________________ 92 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेतथाऽत्यन्तसंशयः- तद्धर्मसातत्योपपत्तेः // 5 // येन कल्पेन भवान् समानधर्मोपपत्तेः संशय इति मन्यते तेन खल्वऽत्यन्तसंशयः प्रसज्यते- समानधर्मोपपत्तेरनुच्छेदात् संशयानुच्छेदः- नायमतद्धर्मा धर्मी विमृश्यमानो गृह्यते सततं तु तद्धर्मा भवतीति // 5 // अस्य प्रतिषेधप्रपञ्चस्य संक्षेपेणोद्धारःयथोक्ताध्यवसायादेव तद्विशेषापेक्षात् संशये नाऽसं शयो नाऽत्यन्तसंशयो वा // 6 // न संशयानुत्पत्तिः संशयानुच्छेदश्च प्रसज्यते, कथम् ?. यत्तावत्- 'समानधर्माध्यवसायः संशयहेतुः न समानधर्ममात्रमिति,' एवमेतत् / कस्मादेवं नोच्यते ? इति, " विशेषापेक्षः" स्थाया एव संशयजनकत्वस्योक्तत्वादिल्यन्वयः, द्वितीयपक्षे संशयानुपपत्तिमाह- अथेति, यदि चाव्यवस्था स्वात्मनि न व्यवस्थिता तदा अतादात्म्यात्= व्यवस्थितत्वाभावादेवाऽव्यवस्था न संभवति यतः पदार्थस्य स्वरूपव्यवस्थायामेव स्वरूपसिद्धिर्भवतीति अव्यवस्थाया अपि व्यवस्थायामेव स्वरूपसिद्धिः= अव्यवस्थात्वं संभवति न त्वव्यवस्थायामपीति अव्यवस्थाया अव्यवस्थितत्वेऽव्यवस्थास्वरूपसिद्धयऽभावादेव संशयाभावः= संशयानुपपत्तिः सिद्धा- अव्यवस्थास्वरूपे सिद्धे एव संशयापत्तिसंभवात् अव्यवस्थास्वरूपं च तदव्यवस्थानादेवासिद्धमित्याशयः // 4 // संययस्वीकारेऽत्यन्तसंशयापत्तिलक्षणं दोषमाह- तथेति, यथा संशयकारणानुपपत्तिस्तथा संशयस्वीकारे तद्धर्मसातत्योपपत्तेः= संशयकारणानुवृत्त्युपपत्तेरत्यन्तं संशयः स्यात्- संशयनिवृत्तिर्न त्यात्, पदार्थमात्रस्यानुवृत्तिः संभवतीति उक्तस्य समानधोपपत्त्यादिलक्षणस्य संशयकारणस्यापि ज्ञानरूपत्वादनुवृत्तिः संभवति सति च कारणे कार्यावश्यंभावात् संशयानुच्छेदः प्राप्तः स च नेष्ट इति संशयो न स्वीकार्यस्तथा च संशयकारणासंभवेन तदनुवृत्त्यसंभवादत्यन्तसंशयापत्तिर्नास्तीति सूत्रार्थः / व्याचष्टेयेनेति, येन कल्पेन प्रकारेण समानधर्मोपपत्तेः संशयो जायते इति भवान् मन्यते सेनैव कल्पेन समानधर्मज्ञानानुवृत्त्याऽत्यन्तसंशयः= संशयानुच्छेदः प्रसज्यते / अत्र हेतुमाह- समानेति / समानधर्मोपपत्त्यनुच्छेदे समानधर्मवैशिष्टयलक्षणं कारणमाह- नायमिति, अयं धर्मी संशयविषयो विमृश्यमानः सन् अतद्धर्मा= समानधर्मरहितो न गृह्यते किं तु सततम्= सदा तद्धर्मा= समानधर्मविशिष्ट एव भवति तथा च समानधर्मविशिष्ट एव सदा गृह्यते समानधर्मविशिष्टज्ञानमेव संशयकारणं तदनुवृत्त्या हि संशयानुवृत्तिः प्राप्ता ततश्च संशयानुच्छेदः प्राप्तः स च नेष्ट इति संशयो न स्वीकार्यस्तथा च संशयकारणाभावेन तदनुवृत्तेरप्यसंभवात् संशयसातत्यापत्तिर्नस्यादित्यर्थः // 5 // एवं पञ्चभिः सूत्रैः प्रतिपादितस्य पूर्वपक्षस्य समाधानमारभते- अस्येति, प्रतिषेधस्य= संशयस्वरूपप्रतिषेधस्य, संक्षेपश्च सूत्रवाक्ये / यथोक्तेति- तद्विशेषापेक्षात्= अन्यतरस्वरूपनिर्णयाकाङ्काविशि ष्टाद् यथोक्ताध्यवसायात्= समानानेकधर्माध्यवसायात् संशयो जायते एव तदेवं संशये जाते उपपन्ने च नासंशयः= संशयाभावापत्तिर्नास्ति अत्यन्तसंशयापत्तिरपि च नास्ति- एकतरस्वरूपनिर्णयेन संशयोच्छेदसंभवादिति सूत्रार्थः, अन्यत्सर्वं संशयलक्षणसूत्रभाष्ये द्रष्टव्यम् / व्याचष्टे- नेति / संशयानुत्पत्तेः संशयानुच्छेदस्य च प्रसङ्गाभावकारणं जिज्ञासते- कथमिति / उत्तरमाह- यदिति, समानधर्माध्यवसायः संशयहेतुर्न तु समानधर्ममात्रमिति यदुक्तमत्रत्यप्रथमसूत्रभाष्ययोस्त्वया एवमेतत् तद्युक्तमेवेत्यन्वयः, यदि समानधर्म एव संशयकारणं स्यात्तदा तदनुवृत्त्या संशयानुच्छेदापत्तिः स्यादपि न चैवमस्ति किं तु समावधर्माध्यवसायः संशयहेतुस्तत्र एकतरस्वरूपनिर्णयेन समानधर्माध्यवसायनिवृत्त्या संशय