________________ प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेयदुक्तम्- 'समानमनयोधर्ममुपलभे इति धर्मधर्मिग्रहणे संशयाभावः' इति, पूर्वदृष्टविषयमेतत्= यावहमर्थौ पूर्वमद्राक्षं तयोः समानं धर्ममुपलभे विशेषं नोपलभे इति. कथं नु विशेषं पश्येयं येनाऽन्यतरमवधारयेयमिति, न चैतत् समानधर्मोपलब्धौ धर्मधर्मिग्रहणमात्रेण निवर्तते इति / यच्चोक्तम्- नार्थान्तराध्यवसायादन्यत्र संशय इति. यो ह्यान्तराध्यवसायमानं संशयहेतुमुपाददीत स एवं वाच्य इति / यत्पुनरेतत्- कार्यकारणयोः सारूप्याभावादिति, कारणस्य भावाभावयोः कार्यस्य भावाभावी कार्यकारणयोः सारूप्यम्= यस्योत्पादाद् यदुत्पद्यते यस्य चानुत्पादाद् यन्नोत्पद्यते कथमिति / उत्तरमाह- दृष्टुति अथ= धूमदर्शनानन्तरम् , दर्शनं च ज्ञानमेव. धूमे यदृष्टेऽऽयनुमितिर्न भवति, वाक्ये= "धूमेनाग्निरनुमीयते” इतिवाक्ये / इदं वाक्यमपार्थकमेव किं न स्यात् ? इत्याशदयाह- अनुजानातीति. स्वीकरोतीत्यर्थः / पर्यवसितमाह- तेनेति, वाक्यस्यार्थप्रत्यायकत्वाद् वाक्ये दर्शनशब्दाश्रवणाञ्च विषयशब्दः= धूमशब्दो धूमज्ञानपरस्तथा प्रकृतेपि समानधर्मशब्दः समानधर्माध्यवसायपरः समानधर्माध्यवसायस्योपपत्तिश्च समानधर्मज्ञानादेवेत्यर्थः / अत्रत्यप्रथमसूत्रभाष्यगतं द्वितीयं संशयपरिहारवाक्यमनुवदति- यदुक्तमिति, वाक्यार्थस्तत्रैव द्रष्टव्यः, धर्मधर्मिणोर्ज्ञाने जाते संशयो नोपपद्यते इत्याशयः / तत् परिहरति- पूर्वदृष्टेति, एतत्= धर्मधर्मिग्रहणं समानधर्मग्रहणं वा पूर्व दृष्टौ यौ स्थाणुपुरुषो तद्विषयकं न चैतन्मात्रेण संशयाभाव उपपद्यते इत्यर्थः / संक्षेपेणोक्तं स्वयमेव व्याचष्टे- यावहमिति, अहं यावौँ स्थाणुपुरुषो पूर्वमद्राक्षं तयोः स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाहादिकमुपलभे विशेषम्= पुरुषत्वव्याप्यं वा स्थाणुत्वव्याप्यं वा विशेषधर्म नोपलभे येनान्यतरनिश्चयः स्यात् तदत्र कथं नु तादृशविशेषं पश्येयं येन विशेषधर्मदर्शनेन स्थाणुपुरुषयोरन्यतरमवधारययम् इत्यवधारणाकाडा जायतं प्रतीयतं च तया चावधारणाभावः प्राप्तस्तन च संशयः सिद्धः, एतत्= अयं पुरुषः अन्यतरावधारणाकाङ्का वा एषा समानधर्मोपलब्धौ जातायां धर्मधर्मिग्रहणमात्रेण न निवर्तते किं त्वन्यतरावधारणेन निवर्तते तेन ज्ञायते समानधर्मोपलब्धौ सत्यां धर्मधर्मिज्ञानमात्रेण संशयाभावो नोपपद्यते किं तु संशय एवोपपद्यते, यदि धर्मधर्मिज्ञानमात्रेणान्यतरावधारणाङ्काक्षा निवर्तेत तदा स्यादपि संशयाभावो न चैवमस्तीत्यन्वयः // ___ अत्रत्यप्रथमसूत्रभाष्यगतं तृतीयम् " समानधर्माध्यवसायादर्थान्तरभूते धर्मिणि संशयोऽनुपपन्नः" इत्येतत् संशयपरिहारवाक्यमनुवदति- यञ्चोक्तमित्यादिना / अन्यत्र= अर्थान्तरे संशयोनुपपन्न इत्यर्थः विशेषस्तु तत्रैव द्रष्टव्यः / परिहरति- य इति, उपाददीत= वदेत् , एवम्= नार्थान्तरादित्येवम्, वाच्यः= उपालब्धव्यः / सूत्रकारेणार्थान्तराध्यवसायादर्थान्तरे संशयो नोक्तो यस्यैवं परिहारः स्यात् किं तु यद्गतसमानधर्मस्याध्यवसायस्तस्मिन्नेव संशय उक्तस्तस्य च नैवं प्रत्याख्यानं संभवतीत्यर्थः / अत्रत्यप्रथमसूत्रभाष्यगतं चतुर्थ संशयपरिहारवाक्यमनुवदति- यत्पुनरित्यादिना, समग्रं वाक्यं तदर्थश्च तत्रैव द्रष्टव्यौ, कार्य संशयः कारणं च समानधर्माध्यवसायस्तयोः संशयत्वनिश्चयत्वलक्षणविरुद्धधर्माकान्तत्वेन सारूप्याभावः. कार्यकारणभावश्च सरूपयोरेव संभवतीति न समानधर्माध्यवसायात् संशय उपपद्यते इत्यर्थः। उक्तं परिहरन् सारूप्यपदार्थमाह- कारणस्येति, कारणसत्त्वे कार्यसत्त्वं कारणासत्त्वे च कार्यासत्त्वमित्येतो यावन्वयव्यतिरेको तावेव कार्यकारणयोः सारूप्यं न तु समानधर्मवत्त्वम् / उक्तमेव व्याचष्टे- यस्येति, यस्य कारणस्य. उत्पादात्= सत्त्वात्. यत् कार्यम् , यस्य कारणस्य अनुत्पादात्= असत्त्वे सति. यत् कार्यम् , तत्= यस्येतिपदद्वयवाच्यम् , इतरत्= यदितिपदद्वयवाच्यम् , इत्येतत्= उक्तान्वयव्यतिरेकलक्षणमेव कार्यकारणयोः सारूप्यम् एतादृशं च सारूप्यं संशये संशयका