________________ छलम् ] न्यायभाष्यम्। ____ वाक्छलमेवोपचारच्छलम्- तदविशेषात् // 15 // न वाक्छलादुपचारच्छलं भिद्यते- तस्याप्यर्थान्तरकल्पनयाऽविशेषात्, इहापि स्थान्यर्थो गुणशब्दः प्रधानशब्दः स्थानार्थ इति कल्पयित्वा प्रतिषिध्यते इति // 15 // न- तदर्थान्तरभावात् // 16 // न वाक्छलमेवोपचारच्छलम्- तस्यार्थसद्भावप्रतिषेधस्यार्थान्तरभावात् / कुतः ?, अर्थान्तरकल्पनात्= अन्या ह्यर्थान्तरकल्पना अन्योऽर्थसद्भावप्रतिषेध इति // 16 // अविशेषे वा किंचित्साधादेकच्छलप्रसङ्गः // 17 // छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं प्रतिषिध्यते-किंचित्साधर्म्यात्. यथा चायं हेतुत्रित्वं प्रतिषेधति तथा द्वित्वमप्यऽभ्यनुज्ञातं प्रतिधेषति- विद्यते हि किंचित्साधर्म्य द्वयोरपीति / अथ द्वित्वं किंचित्साधान्न निवर्तते ? त्रित्वमपि न निवर्त्यति // 17 // वाक्छलोपचारच्छलयोरभेदमाशङ्कते- वागिति, उपचारच्छलं वाक्छलमेव न तु वाक्छलातिरिक्तम्- तदविशेषात् उपचारच्छले वाक्छलापेक्षया विशेषाभावात् यथा 'नवकम्बलः' इत्यत्र नवसंख्याककम्बललक्षणस्यार्थान्तरस्य कल्पनेन दोषापत्तिस्तथैव 'मञ्चाः' इत्यत्र मञ्चलक्षणस्यार्थान्तरस्य कल्पनेन दोषापत्तिरिति वाक्छलोपचारच्छलयोरविशेषादैक्यमेव न भेद इति सूत्रार्थः / व्याचष्टे- नेति / भेदाभावे हेतुमाह- तस्येति, तस्य= उपचारच्छलस्यापि अविशेषात्= वाक्छलापेक्षया विशेषाभावादित्यर्थः / उक्तं विशदयति- इहापीति, यथा वाक्छलेऽर्थान्तरं कल्पयित्वा प्रतिषिध्यते-न नव कम्बला इति तथेहापि= उपचारच्छलेपि मञ्चशब्दः स्थान्यर्थः= मञ्चस्थपुरुषपरो गुणशब्दः= लाक्षणिकोस्ति तं स्थानार्थः= शक्यमञ्चपरः प्रधानशब्दः= शक्त इति कल्पयित्वा मञ्चशब्दस्य मञ्चलक्षणं शक्यार्थमाश्रित्य क्रोशनकर्तृत्वं प्रतिषिध्यते तथा चार्थान्तरकल्पनमुभयत्र समानमेवेति वाक्छलोपचारच्छलयोरभेद एवेत्यर्थः // 15 // उक्ताभेदं निराचष्टे- नेति, वाक्छलोपचारच्छलयोरभेदो नास्ति- कारणभेदात्. वाक्छलेऽर्थान्तरकल्पनम् उपचारच्छले चार्थसद्भावप्रतिषेध इति तत्= तस्य= अर्थसद्भावप्रतिषेधस्य अर्थान्तरकल्पनापेक्षया अर्थान्तरभावात्= भिन्नत्वादिति सूत्रान्वयः / व्याचष्टे-नेति, हेतुमाह- तस्येति, अर्थान्तरभावात्= अर्थान्तरकल्पनापेक्षया भिन्नत्वादित्यर्थः / भेदप्रतियोगिनं जिज्ञासते- कुत इति, कस्मादर्थान्तरत्वम् ? इत्यर्थः / उत्तरमाह- अर्थान्तरेति, वाक्छले अर्थान्तरकल्पनात् उपचारच्छले चार्थान्तरकल्पनस्याभावादुभयोःछलयोर्भेदः सिद्ध इत्यर्थः / प्रघट्टकार्थमाह- अन्येति / यत्र शक्येनार्थान्तरेण शक्यार्थस्य लक्ष्येणार्थान्तरेण लक्ष्यार्थस्य वा प्रतिषेधस्तत्र वाक्छलं यत्र च शक्यार्थेन लक्ष्यार्थस्य लक्ष्यार्थेन वा शक्यार्थस्य प्रतिषेधस्तत्रोपचारच्छलमितिविवेकस्तदेतदुपचारच्छलवृत्त्या स्पष्टम् // 16 // विपक्षे बाधकमाह- अविशेषे इति, वाक्छलोपचारच्छलयोरुक्तरीत्या किंचित्साधर्म्यात्= अर्थान्तरकल्पनामात्रप्रयुक्तसाधादविशेषे= अभेदे हि त्रयाणामपि छलानां किंचित्साधयें संभवत्येव तस्माच्च साधर्म्यात् त्रयाणामपि छलानामैक्यं स्यादिति एकच्छलप्रसङ्गः= एकमेव छलं स्याद् न तु द्वे अपीति सूत्रान्वयः / व्याचष्टे- छलस्येति, वाक्छलसामान्यच्छलयोः स्वीकारेण छलस्य द्वित्वम्= भेदद्वयमभ्यनुज्ञाय= स्वीकृत्य उपचारच्छलाऽस्वीकारेण छलस्य त्रित्वम्= भेदत्रयं प्रतिषिध्यते त्वया / त्रित्वप्रतिषेधे हेतुमाह- किंचिदिति, किंचित्साधर्म्यात्= अर्थान्तरकल्पनाप्रयुक्तसाधर्म्यात् / त्रित्वप्रति