________________ प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेतार्थों प्रवादौ विप्रतिपत्तिशब्दस्यार्थः तदध्यवसायश्च विशेषापेक्षः संशयहेतुः न चास्य संपतिपत्तिशब्दे समाख्यान्तरे योज्यमाने संशयहेतुत्वं निवर्तते. तदिदमकृतबुद्धिसंमोहनमिति / यत्पुनः “अव्यवस्थात्मनि व्यवस्थितत्वाचाव्यवस्थायाः४” इति, संशयहेतोरर्थस्याऽमतिषेधात् अव्यवस्थाभ्यनुज्ञानाच निमित्तान्तरेण शब्दान्तरकल्पना व्यर्था, शब्दान्तरकल्पना'अव्यवस्था खल्वऽव्यवस्था न भवति- अव्यवस्थात्मनि व्यवस्थितत्वादिति' / नाऽनयोरुपलब्ध्यनुपलब्ध्योः सदसद्विषयत्वं विशेषापेक्षं संशयहेतुर्न भवतीति प्रतिषिध्यते / यावता चाव्यवस्थात्मनि व्यवस्थिता न तावताऽऽत्मानं जहाति तावता ह्यनुज्ञाता भवत्यव्यवस्था, एवमियं क्रियमाणापि शब्दान्तरकल्पना नार्थान्तरं साधयतीति / सत्त्वासत्त्वयोर्मतभेदेन व्यवस्थया विप्रतिपत्तिः संप्रतिपत्तिरेवेति समाख्यान्तरकरणं तृतीसूत्रभाष्ये स्पष्टमेव / उक्तं व्याचष्टे- समाने इति, समानेऽधिकरणे= एकपदार्थविषयको व्याहतार्थों= परस्परवि. रुद्धौ प्रवादी पक्षावेव विप्रतिपत्तिशब्दस्याओं यथा- 'आत्मास्ति वा नास्ति वा' इति. तदध्यवसाय:= आत्मसत्त्वासत्त्वयोरुपस्थितिः विशेषापेक्षा= अन्यतरावधारणाकाङ्काविशिष्टो यः स संशयहेतुरित्युक्तं न चास्य= संशयकारणस्य विप्रतिपत्तिशब्देन सह "विप्रतिपत्तौ च संप्रतिपत्तेः” इत्येवं समाख्यान्तरे= संप्रतिपत्तिशब्दे संयोज्यमानेपि संशयहेतुत्वं निवर्तते किं त्वस्त्येवोक्ताध्यवसायस्य संशयहेतुत्वम्- ताहशाध्यवसायात् संशयोत्पत्तेर्दर्शनादित्यन्वयः / उपसंहरति- तदिदमिति, इदम् = " विप्रतिपत्तौ च संप्रतिपत्तेः” इतिवचनेन विप्रतिपत्तेः संप्रतिपत्त्यभेदकथनम् अकृतबुद्धिसंमोहनम् मूर्खसंमोहनं संभवति न तु पण्डितसंमोहनमिति विप्रतिपत्त्याप्युक्तरीत्या सिद्धः संशय इत्यर्थः / संशयपरिहारपरं चतुर्थसूत्रमनुवदति- यत्पुनरिति. अव्यवस्थात्मनीतिसूत्राथः पूर्वत्र द्रष्टव्यः / परिहरति-संशयेति, उक्तसूत्रेणाऽव्यवस्थायाः स्वस्वरूपे व्यवस्थितत्वं प्रदर्शितं न तु संशयहेतुभूतपदार्थस्य उपलब्ध्यनुपलब्ध्योरव्यवस्थायाः खण्डनं कृतमिति तदप्रतिषेधात् स्वस्वरूपे व्यवस्थितत्वप्रतिपादनार्थम् अव्यवस्थायाः स्वीकाराञ्च तादृशाव्यवस्थाजन्यसंशयस्य प्रतिषेधो नोपपद्यते इति निमित्तान्तरेण= स्वस्वरूपे व्यवस्थितत्वेनाऽव्यवस्थात्वानुपपत्तिद्वारा संशयप्रतिषेधार्थ शब्दान्तरकल्पना= अव्यवस्थात्मनीतिसूत्रकल्पना व्यर्था तथा च संशयप्रतिषेधासंभवाद् उपलब्ध्यनुपलब्ध्योरव्यवस्थातोपि सिद्धः संशयः सा चैषा संशयसिद्धिः संशयलक्षणसूत्रभाष्ये द्रष्टव्या / यत् खलूक्तचतुर्थसूत्रेण अव्यवस्थाया व्यवस्थात्वमुपपादितं तादृशब्दान्तरकल्पनामनुवदति- शब्दान्तरकल्पनेति, अव्यवस्थेति / परिहारहेतुमाह- अव्यवस्थात्मनीति, अव्यवस्थाया अव्यवस्थात्मनि स्वस्वरूपे व्यवस्थितत्वात् स्वरूपं सिद्धमेव स्वस्वरूपे व्यवस्थितस्यैव स्वरूपसंभवात् स्वस्वरूपे व्यवस्थित्या चाऽव्यवस्थाया व्यवस्थात्वासंभवात् तथा चाव्यवस्थायाः सिद्धथा तत्कार्यस्य संशयस्यापि सिद्धिनिराबाधैवेत्यर्थः / उक्तं संशयहेतुप्रतिषेधाभावमुद्घाटयति- नेति, अनयोरुपलब्ध्यनुपलब्ध्योर्विशेषापेक्षम्= अन्यतरावधारणाकाडाविविष्टं यत् सदसद्विषयत्वं तदेवाऽव्यवस्था सैव संशयकारणं साऽव्यवस्था संशयकारणं न भवतीत्येवं न प्रतिषिध्यते= उक्ताव्यवस्थायाः संशयकारणत्वं न प्रतिषिध्यते किं तु व्यवस्थात्वमुपपाद्यते तेन च न संशयप्रतिषेध उपपद्यते इत्यर्थः / यावता यावत्पर्यन्तं चाव्यवस्थाऽऽत्मनि= स्वरूपे व्यवस्थितास्ति तावता= तावत्पर्यन्तम् आत्मानम्= स्वरूपं न जहाति किं तु सत्येव, किं वा यावता येन कारणेन तावता= तेनैव कारणेनेत्यर्थः, तावता= एतावता= अव्यवस्थायाः स्वरूपसत्त्वेनाव्यवस्था स्वीकृता भवति तेन चाव्यवस्थाकार्यभूतः संशयः सिद्धः / उपसंहरति- एवमिति, शब्दान्तरकल्पना= उक्तचतुर्थसूत्रकल्पना क्रियमाणापि अथान्तरम= संशयाभावं न साधयतीत्यन्वयः /