________________ प्रमाणपरीक्षा ] न्यायभाष्यम्। यदि प्रमाणं प्रमेयं च युगपद् भवतः ? एवमपि गन्धादिष्विन्द्रियार्थेषु ज्ञानानि प्रत्यर्थनियतानि युगपद् संभवन्तीति ज्ञानानां प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः= या इमा बुद्धयः क्रमेणार्थेषु वर्तन्ते तासां क्रमवृत्तित्वं न संभवतीति / व्याघातश्च- "युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1-1-16" इति, एतावांश्च प्रमाणप्रमेययोः सद्भावविषयः स चानुपपन्न इति. तस्मात् प्रत्यक्षादीनां प्रमाणत्वं न संभवतीति // 11 // अस्य समाधिःउपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावा ऽनियमाद् यथादर्शनं विभागवचनम् . कचिदुपलब्धिहेतुः पूर्व पश्चादुपलब्धिविषयो यथाऽऽदित्यस्य प्रकाशः, उत्पद्यमानानां कचित् पूर्वमुपलब्धिविषयः पश्चादुपलब्धिहेतुर्यथाऽवस्थितानां प्रदीपः, कचिदुपलब्धिहेतुरुपलब्धिविषयश्च सह भवतों यथा धूमेनाग्नेर्ग्रहणमिति। उपलब्धिहेतुश्च प्रमाणं प्रमेयं तूपलब्धिविषयः। कालेऽनेकार्थज्ञानैरनेकेषामर्थानां प्रतिभासे जाते ज्ञानानां प्रत्यर्थनियतत्वं नोपपद्यत- तादृशानेकार्थप्रतिभासानामेकज्ञानजन्यत्वप्रसङ्गापत्तेरिति ज्ञानानां प्रत्यर्थनियतत्वसिद्धयर्थ क्रमवृत्तित्वं स्वीकृतं तच्च क्रमवृत्तित्वं प्रमाणप्रमेययोः युगपत्सिद्धौ नोपपद्यते- यदा हि प्रमाणप्रमेययोयुगपत्सिद्धिस्तदा घ्राणजज्ञानेन गन्धस्यैव सहभावः स्यादित्यत्र नियामकाभावात् सर्वेषामपि ज्ञानानां तद्विषयाणां च सहभावः प्राप्तः सहभावे च ज्ञानानां प्रत्यर्थनियतत्वनियामकं नोपपद्यते प्रत्यर्थनियतत्वोपपत्त्यभावे च क्रमवृत्तित्वं नोपपद्यते-- प्रत्यर्थनियतत्वेनैव क्रमवृत्तित्वसंभवात्. स्वीकृतं च क्रमवृत्तित्वमिति प्रमाणप्रमेययोः युगपत्सिद्धिः= सहभावोपि नोपपद्यते तेन प्रमाणप्रमेयभावानुपपत्त्या प्रमाणानां प्रामाण्यानुपपत्तिरिति सूत्रार्थः प्रतिभाति, अत्र 'युगपत्सिद्धौ प्रत्यर्थनियतत्वाभावो बुद्धीनाम् / इत्येव वक्तव्यमासीत् / व्याचष्टेयदीति / एवमपि= युगपद्भावेपि, विषयत्वं सप्तम्यर्थ इति इन्द्रियग्राह्यगन्धाद्यर्थविषयकाणि ज्ञानानि प्रत्यर्थनियतानि युगपत्= प्रमेयैः सह संभवन्ति= जायन्ते इति क्रमवृत्तित्वाभाव आपद्यते इत्यन्वयः, अत्र " प्रत्यर्थनियतत्वात्" इति क्रमवृत्तित्वांशे हेतुस्तथा च प्रत्यर्थनियतत्वाद् यत् क्रमवृत्तित्वं युक्तं ज्ञानानां तदभावः प्राप्त इत्यर्थः, वस्तुतस्तु “प्रत्यर्थनियतत्वात्" इति पाठो व्यर्थ एव- समन्वयासंभवादिति विभाव्यम् / स्वाभिप्रायं विशदयति-- या इति / क्रमवृत्तित्वाभावस्वीकारे च न्यायसिद्धान्तविरोधमुद्घाटयति- व्याघात इति, युगपदितिसूत्रं पूर्वत्र व्याख्यातम् अत्र ज्ञानानां युगपदनुत्पत्तिरुक्ता सा च क्रमवृत्तित्वमेवेत्यर्थः तच्च क्रमवृत्तित्वमुक्तरीत्या प्रमाणप्रमेययोः सहभावे नोपपद्यते इतिभावः / पर्यवसितमाह- एतावांश्चेति, प्रमाणप्रमेययोः सद्भावस्य विषयः= प्रकारः पूर्वोत्तरसहभावैरुक्तरेतावान् त्रिविध एव संभवति स चोक्तरीत्या नोपपद्यते तस्मात् प्रमाणानां प्रामाण्यं नोपपद्यते इत्यर्थः // 11 / / उक्तप्रामाण्यपरिहारस्य प्रत्याख्यानमारभते-अस्येति / उपेति- उपलब्धिहेतोः= प्रमाणस्य प्रमाणसहकारिणश्च उपलब्धिविषयस्य चार्थस्य= प्रमेयस्य च प्रदर्शितपूर्वापरसहभावानां नियमाभावाद् यथादर्शनम्= पूर्वापरसहभावा लोके यथा दृश्यन्ते तथा विभागेन वक्तव्यं न तु पूर्वापरसहभावेष्वेकस्य भावस्य सर्वत्र नियमः संभवतीत्यन्वयः / स्वोक्तं स्वयमेव व्याचष्टे- कचिदिति / आदित्यप्रकाश अनादित्वात् घटादिप्रकाश्यापेक्षया पूर्वभावीति स्पष्टमेव / द्वितीयं पूर्वापरभावमुदाहरति- उत्पद्यति, उत्पद्यमानानाम= सादीनां घटादीनां मध्ये, अवस्थितानाम्= प्रदीपप्रकाशापेक्षया पूर्वमवस्थितानां प्रदीपप्रकाशः पश्चाद्भावीति स्पष्टमेव / सहभावमुदाहरति- क्वचिदिति, 'वह्निमान् धूमात्' इत्यत्र धूमज्ञानवह्निज्ञानयोरधिकपूर्वापरभावाभावादेव सहभावो विज्ञेयः, वस्तुतस्तु धूमज्ञानाद् वह्निज्ञानमनन्तरभावि वह्निश्च पूर्वभावी, सहभावस्तु तत्र विज्ञेयो यत्रोत्पत्तिकाले एव विषयो गृह्यते / उपलब्धिहेतुमुफ्लब्धि