________________ प्रसन्नपदापरिभूषितम्- [1 अध्याये. २आह्निकेअत ऊर्ध्वम्___साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः // 18 // प्रयुक्ते हि हेतौ यः प्रसङ्गो जायते स जातिः, स च प्रसङ्गः= साधर्म्यवैधाभ्यां प्रत्यवास्थानम्= उपालम्भः= प्रतिषेध इति / उदाहरणसाधात् साध्यसाधनं हेतुः इत्यस्योदाहरणवैधपेण प्रत्यवस्थानम्. उदाहरणवैधात् साध्यसाधनं हेतुः इत्यस्योदाहरणसाधयेण प्रत्यवस्थानम् / प्रत्यनीकभावाज्जायमानोऽर्थो जातिरिति // 18 // विप्रतिपत्तिरप्रतिपतिश्च निग्रहस्थानम् // 19 // षेधे बाधकमाह- यथेति, हेतुः= किंचित्साधादितिहेतुः, यथा- वाक्छलोपचारच्छलयोरभेदः किंचिसाधात् इत्येवं त्रित्वं प्रतिषेधति तथा-त्रयाणामपि छलानामभेदः किंचित्साधर्म्यात् इत्येवं द्वित्वमपि स्वीकृतं प्रतिषेधति= प्रतिषेधेत् तथा च छलैक्यमेव स्यान्न तु छलद्वित्वमपीत्यर्थः, द्वित्वप्रतिषेधे हेतुमाह- विद्यते इति, द्वयोः= वाक्छलसामान्यच्छलयोरपि किंचित्साधर्म्यम्= अर्थविकल्पोपपत्तिप्रयुक्तं साधर्म्य विद्यते एव अर्थविकल्पोपपत्तिर्हि छलसामान्यलक्षणोक्तत्वात् त्रिष्वपि छलेष्वनुस्यूतास्तीति तादृशसाधर्म्यात् छलैक्यमेवस्यात् / विपक्षेबाधकमाह- अथेति, यदि किंचित्साधर्म्यात्अर्थविकल्पोपपत्तिप्रयुक्तसाधम्र्येपि द्वित्वं न निवर्तते= वाक्छलसामान्यच्छलेतिभेदद्वयं स्वीक्रियते तदा किंचित्साधम्र्येपि= वाक्छलोपचारच्छलयोरर्थान्तरकल्पनाप्रयुक्तसाधयेपि त्रित्वमपि न निवर्त्यतीतिछलस्य भेदत्रयमुपपन्नमित्यर्थः // 17 // ___ जातिलक्षणमवतारयति- अत इति, जातिर्लक्षणीयेतिशेषः / साधयेति- वादिनोदाहरणसाधम्र्येण= अन्वयव्यात्या साध्यसाधने कते प्रतिवादिना यत्तत्र वैधयेण= व्यतिरेकव्याप्त्या प्रत्यवस्थानम= विप्रतिपत्तिः= साध्यानुपपत्तिप्रदर्शनं सा जातियथा ' अनित्यः शब्दः कृतकत्वाद् घटवद् व्यतिरेकेण व्योमवत्' इत्युक्ते 'यदि नित्याकाशवैधादनित्यः स्यात् शब्दस्तदाकाशेनाऽमूर्तत्वसाधान्नित्यः किं न स्यात् / इत्येवं जातिर्वक्तव्या, तथा वादिनोदाहरणवैधयेण= व्यतिरेकव्याप्त्या साध्यसाधने कृते यत्तत्र प्रतिवादिना उदाहरणसाधम्र्येण प्रत्यवस्थानं सा जातियथा 'अनित्यः शब्दः कृतकत्वाद् घटवद् यन्न कृतकं तन्नानित्यं यथाकाशः' इत्युक्ते 'यद्यनित्यघटसाधादनित्यः स्याच्छब्दस्तदाऽमूतत्वलक्षणादनित्यघटवैधान्नित्यः किं न स्यात्' इत्येवं जातिर्वक्तव्या तदेतद् वृत्तौ स्पष्टमितिसूत्रार्थः / व्याचष्टे- प्रयुक्ते इति, साध्यसाधनार्थ प्रयुक्ते / प्रसङ्गः- आपत्तिः= स्वसाध्यानुपपत्तिरितियावत् / उक्तप्रसङ्गस्य स्वरूपमाह- स चेति, प्रत्यवस्थानपदार्थमाह-उपालम्भ इति, उपालम्भस्वरूपमप्याहप्रतिषेध इति, साध्यप्रतिषेधो जातिरित्यर्थः / विभागमाह- उदाहरणेति, यत्रोदाहरणसाधाद् देतुः साध्यसाधको भवति तत्रोदाहरवैधम्र्येण प्रत्यवस्थानम्= साध्यानुपपत्तिप्रदर्शनं कर्तव्यं यत्र चोदाहरण. वैधाद् हेतुः साध्यसाधको भवति तत्रोदाहरणसाधम्र्येण प्रत्यवस्थानं कर्तव्यम् एतादृशं प्रत्यवस्थानमेव जातिरित्यन्वयः / जातिप्रभेदाश्च सोदाहरणाः पञ्चमाध्यायारम्भे द्रष्टव्या इदं तु सामान्यलक्षणमात्रम् / जातिशब्दस्य व्युत्पत्तिमाह- प्रत्यनीकेति, प्रत्यनीकभावात्= विरोधात्= वाद्याश्रितसाध्यसाधनप्रकारापेक्षया विरुद्धप्रकाराज्जायमानोर्थः= साध्याक्षेपः= साध्यप्रतिषेध एव जातिरित्यन्वयः, जायते इति जातिरित्यर्थः / जातिाप्तिनिरपेक्षेति विश्वनाथभट्टाः // 18 // निग्रहस्थानलक्षणमाह- विप्रतीति, विप्रतिपत्तिः= विपरीतं ज्ञानं यथाऽहेतौ हेतुत्वज्ञानम् . अप्रतिपत्तिः= अज्ञानं च निग्रहस्थानं विशेषस्तु पञ्चमाध्यायद्वितीयाहिके द्रष्टव्य इति सूत्रान्वयः / व्याचष्टे