________________ प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकअथ सामान्यवचनस्यार्थविभागः... पूर्व हि प्रमाणसिद्धौ नेन्द्रियार्थसंनिक र्षात् प्रत्यक्षोत्पत्तिः॥ 9 // गन्धादिविषयं ज्ञानं प्रत्यक्षं तद् यदि पूर्व पश्चाद् गन्धादीनां सिद्धिः 1 नेदं गन्धादिसंनिकर्षादुत्पद्यते इति // 9 // पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः // 10 // असति प्रमाणे केन प्रमीयमाणोऽर्थः प्रमेयः स्यात् ?, प्रमाणेन खलु प्रमीयमाणोऽर्थः प्रमेयम् इत्येतत् सिध्यति // 10 // युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वा भावो बुद्धीनाम् // 11 // . . . युगपाताल त्तित्वासंभवात् वर्तमानकालमात्रवृत्तित्वादिति प्रत्यक्षादिप्रमाणानामप्रामाण्यं प्राप्तम् / नच प्रमाणान्तरेण प्रमाणान्तरविषयस्य कालत्रयवृत्तिसत्त्वग्रहणं भविष्यतीति वाच्यम्- एवमपि भविष्यत्कालस्यानन्तत्वात् तत्रत्यविषयबाधशङ्कया प्रमाण्यापहारादिति सूत्रार्थः / व्याचष्टे- प्रत्यक्षादीनामिति / नास्तीत्यत्र हेतुमाह-त्रैकाल्येति, अस्यार्थमाह- पूर्वेति, प्रमाणप्रमेययोः पूर्वापरभावस्य सहभावस्य चानुपपत्तेरित्यर्थः / पूर्वापरसहभावानामनुपपत्तिश्चेयमग्रिमेण सूत्रत्रयेण क्रमेण व्युत्पाद्यते // 8 // सूत्रत्रयमवतारयति- अथेति, त्रैकाल्यासिद्धेरित्यस्य किं वा पूर्वापरसहभावानुपपत्तेरित्यस्य सामान्यवचनस्य विभागेनार्थः प्रतिपाद्यते इत्यर्थः / पूर्वमिति- प्रमेयापेक्षया पूर्व प्रमाणस्य सिद्धौ इन्द्रियार्थसंनिकर्षात् प्रत्यक्षस्योत्पत्तिरुक्ता सा न संभवति, प्रत्यक्षलक्षणे " इन्द्रियार्थसंनिकर्षोत्पन्नम् // इत्येवं प्रत्यक्षस्येन्द्रियार्थसंनिकर्षोत्पन्नत्वमुक्तं तञ्च प्रमाणापेक्षया पूर्व प्रमेयसिद्धौ संभवति न तु प्रमेयापेक्षया पूर्व प्रमाणसिद्धौ- प्रत्यक्षोत्पत्तिकाले ह्यऽसता प्रमेयेणेन्द्रियसंनिकर्षासंभवादिति सूत्रार्थः। व्याचष्टेगन्धादीति, तत्= प्रत्यक्षम्, पूर्वम्= प्रमेयापेक्षया पूर्वम्, पश्चात्= प्रत्यक्षापेक्षया पश्चात् / पर्यवसितमाह- नेदमिति, एतस्मिन् पूर्वापरभाव इदं प्रत्यक्षं गन्धादिसंनिकर्षानोत्पत्तुमर्हति- तदा गन्धादीनामभावादित्यर्थः / तदनेन प्रत्यक्षलक्षणाव्याप्तिः प्रमाणप्रमेययोः पूर्वापरभावानुपपत्तिश्च प्रदर्शिता / / 9 / / उक्तविपरीतस्य पूर्वापरभावस्यानुपपत्तिमाह- पश्चादिति, प्रमेयापेक्षया यदि पश्चात् प्रमाणसिद्धिस्तदा प्रत्यक्षस्य प्रमेयेन्द्रियसंनिकर्षोत्पन्नत्वसंभवेपि प्रमाणेभ्यः प्रमेयसिद्धिोक्ता "मानाधीना मेयसिद्धिः" इति सा नोपपद्येत- प्रमाणापेक्षया पूर्वमेव मेयसिद्धरत्र स्वीकारादिति सूत्रार्थः / व्याचष्टेअसतीति, प्रमीयते इति प्रमेयस्तस्य प्रमेयत्वं च प्रमाणाधीनमिति प्रमाणानन्तरमेव प्रमेयसिद्धिः संभवति न तु प्रमाणात् पूर्वमपि / प्रमेयस्य प्रमाणाधीनत्वमाह-प्रमाणेनेति, प्रमाणेनैव प्रमेयत्वं सिध्यतीत्यर्थः। अनेनापि प्रमाणप्रमेययोः पूर्वापरभावानुपपत्तिः प्रदर्शिता // 10 // __प्रमाणप्रमेययोः सहभावानुपपत्तिमाह- युगपदिति, प्रमाणप्रमेययोः युगपत्सिद्धौ= सहभावे एककालिकत्वपक्षे बुद्धीनाम्= ज्ञानानां प्रत्यर्थनियतत्वात्= एकमात्रविषयग्राहकत्वात् किं वा प्राणजादिज्ञानानां गन्धादिमात्रग्राहकत्वाद् यद् क्रमवृत्तित्वम्= क्रमेण जायमानत्वमुक्तं तदभावः तदनुपपत्तिः प्राप्तेत्यन्वयः, ज्ञानानामेकार्थविषयकत्वेन प्रत्यर्थनियतत्वं प्राप्तम्- प्रत्यर्थनियतत्वाभावे ह्यनेकविषयकत्वसंभवेनैकार्थविषयकत्वनियमो न स्यात् , प्रत्यर्थनियतत्वेन च क्रमवृत्तित्वं प्राप्तं क्रमवृत्तित्वाभावे ह्येकस्मिन्नपि