________________ 100 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेएवं प्रमाणप्रमेययोः पूर्वापरसहभावेऽनियते यथाऽर्थो दृश्यते तथा विभज्य वचनीय इति, तत्रैकान्तेन प्रतिषेधानुपपत्तिः- सामान्येन खलु विभज्य प्रतिषेध उक्त इति / . समाख्याहेतोस्त्रैकाल्ययोगात् तथाभूता समाख्या. यत्पुनरिदम्- 'पश्चासिद्धौ- असति प्रमाणे प्रमेयं न सिध्यति-प्रमाणेन प्रमीयमाणोऽर्थः प्रमेयमिति विज्ञायते' इति, प्रमाणमित्येतस्याः समाख्याया उपलब्धिहेतुत्वं निमित्तं तस्य त्रैकाल्ययोगः- 'उपलब्धिमकार्षीत्' 'उपलब्धि करोति' 'उपलब्धि करिष्यति' इति समाख्याहेतोः त्रैकाल्ययोगात् समाख्या तथाभूता, प्रमितोऽनेनार्थः प्रमीयते प्रमास्यते इति प्रमाणम् . प्रमितं प्रमीयते प्रमास्यते इति च प्रमेयम् , एवं सति भविष्यत्यस्मिन् हेतुत उपलब्धिः = प्रमास्यतेऽयमर्थः प्रमेयमिदम् इत्येतत्सर्वं भवतीति / त्रैकाल्यानभ्यनुज्ञाने च व्यवहारानुप{त्तिः. विषयं चाह- उपलब्धीति, वस्तुतस्त्विदमपि न युक्तम्- प्रकाशादीनां प्रमाणत्वाभावात्, उपलब्धिहेतु. शब्देन प्रमाणग्रहणे विरोधः स्पष्ट एव-प्रमेयापेक्षया तद्विषयकप्रमाणस्य पूर्वभावित्वादर्शनात् / पर्यवसितमाह- एवमिति, यथा- पूर्व वा पश्चाद्वा / प्रमाणापेक्षया प्रमेयस्य पूर्वभावित्वमेव युक्तं प्रमेयगतप्रमेयत्वस्य प्रमाणाधीनत्वेपि प्रमेयस्वरूपस्य प्रमाणानधीनत्वात् / उपसंहरति- तत्रेति, प्रमाणप्रमेययोः सामान्यत: पूर्वापरसहभावनियमाभावेपि यः पूर्वापरसहभावनियममाश्रित्य प्रमाण्यप्रतिषेध एकान्तेननियमेनोक्तः स नोपपद्यते, कस्यचिज्ज्ञानस्य प्रामाण्यप्रतिषेधसंभवेपि सर्वेषां ज्ञानानां प्रामाण्यप्रतिषेधासंभवात् / उक्ते हेतुमाह-सामान्येति, सामान्येन= सामान्यत: यः खलु विभज्य= पूर्वापरसहभावानां विभागेन त्रिभिः सूत्रःप्रामाण्यप्रतिषेध उक्तः स नोपपद्यते- सामान्यत उक्तत्वात् सामन्यतश्च प्रमाणानां प्रामाण्यप्रतिषेधासंभवात् , पूर्वापरसहभावस्यापि सामान्यरूपेण= एकरूपेण सर्वत्रासंभवादित्यर्थः प्रतिभाति / "पश्चासिद्धौ” इति दशमसूत्रोक्तं प्रामाण्यप्रतिषेधं प्रत्याचष्टे- समाख्येति, प्रमाणमितिसमाख्याया हेतोः प्रवृत्तिनिमित्तभूतस्य उपलब्धिहेतुत्त्वस्य त्रैकाल्ययोगात्= कालत्रयेपि प्रमाणेषु संभवात् समाख्या प्रमाणमितिसमाख्या तथाभूता= त्रिकालयुक्ता तथा च प्रमाणमिति समाख्यायास्त्रैकाल्ययोगात् प्रमाणानां प्रामाण्य प्राप्तं घटेषु घटत्ववदित्यन्वयः / स्वोक्तस्याभिप्रायं विशदयति- यत्पुनरित्यादिना / परिहाराय दशमसूत्रभाष्यमर्थतोनुवदति- पश्चादिति, "मानाधीना मेयसिद्धिः" इत्युक्तमेव / उक्तं परिहरति- प्रमाणमिति, अत्र प्रथमं तन्नेति वक्तव्यमासीत्, निमित्तम्= प्रवृत्तिनिमित्तम्- उपल. ब्धिहेतुत्वेनैव प्रमाणमितिसमाख्यायाः प्रमाणेषु प्रवृत्तत्वात् / तस्य= उपलब्धिहेतुत्वस्य / त्रैकाल्ययोगमुदाहरति- उपलब्धिमिति, प्रमाणमितिशेषः / तथाभूता= त्रिकालयुक्ता / प्रमाणशब्दव्युत्पत्तेस्त्रैकाल्ययोगमाह-प्रमित इत्यादिना / प्रमेयशब्दव्युत्पत्तेस्रकाल्ययोगमाह- प्रमितमिति / उपसंहरति- एवमिति, एवम्= प्रमाणप्रमेयसमाख्ययोस्त्रैकाल्ययोगात् अस्मिन्= प्रमेये= प्रमेयविषयोपलब्धिहेतुतः= प्रमाणेन भविष्यति यत्र प्रमाणस्य पश्चाद्भावस्तथा च प्रमाणविषयत्वेन प्रमेयमिति समाख्यायापैका. ल्ययोगेन च प्रमेयस्वमुपपद्यते इति न दशमसूत्रभाष्योक्तदोषापत्तिरित्यर्थः / उक्तमेव विशदयति-प्रमास्यते इति / इत्येतत्= प्रमाणानां प्रमाणत्वं प्रमेयस्य च प्रमेयत्वमितिसर्व भवति= सिध्यति / / विपक्षे बाधकमाह- त्रैकाल्येति, उक्तस्य समाख्याहेतोः= प्रवृत्तिनिमित्स्य त्रैकाल्यानभ्यनुज्ञाने= कालत्रयसंबन्धास्वीकारे च व्यवहारस्यानुपपत्तिरस्ति यथा 'पाचकमानय ' इत्यत्र पाचकशब्दप्रवृत्तिनिमित्स्य पाककर्तृत्वस्य कालत्रयसंबन्धस्वीकारे हि तद्विशिष्टस्य पाचकस्यानयनमुपपद्यते यदि च पाककलत्त्वस्य न कालत्रयसंबन्धः स्वीक्रियते तदा तदानयनकाले पाककर्तृत्वस्याविद्यमानत्वात् तस्य