति- 'नव कम्बला अस्य' इति तत्र न प्रवर्तते, सोयमनुपपद्यमानार्थकल्पनया परवाक्योपालम्भो न कल्पते इति // 12 // सिध्येत् तस्मात् एतत्= 'नव कम्बला अस्येति भवताभिहितं नवकम्बलशब्देन ' इति नियोगः= कुचोद्यं मिथ्यानियोगमात्रं यतो मया नवीनकम्बलाभिप्रायेणैव नवकम्बल इत्युक्तं न तु नवसंख्याककम्बलाभिप्रायेणेत्येवं छलस्य प्रत्याख्यानं कर्तव्यमित्यन्वयः / अत्र 'नवकम्बलः' इतिशब्दस्य 'नवः कम्बलोऽस्य ' इत्येवार्थः संभवति न त्वन्य इत्युपपादनार्थ ग्रन्थमारभते- प्रसिद्धश्चेति, लोके शब्दार्थयोरभिधानाभिधेयनियमनियोगः= वाच्यवाचकभावलक्षणः संबन्धः प्रसिद्ध एव यथा ' अस्याभिधानस्यघटादिशब्दस्य अयमर्थः= कम्बुग्रीवादिमदादिपदार्थः अभिधेयः= वाच्यस्तस्य च घटादिशब्दो वाचक: ' इति, तत्रापि सामान्यशब्दस्य समानः= सामान्यार्थो वाच्यो भवति यथा ब्राह्माणशब्दस्य ब्राह्मणत्वावच्छिन्नः सामान्यः. विशिष्टशब्दस्य विशेषशब्दस्य विशेषो वाच्यो भवति यथा तैलङ्गशब्दस्य तैलङ्गः स च विशेषार्थ एव / अनेनोपपादनेन प्रकृते भवन्मते किं प्राप्तभित्याशङ्कयाह- प्रयुक्तेति, इमे सर्वे शब्दा प्रयुक्तपूर्वाः= तत्तदर्थविशेषबोधनार्थ पूर्वैराप्तैः प्रयुक्ता एवाधुनाऽर्थे= अर्थप्रत्यायनार्थ प्रयुज्यन्ते न त्वऽप्रयुक्तपूर्वास्तथा च तत्तदर्थप्रत्यायनार्थ शब्दप्रयोगोऽनादिकालिकः सिद्धः शब्दप्रयोगश्चार्थसंप्रत्ययार्थः= तत्तदर्थप्रतीत्यर्थ एव तादृशार्थप्रत्ययाच लोकव्यवहारो भवति लोकव्यवहारश्च प्रसिद्धार्थविषयको भवति / पर्यवसितमाह- तत्रेति, एवमुक्तरीत्या शब्दप्रयोगे अर्थगत्यर्थे= तत्तदर्थप्रतीत्यर्थ सिद्धे सामान्यशब्दस्य प्रयोगनियमः= तदर्थबोधकत्वं सामर्थ्याद् भवति यतो यादृशार्थप्रतिपादनसमर्थः शब्दो भवति तादृशार्थे प्रयोगो भवति नान्यत्र / उदाहरति- अजामिति, अत्र अजाग्रामसर्पिाह्मणशब्दाः सामान्यशब्दाः- सामान्यत एवाजादिपदार्थानां बोधकत्वात् अथापि अर्थावयवेषु= व्यक्तिविशेषेष्वेव प्रयुश्यन्ते अर्थादेते सामान्यशब्दा अपि यत्र यस्यां व्यक्तौ अर्थक्रियादेशना= नयनादिक्रियानिर्देशः संभवति तत्र= तस्यामेव व्यक्तौ तद्बोधानार्थ सामर्थ्यात्= स्वशक्त्या प्रवर्तन्ते यथात्राजादिशब्दः संनिहितायामेवाजादिब्यक्तौ प्रवर्तते न त्वर्थसामान्ये= अजादिपदार्थमात्रे- क्रियादेशनाऽसंभवात्= अजादिपदार्थमात्रे नयनादिक्रियानिर्देशासंभवात् न हि केनाप्यऽप्रमत्तेनाजादिमात्रस्य नयनादिक्रिया निर्देष्टुं शक्यते. न च 'अजां नय / इत्यजादिशब्देन सामान्यवाचकेनाप्यजामात्रस्य नयनं प्रतिपादयितुं शक्यते तस्मात् सामान्यशब्देनापि वक्तुर्विशेषार्थविषयकाभिप्राये सति विशेषव्यक्तिरेव बोध्यते न सामान्यं. विशेषशब्दस्य तु सामान्यबोधने शक्तिरेव नास्तीत्यर्थः / प्रकृतमाह- एवमिति, एवम्= अजादिशब्दवत् 'नवकम्बलः' इत्ययमपि सामान्यशब्द एव अस्य योऽर्थः संभवति- 'नवः कम्बलोऽस्य' इति तत्र प्रवर्तते= तमेव बोधयति यस्त्वों न संभवति- 'नव कम्बला अस्य ' इति तत्र न प्रवर्तते= तं न बोधयति. असंभवश्वात्र नवसंख्याककम्बलानां प्रत्यक्षानुपलब्ध्या बाधादेव / उपसंहरति- सोयमिति, 'नव कम्बला अस्येति भवताभिहितं तच्च न संभवति- कम्बलस्यैकत्वात् ' इत्येवं योऽनुपपद्यमानार्थकल्पनया परवाक्योपालम्भ:== मद्वाक्यविरोधप्रदर्शनं तद् न कल्पते= न युक्त इत्येवं प्रदर्शितच्छलस्य प्रत्याख्यानं कर्तव्यमित्यन्वयः // 12 //