________________ संशयपरीक्षा] न्यायभाध्यम यत्पुनरेतत्-"तथात्यन्तसंशयस्तद्धर्मसातत्योपपत्तेः 5" इति, नायं समानधर्मादिभ्य एव संशयः। किं तर्हि ?. तद्विषयाध्यवसायाद् विशेषस्मृतिसहितात् इति. अतो नात्यन्तसंशय इति। _ "अन्यतरधर्माध्यवसायाद्वा न संशयः" इति. तन्न युक्तम्- विशेषापेक्षो विमर्शः संशयः इतिवचनात. विशेषश्चान्यतरधर्मो न तस्मिन्नऽध्यवसीयमाने विशेषापेक्षा संभवतीति // 6 // यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः // 7 // ___ यत्र यत्र संशयपूर्विका परीक्षा शास्त्रे कथायां वा तत्र तत्रैवं संशये परेण प्रतिषिद्धे समाधिर्वाच्य इति, अतः सर्वपरीक्षाव्यापित्वात् प्रथमं संशयः परीक्षित इति // 7 // अथ प्रमाणपरीक्षाप्रत्यक्षादीनामप्रामाण्यम्-त्रैकाल्यासिद्धेः // 8 // प्रत्यक्षादीनां प्रामाण्यं नास्ति- त्रैकाल्यासिद्धेः- पूर्वापरसहभावानुपपत्तेरिति // 8 // संशयपरिहारपरं पञ्चमसूत्रमनुवदति- यत्पुनरिति / तथेतिसूत्रार्थः पूर्वत्र द्रष्टव्यः। परिहरतिनायमिति / अयं संशयः समानधर्मादिभ्यो न जायते यदि समानधर्मादिकमेव संशयकारणं स्यात्तदा तदनुवृत्त्या तत्कार्यभूतस्य संशयस्याप्यनुवृत्त्याऽनुच्छेदापत्तिः स्यादपि न चैवमस्ति / संशयकारणं जिज्ञासते-- किमिति / उत्तरमाह- तद्विषयेति / विशेषस्मृतिसहितात्= संशयविषयभूतपदार्थविषतकस्मृतिसहितात् तद्विषायाध्यवसायात्= समानधर्मविषयकज्ञानात् संशयो जायते. विशेषावधारणेन तादृशाऽध्यवसायनिवृत्त्या संशयनिवृत्तिरपि भवत्येवेति अत्यन्तसंशयः= संशयानुच्छेदो नापद्यते इत्युपसंहरतिअत इति / संशयकाले स्थाणुपुरुषादीनां स्मृतिश्च प्रसिद्धव। संशयपरिहारपरस्य प्रथमसूत्रस्य द्वितीयखण्डं परिहारार्थमनुवदति- अन्यतरेति, अर्थस्तु तत्रैव द्रष्टव्यः / परिहरति- तन्नेति / परिहारहेतुमाह- विशेषेति, वचनात्= संशयलक्षणसूत्रे कथनात् / विशेषापेक्षशब्दप्रयोगस्याभिप्रायमाह- विशेषश्चेति, अन्यतरधर्म एव विशेषपदार्थस्तथा च तस्मिन्= अन्यतरधर्मेऽध्यवसीयमाने विशेषाध्यवसायो जात एवेति विशेषापेक्षा न संभवति विशेषापेक्षश्च संशय इत्युक्तं तथा चान्यतरधर्माध्यवसायात् संशयाभावो ममेष्ट एवेत्याशयः, अन्यतरधर्माध्यवसायस्य संशयकारणत्वं तु नोक्तमिति तत्परिहारो व्यर्थ एवेत्यर्थः / अन्यतरधर्माध्यवसायस्तु प्रत्युत निश्चयकारणं न संशयकारणमित्यनुसंधेयम् / समानज्ञानादिभिरुक्तैः संशयकारणैः संशयः संभवत्येवेति न संशयानुपपत्तिः // 6 // संशयपरीक्षामुपसंहरति- यत्रेति, यत्र= यस्मिन् पदार्थे संशयो जायते तत्रैवम्= उक्तसंशयसमाधानवत उत्तरोत्तराणां प्रसङ्गः= उत्तरं वाच्यम् / उत्तरं च समाधानमेव / किं वा यत्र संशयः परेण प्रतिषिध्यते तत्रेत्यन्वय इतिसूत्रार्थः / व्याचष्टे- यत्रेति, कथायाम्= वादजल्पवितण्डासु / एवम् उक्तरीत्या समाधिः= समाधानं कर्तव्यमित्यन्वयः / उपसंहरति-अत इति, परीक्षायाः संशयपूर्वकत्वात् संशयस्य सर्वपरीक्षाव्यापकत्वं प्राप्तं तस्मात्. प्रथम संशय एव परीक्षित इत्यन्वयः // 7 // // इति संशयपरीक्षा // ___ संशयपरीक्षानन्तरं प्रमाणपरीक्षामवतारयति- अथेति / प्रत्यक्षादीनामिति- प्रत्यक्षादीनां चतुर्णामपि प्रमाणानां प्रामाण्यं नोपपद्यते- त्रैकाल्यासिद्धेः= कालत्रयवृत्तित्वासंभवात् , अनधिगतावाधितार्थविषयकत्वं हि प्रमाणानां प्रामाण्यं तदनेन प्रमाणविषयस्य यदि कालत्रयवृत्तिसत्त्वज्ञानं स्यात्तदा तत्प्रमाणस्य प्रामाण्यं स्यात. कालत्रयवृत्तिसत्त्वग्राहकत्वं च प्रमाणानां नोपपद्यते-कालत्रयव