________________ 91 संशयपरीक्षा ] न्यायभाष्यम् / विप्रतिपत्तौ च संप्रतिपत्तेः // 3 // __ यां च विप्रतिपत्तिं भवान् संशयहेतुं मन्यते सा संप्रतिपत्तिः- सा हि द्वयोः प्रत्यनीकधर्मविषया. तत्र यदि विप्रत्तिपत्तेः संशयः ? संप्रतिपत्तरेव संशय इति // 3 // अव्यवस्थात्मनि व्यवस्थितत्वाचाऽव्यवस्थायाः // 4 // न संशयः, यदि तावदियमव्यवस्था आत्मन्येव व्यवस्थिता ? व्यवस्थानादव्यवस्था न भवतीत्यनुपपन्नः संशयः, अथाऽव्यवस्थाऽऽत्मनि न व्यवस्थिता ? एवमतादात्म्यादव्यवस्था न भवतीति संशयाभाव इति // 4 // आत्मादेः सत्वासत्त्वयोर्मतभेदेन व्यवस्थयोपलब्धेः संशयो नोपपद्यते इत्यर्थः / अव्यवस्थाध्यवसायादपि संशयानुपपत्तिं व्याचष्टे- तथेति, कचिदुपलब्धिरव्यवस्थिता कचिच्चानुपलब्धिरव्यवस्थितेति विभागेन अध्यवसिते= अव्यवस्थाध्यवसाये जाते संशयो नोपपद्यते- अध्यवसायस्य संशयविरुद्धत्वादित्यन्वयः, अत्र "विभागेनाध्यवसिते " इत्यत्र “विभागो नाध्यवसिते " इति पाठान्तरं तथा च उपलब्धिरव्यवस्थिता अनुपलब्धिश्चाव्यवस्थिता इतिविभागः पदार्थेऽध्यवसिते सति न संभवतीति संशयो नोपपद्यते, पदार्थाध्यवसाये जाते सत उपलब्धिरसतश्चानुपलब्धिरिति निश्चयसंभवेन उपलब्ध्यनुपलब्ध्योरव्यवस्थाया विभागो नोपपद्यते येन संशय उपपद्यतेत्यन्वयः / वस्तुतस्त्वस्पष्टार्थमिदं वाक्यमित्यलम् // 2 // विप्रतिपत्तेः संशयहेतुत्वे दोषान्तरमाह किं वा विप्रतिपत्तिमुपलभमानस्यापि संशयो नोपपद्यते इत्याह- विप्रतिपत्ताविति, 'अस्त्यात्मा नास्त्यात्मा' इत्यादिविप्रतिपत्तौ सत्यामपि संप्रतिपत्तेः= निश्चयस्य सत्त्वादेव संशयो नोपपद्यते इत्यन्वयः, वादार्थ विप्रतिपत्तावुपस्थितायामपि कस्यचित् 'अस्त्यात्मा' इति संप्रतिपत्तिः कस्यचिच्च नास्त्यात्मा इति संप्रतिपत्तिर्भवत्येव संप्रतिपत्तौ च सत्यां संशयो नोपपद्यते- परस्परविरोधादिति सूत्रार्थः / व्याचष्टे- यामिति, भवान संशयस्थापकः संशयकारणत्वेन यां विप्रतिपत्तिं निर्दिशति सा विप्रतिपत्तिः संप्रतिपत्तिरेव- एकस्य पक्षस्य संप्रतिपन्नत्वादेवेत्यर्थः / हेतुमाह-सा हीति, सा विप्रतिपत्तिर्हि द्वयोः= वादिप्रतिवादिनोः प्रत्यनीकधर्मविषया परस्परविरुद्धधर्मविषया= आत्मनः सत्त्वासत्त्वविषयास्ति तत्रैकेन सत्त्वमपरेण चासत्त्वं संप्रतिपन्नमेवेति विप्रतिपत्तिः संप्रतिपत्तिरेव तत्र यदि विप्रतिपत्त्या संशयस्तदा संप्रतिपत्त्यैव संशय इति प्राप्तम्- उक्तरीत्या विप्रतिपत्तिसंप्रतिपत्त्योरभेदात् संप्रतिपत्त्या च संशयो नोपपद्यते विरोधात् तथा च विप्रतिपत्त्यापि संशयो नोपपद्यते- विपतिपत्तेः संप्रतिपत्तिरूपत्वादित्यन्वयः // 3 // ___उपलब्ध्यनुपलब्ध्योरव्यवस्थातः संशयानुपपत्तिमाह- अव्यवस्थेति, अव्यवस्थाया अव्यवस्थात्मनिस्वस्वरूपे व्यवस्थितत्वादुक्ताव्यवस्थयापि संशयो नोपपद्यते इत्यन्वयः, उपलब्ध्यव्यवस्थाऽनुपलब्ध्यव्यवस्था च स्वात्मनि व्यवस्थितास्ति न त्वव्यवस्थिता येन संशयापत्तिः स्यात्, उपलब्ध्यव्यवस्था उपलब्धौ व्यवस्थिता अनुपलब्ध्यव्यवस्था चानुपलब्धौ व्यवस्थिता न तु पदार्थे साऽव्यवस्था व्यवस्थितास्ति येन पदार्थे संशयः स्यादित्यर्थः / किं वा यथा पूर्वसूत्रे विप्रतिपत्तिसंप्रतिपत्त्योरभेदः प्रदर्शितस्तथात्र व्यवस्थाया अव्यवस्थायाश्चाभेदः प्रदर्श्यते- अव्यवस्थायाः स्वात्मनि स्वरूपेण वा व्यवस्थितत्वात् अव्यवस्थाया अपि अव्यवस्थितत्वाभावेन व्यवस्थारूपत्वात् तत्र व्यवस्थातस्तु संशयो नोपपद्यते- विरोधादेव, यदा हि व्यवस्थातः संशयो नोपपद्यते तदाऽव्यवस्थातोपि संशयो नोपपद्यतेउक्तरीत्या व्यवस्थाऽव्यवस्थयोरभेदादित्यर्थः / व्याचष्टे- नेति, न संशय इत्यनुवर्तनीयं तथा चाव्यवस्थायाः स्वात्मनि व्यवस्थितत्वादेव तया न संशय उपपद्यते इत्यन्वयः / उक्ताव्यवस्था स्वात्मनि व्यव• स्थिता वाऽनवस्थिता वेति द्विधा विकल्प्य प्रथमपक्षे संशयानुपपत्तिमाह- यदीति, अव्यवस्था आत्मनिस्वात्मनि स्वरूपे व्यवस्थानात व्यवस्थितत्वादव्यवस्थारूपा न भवतीत्यनुपपन्नः संशयः- त्वयाऽव्यव