________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. २आडिकेपुरुषाः क्रोशन्ति न तु मश्चाः क्रोशन्ति' / का पुनरत्रार्थविकल्पोपपत्तिः ?, अन्यथा प्रयुक्तस्याऽन्यथाऽर्थकल्पनम् = भक्त्या प्रयोगे प्राधान्येन कल्पनम् / उपचारविषयं छलम् उपचारच्छलम् , उपचारः= नीतार्थः= सहचरणादिनिमित्तेनाऽतद्भावे तद्वदभिधानम् उपचार इति / अत्र समाधिः- प्रसिद्ध प्रयोगे वक्तुर्यथाभिप्रायं शब्दार्थयोरनुज्ञा प्रतिषेधो वा न छन्दतः, प्रधानभूतस्य शब्दस्य भाक्तस्य च गुणभूतस्य प्रयोग उभयोलॊकसिद्धः सिद्धप्रयोगे यथा वक्तुरभिप्रायस्तथा शब्दार्थावनुज्ञेयौ प्रतिषेध्यौ वा न छन्दतः, यदि वक्ता प्रधानशब्दं प्रयुङ्क्ते ? तथाभूतस्याभ्यनुज्ञा प्रतिषेधो वा न छन्दतः, अथ गुणभूतं ? तदा गुणभूतस्य, यत्र तु वक्ता गुणभूतं शब्दं प्रयुङ्क्ते प्रधानभूतमभिप्रेत्य परः प्रतिषेधति ? स्वमनीषया प्रतिषेधोऽसौ भवति न परोपालम्भ इति / / 14 // सद्भावस्य ' इति वा पाठो युक्तः / प्रतिषेधवाक्यमाह-मञ्चस्था इति / सामान्यलक्षणोक्तामर्थविकल्पोपपत्तिमत्र जिज्ञासते- केति / उत्तरमाह- अन्यथेति, अन्यथा लक्षणया प्रयुक्तस्यात्र मञ्चशब्दस्य अन्यथा शत्त्याऽर्थकल्पनम् = शक्यार्थग्रहणमेवार्थविकल्पोपपत्तिः / उक्तं व्याचष्टे- भत्त्येति, भत्त्या लक्षणया प्रयोगे कृते प्राधान्येन= शक्त्याऽर्थकल्पनम्= शक्त्यार्थग्रहणमितियावत् / उपचारच्छलशब्दस्य व्युत्पत्तिमाह- उपचारेति, उपचारविषयम= लक्षणाविषयम् / उपचारपदार्थमाह- नीतार्थ इति, नेयार्थ इत्यर्थः, गौणीलक्षणाकारणमितियावत् / व्याचष्टे- सहेति, अतद्भावेपि= मञ्चानां क्रोशनकर्तृत्वाभावेपि सहचरणादिनिमित्तेन= क्रोशनकर्तृपुरुषसंबन्धेन तद्वत्= क्रोशनकर्तृवद् यदभिधानम्= शब्देन कथनं स उपचार इत्यलम् / __ उक्तच्छलस्य खण्डनप्रकारमाह- अत्रेति, समाधिः= स्वपक्षसमाधानं तत्प्रकार उच्यते इत्यर्थः / प्रसिद्ध शब्दप्रयोगे कृते वक्तुः यथाभिप्रायम्= अभिप्रायानुसारेणैव शब्दार्थयोः= शब्दार्थस्य अनुज्ञा= स्वीकारः= मण्डनं प्रतिषेधः= खण्डनं वा कर्तव्यं न छन्दतः= स्वेच्छया= वक्त्रभिप्रायप्रातिकूल्येन, किं वा शब्दार्थयोरित्यत्र अर्थस्य खण्डनमण्डने प्रसिद्ध एव शब्दस्यापि यथा सूर्याभिप्रायेण 'मित्रः' इत्युक्ते सुहृदभिप्रायेण 'मित्रम्। इति वक्तव्यं न 'मित्रः' इति पुंस्त्वखण्डनमित्येवं शब्दस्वरूपस्यापि खण्डनमण्डने संभवतस्ते अपि वक्त्रभिप्रायानुसारेणैव कर्तव्ये न छन्दतस्तथा च सुहृदभिप्रायेण 'मित्रः' इत्युक्ते सूर्याभिप्रायेण च ' मित्रम्' इत्युक्ते खण्डनं कर्तव्यम्. 'मित्रः' इत्यस्य सूर्याभिप्रायेण 'मित्रम्' इत्यस्य च सुहृदभिप्रायेण मण्डनं च कर्तव्यं न छन्दत इत्यनुसंधेयम् / प्रधानभूतस्य शक्तस्येत्यर्थः, भाक्तस्य= लाक्षणिकस्य. भाक्तस्य गुणभूतत्वं च गौणार्थबोधकत्वात् , उभयोः= शाक्तभाक्तयोः प्रयोगो लोके प्रसिद्ध एव यथा- 'गङ्गायां मीनः' 'गङ्गायां घोषः' इति / उक्तमेवाह- सिद्धेति, सिद्धप्रयोगे= प्रसिद्धप्रयोगस्थले, तथा= वक्त्रभिप्रायानुसारेण / स्वाभिप्रायं विशदयति- यदीति, यदि वक्ता प्रधानशब्दम्= शक्त्या= शक्यार्थाभिप्रायेण शब्दं प्रयुङ्क्ते तदा तथाभूतस्य= शक्यार्थस्यैव= शक्यार्थमाश्रित्यैव खण्डनमण्डने कर्तव्ये न छन्दतः= अशक्यार्थमाश्रित्य खण्डनमण्डने न कर्तव्ये इत्यर्थः, अथ= यदि च वक्ता गुणभूतम्= लाक्षणिकम्= लक्ष्यार्थाभिप्रायेण शब्दं प्रयुङ्क्ते तदा गुणभूतस्य= लक्ष्यार्थस्यैव= लक्ष्यार्थमाश्रित्यैव खण्डनमण्डने कर्तव्ये न त्वऽलक्ष्यार्थमाश्रित्येत्यर्थः / उपसंहरति- यत्रेति, यत्र= 'मञ्चाः क्रोशन्ति' इत्यादौ गुणभूतम्= लाक्षणिक मञ्चादिशब्दं प्रयुङ्क्ते प्रधानभूतम्= शक्याथ च मञ्चादिकमभिप्रेत्य= आश्रित्य. परः प्रतिषेधति- 'न मञ्चा: क्रोशन्ति' इति तदसौ प्रतिषेधः स्वमनीषया छन्दतः क्रियते इति परोपालम्भः= परवाक्यदोषो न भवतीत्येवमुक्तच्छलस्य निराकरणं कर्तव्यमित्यन्वयः // 14 //