________________ न्यायभाष्यम् / इमे प्रमाणादयः पदार्या उद्दिष्टा ययोदेशं लक्षिताः, यथालक्षणं परीक्षिष्यन्ते इति त्रिविधाऽस्य शास्त्रस्य प्रवृत्तिर्वेदिव्तयेति // ॥इति वात्स्यायनीये न्यायभाग्ये प्रथमाध्यायस्य द्वितीयमाहिकं समाप्तम् // प्रथमाध्यायश्च समाप्तः // प्रथमाध्यायमुपसंहरति- इमे इति, प्रथमसूत्रेण उद्दिष्टास्तदने यथोदेशम्= उद्देशक्रमेण लक्षिताःलक्षणेन प्रतिपादिता इत अग्रे द्वितीयाध्यायमारभ्य इमे प्रमाणादयः पदार्थाः परीक्षिष्यन्ते इतिहेतोरस्य न्यायशास्त्रस्य प्रवृत्तिरुद्देशलक्षणपरीक्षाभित्रिविधा वेदितव्येत्यन्वयः / / श्रीः॥ . // इति न्यायभाग्यप्रथमाध्यायस्य प्रसन्नपदाख्या व्याख्या समाप्ता॥