________________ संशयपरीक्षा] न्यायभाष्यम् / तत् कारणं कार्यमितरद् इत्येत्सारूप्यम् अस्ति च संशयकारणे संशये चैतदिति / एतेन अनेकधर्माध्यवसायादिति प्रतिषेधः परिहृत इति / ___ यत्पुनरेतदुक्तम्- विप्रतिपत्त्यव्यवस्थाध्यवसायाच न संशय इति, पृथक्प्रवादयोाहतमर्थमुपलभे विशेषं च न जानामि= नोपलभे येनान्यतरमवधारयेयं तत्कोत्र विशेषः स्याद् येनकतरमवधारयेयमिति संशयो विप्रतिपत्तिजनितोयं न शक्यो विप्रतिपत्तिसंपतिपत्तिमात्रेण निवतयितुमिति / एवम् उपलब्ध्यनुपलब्ध्यव्यवस्थाकृते संशये वेदितव्यमिति / यत्पुनरेतत्- "विप्रतिपत्तौ च संपतिपत्तेः३” इति, विप्रतिपत्तिशब्दस्य योर्थः तदध्यवसायो विशेषापेक्षः संशयहेतुस्तस्य च समाख्यान्तरेण न निवृत्तिः= समानेऽधिकरणे व्याहरणे= समानधर्माध्यवसाये चास्त्येव- समानधर्माध्यवसाये सत्येव संशयसंभवादित्यन्वयः / उक्तमन्यत्रातिदिशति- एतेनेति, यदुक्तं प्रथमसूत्रभाष्येत्र ‘अनेकधर्माध्यवसायादपि संशयो नोपपद्यते ' इति सोपि प्रतिषेध उक्तरीत्या परिहृतो वेदितव्यस्तत्र यथोक्तरीत्या समानधर्माध्यवसायात् संशयः सिद्धस्तथानेकधर्माध्यवसायादपि संशयः सिद्ध एवेत्यर्थः, विशेषस्त्वस्य संशयलक्षणसूत्रभाष्ये द्रष्टव्यः / किं च समानधर्माध्यवसायात् समानधर्मे संशयासंभवेपि धर्मिणि संशयो नानुपपन्न इति विज्ञेयम् / ___संशयपरिहारपरं द्वितीयसूत्रं परिहर्तुमनुवदति-- यत्पुनरिति, विप्रतीतिसूत्रार्थस्तु पूर्व प्रतिपादितस्तत्रैव द्रष्टव्यः / उक्तं परिहरति- पृथगिति, पृथक्सवादयोः= स्वस्वसिद्धान्तेन वादे प्रवृत्तयोः पुरुषयोः किं वा सप्तम्यन्तं पदं भिन्नभिन्नशास्त्रयोरित्यर्थः व्याहतम्= परस्परविरुद्धम् अर्थम्= सिद्धान्तमुपलभे यथा- 'अस्त्यात्मेत्येके. नास्त्यात्मेत्यपरे' इति, आत्मास्ति वा नास्ति वेति विशेषम् आत्मसत्वासत्त्वयोाप्यं धर्म न जानामि= नोपलभे येन विशेषोपलम्भेनात्मसत्त्वासत्त्वयोर्मध्येऽन्यतरमवधारयेयं तदत्र को विशेषोस्ति येनैकतरमवधारयेयमित्याकाङ्क्षा वर्तते तया ज्ञायते संशयोस्तीति अन्यथाऽन्यतरावधारणाकाङ्क्षा न स्यात् तस्मात् 'अस्त्यात्मेत्येके नास्त्यात्मेत्यपरे' इति विप्रतिपत्तिजन्यः / आत्मास्ति वा नास्ति वा इति संशयः सिद्धः स च विप्रतिपत्तिसंप्रतिपत्तिमात्रेण= विप्रतिपत्तेर्मतभेदात् व्यवस्थाज्ञानमात्रेण निवर्तयितुं न शक्य इत्यन्वयः, वादिप्रतिवादिनोः स्वस्वमतानुसारेण निश्चयसंभवेप्यनभिज्ञस्य तटस्थस्य तु विप्रतिपत्तिव्यवस्थाज्ञानमात्रेण संशयाभावो नोपपद्यते इत्यर्थः / अत्र " विप्रतिपत्तिसंप्रतिपत्तिमात्रेण" इत्यत्र 'विप्रतिपत्तिव्यवस्थाज्ञानमात्रेण' इत्येवं पाठो युक्तः / एतादृशव्यवस्थाज्ञाने सत्यपि संशयः प्रसिद्ध एव / उक्तमन्यत्रातिदिशति- एवमिति, “अव्यवस्थाध्यवसायात्" इति द्वितीयसूत्रभागेन य उपलब्ध्यनुपलब्थ्योरव्यवस्थाध्यवसायाजायमानसंशयस्य परिहारः कृतः सोपि नोपपद्यते इत्यन्वयः, वेदितव्यम्= खण्डनखण्डनं वेदितव्यमित्यर्थः, अत्रत्यः पूर्वपक्षस्तु अत्रत्यद्वितीयसूत्रभाष्ये द्रष्टव्यः, उपलब्ध्यनुपलब्ध्योरव्यवस्थया संशयोत्पत्तिश्च संशयलक्षणसूत्रभाष्ये द्रष्टव्या तत्रोक्तप्रकारेणैवास्य पूर्वपक्षस्य परिहारः कर्तव्यो यथोदाहृतप्रकारेण सदसतोरुपलब्धिरनुपलब्धिश्च लोकप्रसिद्धास्ति ताभ्यां चोपलभ्यमानानुपलभ्यमानयोः सत्त्वासत्त्वसंशयः संभवत्येवेति तस्य वचनमात्रेणापह्नवो न संभवति, इत्यलं विस्तरेण / / संशयपरिहारपरं तृतीयसूत्रमनुवदति- यत्पुनरिति. विप्रतिपत्ताविति सूत्रार्थस्तु पूर्वत्र द्रष्टव्यः / परिहरति-विप्रतिपत्तिशब्दस्येति, विपत्तिपत्तिशब्दस्य यः 'अस्त्यात्मा नास्त्यात्मा' इत्याकारक: परस्परविरोधलक्षणोर्थः तद्ध्यवसाय आत्मसत्त्वासत्त्वयोरुपस्थितिरूपः स च विशेषापेक्षः= आत्मसस्वासत्त्वयोरन्यतरस्यावधारणाकाङ्क्षाविशिष्टः स एव संशयहेतुरुक्तस्तेन संशयो जायते एवान्यथाऽन्य. तरावधारणाकाङ्का न स्यात्, तस्य= उक्ताध्यवसायनिष्ठसंशयकारणत्वस्य समाख्यान्तरेण= तृतीयसूत्रोक्तनिमित्ताद् विप्रतिपत्तेः संप्रतिपत्तिरिति संज्ञान्तरकरणेन निवृत्तिः= बाधो नोपपद्यते इत्यन्वयः,