________________ छलम् ] न्यायभाष्यम् / विवक्षितं च वीजजन्म. प्रवृत्तिविषयस्तु क्षेत्र प्रशस्यते. सोयं क्षेत्रानुवादो नास्मिन् शालयो विधीयन्ते इति, बीजात्तु शालिनिवृत्तिः सती न विवक्षिता, एवम् ‘संभवति ब्राह्मणे विद्याचरणसंपत्' इति संपद्विषयो ब्राह्मणत्वं न संपद्धेतुः, न चात्र हेतुर्विवक्षितः- विषयानुवादस्त्वयं प्रशंसार्थत्वाद् वाक्यस्य / सति ब्राह्मणत्वे संपद्धेतुः समर्थ इति विषयं च प्रशंसता वाक्येन यथाहेतु फलनिर्वृत्तिर्न प्रत्याख्यायते, तदेवं सति वचनविघातोऽसंभूतार्थकल्पनया नोपपद्यते इति // 13 // धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारच्छलम् // 14 // अभिधानस्य धर्मो यथार्थप्रयोगः धर्मविकल्पः= अन्यत्र दृष्टस्यान्यत्र प्रयोगः तस्य निर्देशे= धर्मविकल्पनिर्देशे यथा- 'मश्चाः क्रोशन्ति' इति. अर्थसद्भावेन प्रतिषेधः-'मश्चस्थाः इत्यत्र बीजजन्म= शालिसत्त्वं न निराकृतम्- 'शालयो न सन्ति' इति, नापि विवक्षितम्-' शालयः सन्ति ' इति. किं त्वनेन वाक्येन प्रवृत्तिविषयः= व्यवहारविषयभूतम् दृश्यमानम् = प्रस्तुतं क्षेत्रं प्रशस्यते- शाल्युत्पादनसमर्थमिदं क्षेत्रमिति, सोयं क्षेत्रानुवाद एव प्रशंसागर्भवादित्यस्मिन् वाक्ये शालयो न विधीयन्ते= शालिसत्त्वं न प्रतिपाद्यते, बीजात्तु या शालिनिवृत्तिः= शालिसंपत्तिरस्ति सा न विवक्षितास्ति नापि निराकृतास्ति. तथा च यथेदं वाक्यं क्षेत्रप्रशंसापरमेव न तु शालिसत्त्वपरं तथैवोक्तं वाक्यं ब्राह्मणविशेषस्य प्रशंसापरमेव न तु ब्राह्मणत्वस्य विद्याचरणसंपद्धेतृत्वप्रतिपादनपरं येन ब्रात्ये विद्याचरणसंपदापत्तिस्तेन स्यादित्यर्थः / प्रकृतमाह- एवमिति, संपद्विषयः= विद्याचरणसंपत्समानाधिकरणम् / नेति- अत्र वाक्ये हेतुः= हेतुत्वेन ब्राह्मणत्वं न विवक्षितं येन तादृशब्राह्मणत्वेन ब्रात्येपि विद्याचरणसंपदापत्तिः स्यात् किं त्वस्य वाक्यस्य प्रशंसार्थत्वात् विषयस्य= ब्राह्मणविशेषनिष्ठाया विद्या. चरणसंपदोऽनुवादमात्रमित्यर्थः / सतीति- ब्राह्मणत्वे सति विद्याचरणसंपदो हेतुरध्ययनाभ्यासादिः समर्थः- संपज्जनको भवति नान्यथेति विषयप्रशंसापरेण वाक्येन यथाहेतु= अभ्यासाद्यनुसारेण फलनिवृत्तिः संपत्प्राप्तिन प्रत्याख्यायते तथा च विद्याचरणसंपत् यत्रास्ति तत्र स्वहेतुनास्ति न तु ब्राह्मणत्वमात्रेण येन ब्रात्येप्यापद्येत तथा चैवमसंभूतार्थकल्पनया वचनविघात:= उक्तवाक्ये विरोधो नोपपद्यते किं तु संभूतार्थकल्पनयैव विरोध आपद्यते इत्येवमुपसंहरति- तदेवमिति // 13 // उपचारच्छलं लक्षयति- धर्मेति, धर्मविकल्पेन= शक्तिलक्षणयोरन्यतरवृत्त्या निर्देशे= प्रयोगे कृते अर्थात् शत्त्या शब्दप्रयोगे कृते लक्षणया योर्थसद्भावस्य प्रतिषेधस्तथा लक्षणया शब्दप्रयोगे कृते शत्त्या यस्तदर्थसद्भावस्य प्रतिषेधस्तद् उपचारच्छलं यथा लक्षणया 'गङ्गायां घोषः' इत्युक्ते 'न गङ्गायां घोषः संभवति / इति शत्त्या यो गङ्गाप्रवाहे घोषसद्भावप्रतिषेधस्तदुपचारच्छलं. यथा च शक्त्या 'गङ्गायां मीनः' इत्युक्ते गङ्गापदलक्षणया यो गङ्गातीरे मीनसद्भावप्रतिषेधस्तदुपचारच्छलमिति सूत्रान्वयः, अत्र- "धर्मः शब्दस्यार्थेन संबन्धस्तस्य विकल्पः= विविधः कल्पः शक्तिलक्षणान्यतररूपस्तथा च शक्तिलक्षणयोरेकतरवृत्त्या प्रयुक्ते शब्दे तदपरवृत्त्या यः प्रतिषेधः स उपचारच्छलम्" इति विश्वनाथभट्टाः ।व्याचष्टे- अभिधानस्येति, अभिधानस्य= शब्दस्य यथार्थप्रयोगः= शक्त्या यः प्रयोगः स एव धर्मः, अन्यत्र दृष्टस्य योऽन्यत्र प्रयोगः= लक्षणया प्रयोगः स एव धर्मविकल्पस्तस्य धर्मविकल्पस्य निर्दिशे अर्थात् लाक्षणिकशब्दप्रयोगे कृते शक्त्या यस्तदर्थसद्भावस्य प्रतिषेधस्तदुपचारच्छलमित्यन्वयः / उदाहरति- यथेति, अत्र मञ्चशब्दस्य मञ्चस्थपुरुषे लक्षणा / अत्र छलमवतारयति- अथेति, अर्थस्य= क्रोशनकर्तृत्वस्य मञ्चस्थपुरुषेषु सद्भावेन मञ्चेषु प्रतिषेध इत्यर्थः, वस्तुतस्त्वत्र 'अर्थासद्भावेन' इति वा 'अर्थ