________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. २आह्निकेसंभवतोऽर्थस्याऽतिसामान्ययोगादसंभूतार्थ कल्पना सामान्यच्छलम् // 13 // 'अहो खल्वसौ ब्राह्मणो विद्याचरणसंपन्नः' इत्युक्ते कश्चिदाह- 'संभवति ब्राह्मणे विद्याचरणसंपत्' इति, अस्य वचनस्य विघातोयविकल्पोपपत्या= असंभूतार्थविकल्पनया क्रियते- 'यदि ब्राह्मणे विद्याचरणसंपत् संभवति ? व्रात्येपि संभवेत् वायोपि ब्राह्मणः सोप्यस्तु विद्याचरणसंपन्नः' इति, यद् विवक्षितमर्थमामोति चाऽत्येति च तदतिसामान्य यथा ब्राह्मणत्वं विद्याचरणसंपदं कचिदामोति कचिदत्येति, सामान्यनिमित्तं छलं सामान्यच्छलमिति / अस्य च प्रत्यवस्थानम्- अविवक्षितहेतुकस्य विषयानुवादः प्रशंसार्थत्वाद् वाक्यस्य. तदत्राऽसंभूतार्थकल्पनानुपपत्तिः यथा- 'संभवन्त्यस्मिन् क्षेत्रे शालयः / इति. अनिराकृतम- सामान्यच्छलं लक्षयति- संभवत इति, संभवतोऽर्थस्य= संभावितार्थस्य वाक्यस्य किं वा संभावितस्यार्थविशेषस्य यथा ब्राह्मणविशेषस्य अतिसामान्ययोगात्= अतिसामान्यस्य ब्राह्मणत्वादिधर्मस्य संबन्धाद् याऽसंभूतार्थकल्पना तत् सामान्यच्छलमित्युच्यते- सामान्यधर्माश्रयणेन प्रवृत्तत्वाद् . यथा 'संभवति ब्राह्मणे विद्याया आचारस्य च संपत्तिः' इत्युक्ते परो वदति 'यदि ब्राह्मणे विद्याचरणसंपत् तदा सा व्रात्येपि स्यात् ब्रायोपि ब्राह्मणः' इति. अत्र व्रात्यस्य ब्राह्मणत्वेपि उपनयनादिसंस्काराभावाद् वस्तुतो विद्याचरणसंपद् न संभवति तत्रातिसामान्यं ब्राह्मणत्वमाश्रित्य असंभूतार्थस्य= असं. भावितार्थस्य व्रात्ये विद्याचरणसंपदो या कल्पना तदेव सामान्यच्छलमिति सूत्रार्थः / व्याचष्टे- अहो इति, ब्राह्मणः= ब्राह्मणविशेषः / उक्तं कश्चित् स्वीकरोति- संभवतीति / अत्र छलमवतारयति- अस्येति, अस्य= उक्तस्य, अर्थविकल्पोपपत्त्या वचनविघातश्छलमिति सामान्यलक्षणमनुवदति-वचनस्येति, अर्थविकल्पोपपत्त्या= अर्थविकल्पोपपादनपूर्वकमसंभूतार्थकल्पनयोक्तवचनस्य विघातः क्रियते= विरोधः प्रदीते यत् तदेव च्छलमित्यर्थः, किं वात्राऽसंभूतार्थकल्पनैवार्थविकल्पोपपत्तिर्विज्ञेया / छलवाक्यमाह- यदीति, व्रात्ये= उपनयनादिसंस्कारहीने जन्ममात्रेण ब्राह्मणे, सः= व्रात्यः / अत्र "सावित्रीपतिता व्रात्याः" इत्यादिस्मृतिरनुसंधेया. व्रात्यस्य संस्काराभावाद् विद्या न संभवति अथापि ब्रात्यगतब्राह्मणत्वमाश्रित्य या विद्याचरणसंपत्कल्पना सा ह्यऽसंभूतार्थकल्पनैव तया पूर्वोक्तवाक्ये यो विरोधः प्रदर्शितस्तदेव च्छलम् , सा चासंभूतार्थकल्पना ब्राह्मणत्वं सामान्यमाश्रित्य कृतेति सर्व स्पष्टम् / अत्रोक्तं ब्राह्मणत्वस्य विद्याचरणसंपत्प्रयोजकत्वं न संभवतीति प्रदर्शनमेव विरोधप्रदर्शनम् / अतिसामान्यस्य स्वरूपमाह- यदिति, विवक्षितमर्थ यथात्र विद्याचरणसंपदम्, आप्नोति= सामानाधिकरण्येन प्राप्नोति यथा ब्राह्मणविशेषव्यक्तौ ब्राह्मणत्वस्य विद्याचरणसंपदश्च सामानाधिकरण्यं स्पष्टम् , अत्येति= व्यभिचरति व्रात्ये / उक्तमुदाहरति- यथेति / सामान्यच्छलशब्दस्य व्युत्पत्तिमाह- सामान्येति / / उक्तच्छलस्य खण्डनप्रकारमाह- अस्येत्यादिना / न विवक्षितः उक्तो हेतुर्यत्र तस्याविवक्षितहेतुकस्य वाक्यस्य प्रशंसार्थत्वाद् विषयानुवादः= विषयानुवादमात्रपरत्वं भवति यथोक्तवाक्ये ब्राह्मणत्वं विद्याचरणसंपद्धेतुत्वेन नोक्तं येन ब्राह्मणत्वहेतुना व्रात्ये विद्याचरणसंपदापत्तिः स्यात् किं तूक्तं वाक्यं ब्राह्मणविशेषस्य प्रशंसापरमिति तादृशब्राह्मणे विषयभूताया विद्यमानाया विद्याचरणसंपदोऽनुवादमात्रपरमेवेति तत्= तस्मादत्र= उक्तवाक्येऽसंभूतार्थस्य व्रात्ये विद्याचरणसंपदः कल्पना नोपपद्यते- ब्राह्मणत्वस्य विद्याचरणसंपद्धेतुत्वेनानु क्तत्वादित्यन्वयः, उदाहरति- यथेति, ' संभवन्त्यस्मिन् क्षेत्रे शालयः'