________________ संशयपरीक्षा] न्यायभाष्यम् / इतिवचनात् तसिद्धेः. विशेषस्यापेक्षा= आकाङ्क्षा सा चानुपलभ्यमाने विशेष समर्था / न चोक्तम्- 'समानधर्मापेक्षः' इति / समाने च धर्म कथमाकाङ्क्षा न भवेद् यद्ययमप्रत्यक्षः स्यात् , एतेन सामर्थ्येन विज्ञायते- 'समानधर्माध्यवसायात्' इति / उपपत्तिवचनाही. समानधर्मोपपत्तेरित्युच्यते. न चान्या सद्भावसंवेदनादृते समानधर्मोपपत्तिरस्ति, अनुपलभ्यमानसद्भावो हि समानो धर्मोऽविद्यमानवद् भवतीति / विषयशब्देन वा विषयिणः प्रत्ययस्याभिधानं यथा लोके 'धूमेनाग्निरनुमीयते' इत्युक्ते 'धूमदर्शनेनाग्निरनुमीयते' इतिज्ञायते, कथम् ?. दृष्ट्वा हि धूममथानिमनुमिनोति नाऽदृष्टे. न च वाक्ये दर्शनशब्दः श्रूयते. अनुजानाति च वाक्यस्यार्थप्रत्यायकत्वं तेन मन्यामहे-विषयशब्देन विषयिणः प्रत्ययस्याभिधानं बोद्धाऽनुजानाति. एवमिहापि समानधर्मशब्देन समानधर्माध्यवसायमाहेति / निवृत्तिः संभवत्येव. स्वकारणात् समानधर्माध्यवसायात् निर्णयात्पूर्व संशयोत्पत्तिरपि संभवतीत्यर्थः / स्वीकरोति- एवमिति, एतत्= उक्तम्, एवम्= युक्तमित्यर्थः / संशयलक्षणसूत्रे एवम् = अध्यवसायः स्पष्टः कथं नोक्त इति जिज्ञासते- कस्मादिति / उत्तरमाह- विशेषेति, संशयलक्षणे उक्तेन विशेषापेक्षशब्देनोक्ताध्यवसायस्य सिद्धिमुपपादयति- विशेषस्येति / आकाङ्का जिज्ञासा, सा च विशेषापेक्षा विशेषेनुपलभ्यमाने एव समर्था उपपन्ना भवति न च विशेषोपलब्धावपि / विशेषानुलम्भे चार्थादेव संशयः प्राप्त इत्यर्थः / संशयानुच्छेदापत्त्यभावमाह- न चेति, यदि संशयलक्षणे 'समानधर्मापेक्षः= समानधर्मजन्यः संशयः' इत्युक्तं स्यात्तदा समानधर्मानुवृत्त्या संशयानुच्छेदः स्यादपि न चैवमुक्तम् / किं वा संशयस्य समानधर्मापेक्षत्वे समानधर्मानुवृत्त्या संशयानुवृत्तिः स्यादपि न चैवमुक्तं किं तु विशेषापेक्ष इत्युक्तम् अपेक्षिते च विशेषे विज्ञाते संशयोच्छेद उपपन्न इत्यर्थः / यदि समानो धर्मोऽप्रत्यक्षः स्यात्तदा समानधर्मस्याप्याकाङ्क्षा स्याद् न च भवतीति विज्ञायते समानधर्मप्रत्यक्षं जातं तदेव संशयकारणं विशेषविज्ञानं च संशयनिवर्तकमिति संशयस्योत्पत्तिनिवृत्त्योरनुपपत्तिर्नास्तीत्याह- समाने चेति / एतेन सामयेन= समानधर्मप्रत्यक्षसत्तासामर्थेन समानधर्माध्यवसायात् संशयो जायते न तु समानधर्ममात्रादिति सिद्धं प्रकृतेऽध्यवसायस्य प्रत्यक्षरूपत्वादित्यर्थः / / - एवं विशेषापेक्षशब्देनार्थात् प्रकृतार्थसिद्धि प्रतिपाद्य संशयलक्षणघटकोपपत्तिशब्देन साक्षादपि प्रकृतार्थसिद्धिमुपपादयति- उपपत्तिवचनादिति, “समानानेकधर्मोपपत्तेः” इतिकथनात् समानानेकधर्माध्यवसाय एवोपलभ्यते- प्रकृते उपपत्तेरध्यवसायरूपत्वादित्यन्वयः / संक्षेपेणोक्तं स्ववाक्यं स्वयमेव व्याचष्टे- समानेति, इत्युच्यते= इत्युक्तम् / स्वाभिप्रायमाह- न चेति, समानधर्मस्य सद्भावसंवेदनमेव समानधर्मोपपत्तिरस्ति- स्वरूपान्तरासंभवात्. संवेदनं च प्रत्यक्षमेव तदेवाध्यवसायपदार्थ इत्युपपत्तिशब्दोत्राध्यवसायपर एवेत्यर्थः / उक्ते हेतुमाह- अनुपलभ्येति, अनुपलभ्यमानः सद्भावो यस्य तादृशः समानधर्मोऽसन्नेव स्यात्, उपलभ्यमानसभावश्चायं समानो धर्म इत्युपलभ्यमान इति प्राप्तं समानधर्मस्योपलब्धिरेवाध्यवसाय इति समानधर्माध्यवसायः सिद्धः / .. प्रकारान्तरेण समानधर्माध्यवसायसिद्धिमुपपादयति- विषयशब्देनेति, विषयवाचकशब्देन विषयिणः प्रत्ययस्य= तद्विषयकज्ञानस्याप्यभिधानम्= बोधो भवत्येव तथा चात्र समानधर्मशब्दः समानधर्मज्ञानपर: ज्ञानं चाध्यवसाय एवेतिरीत्यापि समानधर्माध्यवसाय उपलभ्यते इत्यर्थः / उदाहरतियथेति, इति ज्ञायते= इत्यों भवतीत्यर्थः, ' धूमात्' इत्यत्र धूमशब्दो धूमज्ञानपरः / उक्तं जिज्ञासते