________________ निग्रहस्थानम्] न्यायभाष्यम् / विपरीता वा कुत्सिता वा प्रतिपत्तिर्विप्रतिपत्तिः, विप्रतिपद्यमानः पराजयं पामोति निग्रहस्थानं खलु पराजयप्राप्तिः / अप्रतिपत्तिस्त्वारम्भविषयेप्यभारम्भः परेण स्थापितं वा न प्रतिषेधति. प्रतिषेधं वा नोद्धरति / असमासाच्च नैते एव निग्रहस्थाने इति // 19 // किं पुनदृष्टान्तवज्जातिनिग्रहस्थानयोरभेदोऽय सिद्धान्तवद्भेदः ? इत्यतः आह तद्रिकल्पाजातिनिग्रहस्थानबहुत्वम् // 20 // तस्य= साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पान्जातिबहुत्वम्. तयोश्च विप्रतिपत्त्यप्रतिपत्त्योर्विकल्पान्निग्रहस्थानबहुत्वम् / नानाकल्पो विकल्पः विविधो वा कल्पो विकल्पः / तत्र- अननुभाषणमऽज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणमित्यप्रतिपत्तिनिग्रहस्थानं शेषस्तु विप्रतिपत्तिरिति // 20 // विपरीतेति / फलमाह- विप्रतीति, विप्रतिपद्यमानः= उक्त विप्रतिपत्तिविशिष्टः / पराजयप्राप्ती हेतुमाहनिग्रहेति, पराजयप्राप्तिः= पराजयप्राप्तिकारणमित्यर्थः / विप्रतिपत्तिश्चोक्ता निग्रहस्थानमेवेत्युक्तविप्रतिपत्तिविशिष्टः पराजयं प्राप्नोतीतिसारः / अप्रतिपत्तिपदार्थमाह- अप्रतीति, आरम्भविषयेपि= वाद्युक्तस्य खण्डनयोग्यतायामपि यः खण्डनस्याऽप्रारम्भः स एवाप्रतिपत्तिः / उक्तं विशदयति- परेणेति, यत् परेण स्थापितम्= साधितं परो न प्रतिषेधति= न खण्डयति सोऽप्रारम्भस्तथा परेण स्वपक्षे प्रदर्शितं प्रतिषेधम्= खण्डनं नोद्धरति= न प्रत्याचष्टे सोप्य प्रारम्भः एतादृशोऽप्रारम्भ एवाऽप्रतिपत्तिरित्यन्वयः / द्विविधमेव निग्रहस्थानमिति न भ्रमितव्यमित्याह- असमासादिति, 'विप्रतिपत्त्यप्रतिपत्त्यौ' इत्येवं समासे कृते द्विवचनसार्थक्यान्निग्रहस्थानस्य द्वैविध्यमापद्येत एकवचनं तु साधुत्वार्थमप्युपन्नमिति न द्वैविध्यापत्तिः, वस्तुतस्तु विपत्तिपत्तिरप्रतिपत्तिश्च निग्रहस्थानकारणं तत्प्रस्तारान्निग्रहस्थानबहुत्वं भवति जातिबहुत्ववदित्यन्वयः // 19 // __ अग्रिमसूत्रमवतारयति- किं पुनरिति, अत्र जातिनिग्रहस्थानयोः परस्परं भेदाभेदयोर्जिज्ञासा नास्ति किं त्वऽवान्तरभेदतदभावयोरेवेति विभाव्यम्, तथा हि- जातिनिग्रहस्थानयोः किं दृष्टान्तवदऽमेदः ? किं वा सिद्धान्तवद्भेदः ? अर्थात् यथा दृष्टान्तस्यैक एव प्रकारोस्ति न त्वैऽवान्तरभेदास्तथा जातिनिग्रहस्थानयोरपि किमेकैक एव प्रकारः किं वा यथा सिद्धान्तस्य सर्वतत्रप्रतितत्रादिलक्षणा अवान्तरभेदा बहवस्तथा जातिनिग्रहस्थानयोरपि अवान्तरभेदा बहव इत्याशङ्कय जातिनिग्रहस्थानयोरपि सिद्धान्तवदऽवान्तरभेदान् सूत्रकारः प्रतिजानीते- तद्विकल्पादिति, यद्यपि उदाहरणमेव दृष्टान्त उदाहरणस्य च साधर्म्यवैधाभ्यां द्वैविध्यमुक्तमिति दृष्टान्तस्यापि द्वैविध्यं संभवति तथापि दृष्टान्तलक्षणे दृष्टान्तस्यानेकप्रकारत्वं नोक्तं किं चोदाहरणमवयवविशेष इति दृष्टान्तोदाहरणयोर्भेद इतिविज्ञेयम् / तद्विकल्पादिति- तत्= तस्य= साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पात्= बाहुल्याजातिबहुत्वम्= जातेर्बहवः= चतुर्विशतिसंख्याकाः प्रकारा भवन्ति तथा तत्= तयोः विप्रतिपत्त्यऽप्रतिपत्त्योविकल्पात् बाहुल्यान्निग्रहस्थानबहुत्वम्= निग्रहस्थानस्य बहवः- द्वाविंशतिसंख्याकाः प्रकारा भवन्तीति सूत्रान्वयः। व्याचष्टे- तस्येति, विकल्पात्= बहुत्वात् / निग्रहस्थानपक्षे तत्पदार्थमाह- तयोरिति / विकल्पपदार्थमाह- नानेति, अत्र "नानाकल्प इति स्वरूपतः, विविध इति प्रकारतः” इति तात्पर्यटीका / निग्रहस्थानेषु विप्रतिपत्त्यप्रतिपत्त्योविभागमाह- तत्रेति, अननुभाषणादिषु षट्सु निग्रहस्थानेषु अप्रतिपत्तिनिग्रहस्थानम्= निग्रहस्थानकारणं किं वा पराजयकारणं शेषः शेषेषु= अन्येषु प्रतिज्ञाहान्यादिनिग्रहस्थानेषु विप्रतिपत्तिर्निग्रहस्थानम्= निग्रहस्थानकारणं किं वा पराजयकारणमित्यर्थः // 20 //