________________ ए. प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेसंशयोऽनुपपन्नः- न जातु रूपस्यार्थान्तरभूतस्याऽध्यवसायादर्थान्तरभूते स्पर्श संशय इति, अथ वा नाऽध्यवसायात् अर्थावधारणादऽनवधारणज्ञानं संशय उपपद्यते- कार्यकारणयोः सारूप्याभवादिति / एतेन “अनेकधर्माध्यवसायात् " इति व्याख्यातम् / अन्यतरधर्माध्यवसायाच संशयो न भवति- ततो ह्यन्यतरावधारणमेवेति // 1 // विप्रतिपत्त्यऽव्यवस्थाध्यवसायाच // 2 // न विप्रतिपत्तिमात्रादव्यवस्थामात्राद्वा संशयः, किं तर्हि ?. विप्रतिपत्तिमुपलभमानस्य संशयः, एवमव्यवस्थायामपीति / अथ वा 'अस्त्यात्मा' इत्येके 'नास्त्यात्मा' इत्यपरे मन्यन्ते इत्युपलब्धेः कथं संशयः स्यात् ? इति / तथोपलब्धिरव्यवस्थिता अनुपलब्धिश्चाव्यवस्थितेति विभागेनाध्यवसिते संशयो नोपपद्यते इति // 2 // संशयो न संभवति, उदाहरति- नेति / किं वा समानस्य धर्मस्याध्यवसायादपि साम्यानुयोगिनि धर्म एव संभवति संशयो न तु धर्मिणि= धर्मिविषयक इत्यर्थः / नन्वेवमि संशयस्वरूपमुपपन्नमित्याशङ्कयाहअथ वेति, अर्थावधारणात्= पदार्थनिश्चयात् अनिश्चयात्मकः संशयो नोपपद्यते, अत्र हेतुमाह-कायेंति, कार्यकारणयोः= संशयावधारणयोः सारूप्यस्य= साम्यस्याभावात्= परस्परं विरुद्धत्वात् कार्यकारणभावश्च सरूपयोरेव भवति. विरोधश्चात्र अवधारणत्वानवधारणत्वरूपाभ्यां विज्ञेयः / वस्तुतस्तु सूत्रार्थमज्ञात्वैवायं भाष्यकारः सूत्रव्याख्याने प्रवृत्तः अत एवानेकानऽर्थविकल्पान् करोति इत्यनुसंधेयम् एवं बहुत्र प्रमाद उपलभ्यते / उक्तमन्यत्रातिदिशति- एतेनेति, अनेकधर्ममात्रात् 'अनेकं धर्ममनयोरुपलभे' इति धर्मधर्मिग्रहणे च अनेकधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्नस्तथाऽनेकधर्माध्यवसायादनवधारणात्मकः संशयोऽनुपपन्न इत्येवमुक्तवत् प्रस्तारः कर्तव्य इत्यर्थः / तृतीयं व्याचष्टे- अन्यतरेति, ततः= अन्यतरधर्माध्यवसायादन्यतरधर्मिनिश्चय एव संभवति न संशय इति // 1 // विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थायाश्च यत्संशयलक्षणे संशयकारणत्वमुक्तं तत्रानुपपत्तिमाहविप्रतीति, " न संशयः" इतिपूर्वसूत्रादनुवर्तनीयम् , विप्रतिपत्त्यध्यवसायादपि संशयो न संभवतिविप्रतिपत्तिर्हि अस्त्यात्मेत्येके नास्त्यात्मेत्यन्ये' इत्यादिरूपो विरोध एव तत्रैतादृशविप्रतिपत्तेरध्यवसायादपि संशयो नोपपद्यते- व्यवस्थाज्ञानसंभवात् . न ह्युभयोर्वादिप्रतिवादिनोः परस्परं मतविरोधेपि तटस्थस्य वा वादिप्रतिवादिनोर्वा सशयः संभवति- स्वाचार्यवाक्यानुकूल्येनैकतरपक्षस्यावधारितत्वात् / अव्यवस्थायाः= उपलब्ध्यव्यवस्थाया अनुपलब्ध्यव्यवस्थायाश्चाध्यवसायादपि संशयो न संभवति यत उपलब्ध्यव्यवस्थायाम्- 'सदप्युपलभ्यतेऽसदप्युपलभ्यते इत्युपलभ्यमाने सत्त्वासत्त्वयोः संशयो जायते' इत्युदाहृतं तत्र यदुपलभ्यते तत् सदेव भवति मरुमरीचिकास्वपि जलस्य पञ्चीकरणप्रक्रियया सत्त्वात् किं वा तत्र प्रभाकरमतेन जलस्य स्मर्यमाणत्वादुपलब्धिरेव नास्ति येनाऽसदुपलब्धिः सिध्येत् ततश्चोपलभ्यमाने जलादावसत्त्वसंशयः स्यादिति नोपलब्ध्यव्यवस्थाध्यवसायात् संशयः संभवति / अनुपलब्ध्यव्यवस्थाध्यवसायादपि संशयो नोपपद्यते यतोऽनुपलब्ध्यव्यवस्थायाम्- 'सतोप्यनुपलब्धिर्भवति असतोप्यनुपलब्धिर्भवतीति अनुपलभ्यमानेपि सत्त्वासत्त्वयोः संशयो जायते' इत्युदाहृतं तत्र अन्तर्हितमनुपलभ्यमानमपि व्यवधानादिप्रतिबन्धकवशान्नोपलभ्यते इति सदेव. यच्चासत्त्वादेवानुपलभ्यमानं सदसदेवेति निश्चयसंभवान्न विदुषोनुपलभ्यमाने सत्त्वासत्त्वयोः संशयो जायते अविदुषां चात्राधिकार एव नास्ति तथा चानुपलब्ध्यव्यवस्थाध्यवसायादपि संशयो नोपपद्यते इति सूत्रान्वयः / व्याचष्टे- नेति / संशयकारणं जिज्ञासते- किमिति / उत्तरमाह- विप्रतिपत्तिमिति / उक्तमन्यत्रातिदिशति- एवमिति, विप्रतिपत्तिरव्यवस्था च न स्वरूपसती संशयकारणं किं तु ज्ञाता सतीत्यर्थः / नन्वस्तु विप्रतिपत्तेरुक्ताव्यवस्थायाश्च ज्ञानादेव संशय इति संशयापत्तिमाशङ्कय पक्षान्तरमाह- अथ वेति, इत्युपलब्धेः=