________________ अथ सटीके न्यायभाष्ये द्वितीयाध्यायस्य प्रथममाह्निकम् ___ अत ऊर्ध्व प्रमाणादिपरीक्षा सा च "विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः 1-1-41" इत्यो विमर्श एव परीक्ष्यतेसमानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायादा न संशयः // 1 // ___ समानस्य धर्मस्याऽध्यवसायात् संशयो न धर्ममात्रात् , अथ वा 'समानमनयोधर्ममुपलभे' इति धर्मधर्मिग्रहणे संशयाभाव इति, अथ वा समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि अथ द्वितीयाध्यायप्रसन्नपदा देववन्धं हयग्रीवं प्रणम्य वरदायकम् / द्वितीयाध्यायटीकेयं न्यायभाष्यस्य तन्यते // उद्दिष्टानां लक्षितानां च प्रमाणादीनां परीक्षणार्थ द्वितीयाध्यायमवतारयति- अत इति, अतः प्रथमाध्यायाद् ऊर्ध्वम्= अनन्तरम् , किंवा लक्षणानन्तरमित्यर्थः / सा च परीक्षा विमृश्य पक्षप्रतिपक्षाभ्यां यदर्थावधरणं तद्रूपेति प्रथमं विमर्शः= संशय एव परीक्ष्यते-विमर्शस्य प्रथमभावित्वादित्यन्वयः / यद्यप्युद्देशक्रमेण प्रथमं प्रमाणपरीक्षा प्राप्नोति तथापि प्रमाणप्रवृत्तेरपि प्रायः संशयपूर्वकत्वादर्थक्रमेण संशयपरीक्षैव प्रथमं युक्ता- पाठक्रमापेक्षयाऽर्थक्रमस्य प्रबलत्वादित्याशयः / समानेति- अत्र संशयलक्षणसूत्रभाष्यं प्रथमं द्रष्टव्यम् , समानधर्मस्य= सदृशधमस्याध्यवसायाद् यः संशयः प्रथमाध्याये लक्षितः सन संभवति-सदृशयोरपि पदार्थयोधर्मा भिन्ना एव भवन्ति न हि स्थाणुधर्माः पुरुषे पुरुषधर्मा वा स्थाणौ संभवन्ति येन संशयः संभवेत् तद्धर्माध्यवसायेन च तस्मिन् संशयासंभवात् , अनेकस्य धर्मोऽनेकधर्मों यथा कृतकत्वं शब्दस्य समानजातीयानां गन्धादिगुणानामसमानजातीयानां घटादिद्रव्याणां च धर्मस्तध्यवसायादपि संशयो न संभवति- न हि कृतकत्वधर्माध्यवसायात् शब्दो द्रव्यं वा गुणो वेति संशयो जायते, द्वयोः स्थाणुपुरुषयोरन्यतरस्य धर्माध्यवसायात्= असाधारणधर्माध्यवसायादपि संशयो न संभवति-असाधारणधर्माध्यवसायस्य निश्चयहेतुत्वेन प्रत्युत संशयप्रतिकूलत्वात् तथा च प्रथमाध्याये यः संशय उद्दिष्टो लक्षितश्च “समानानेकधर्मोपपत्तेः 23 " इत्यादिना स नोपपद्यते इति सूत्रा. न्वयः / अस्य प्रत्याख्यानं च षष्ठसूत्रमारभ्य वक्ष्यति / व्याचष्टे- समानस्येति, समानस्य= उभयसाधा. रणस्य धर्मस्याऽध्यवसायात्= ज्ञानात् निश्चयाद्वा संशयः संभवति न धर्ममात्रात्= समानधर्मसत्त्वमात्रात् समानधर्मो हि ज्ञातः सन् संशयजनको भवति न तु स्वरूपसत्तामात्रेणेत्यर्थः तथा च समानधर्मोपपत्तेयत् संशयकारणत्वमुक्तं तन्नोपपद्यते इत्याशयः / नन्वस्तु समानधर्माध्यवसायादेव संशय इत्याशङ्कय वर्णकान्तरमाह- अथ वेति, अनयोः स्थाणुपुरुषयोः समानं धर्ममारोहादिकमुपलभे इति ज्ञानमेव समानधर्माध्यवसायस्तदत्र धर्मधर्मिणोग्रहणं जातं धर्मधर्मिग्रहणे च जाते संशयाभावः= संक्झानुपपत्तिरित्यर्थः / ननु धर्मधर्मिग्रहणे जातेपि धर्मस्योभयसाधारणत्वज्ञानात् कथं न संशयः स्यात् ? इत्याशङ्कय वर्णकान्तरमाह- अथ वेति, समानधर्मस्य= साधारणधर्मविशिष्टधर्मिणोऽध्यवसायादपि पदार्थान्तरभूते धर्मिणि