________________ सामान्यतः प्रमाणपरीक्षा] . न्यायभाष्यम्। 101 यश्चैवं नाभ्यनुजानीयात् तस्य 'पाचकमानय पक्ष्यति' 'लावकमानय लविष्यति' इतिव्यवहारो नोपपद्यते इति / “प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः 2-1-8" इत्येवमादिवाक्यं प्रमाणप्रतिषेधः . तत्रायं प्रष्टव्यः- अथाऽनेन प्रतिषेधेन भवता किं क्रियते इति, किं संभवो निवर्त्यते ? अथाऽसंभावो ज्ञाप्यते ? इति, तद् यदि संभवो निवर्त्यते ? सति संभवे प्रत्यक्षादीनां प्रतिषेधानुपपत्तिः, अथाऽसंभवो ज्ञाप्यते ? प्रमाणलक्षणं प्राप्तस्तर्हि प्रतिषेधःप्रमाणासंभवस्योपलब्धिहेतुत्वादिति // 11 // किं चातः त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः // 12 // अस्य तु विभागः- पूर्व हि प्रतिषेधसिद्धावसति प्रतिषेध्ये किमनेन प्रतिषिध्यते ?, पाचकत्वानुपपत्त्या पाचकानयनलक्षणो व्यवहारो नोपपद्यते भवति च व्यवहार इति प्रवृत्तिनिमित्तस्य त्रैकाल्यं स्वीकार्यम् एवं प्रमाणशब्दप्रवृत्तिनिमित्तस्य उपलब्धिहेतुत्वस्यापि त्रैकाल्यं स्वीकार्य सिद्धे चोपलब्धिहेतुत्वे प्रमाणानां प्रामाण्यं सिद्धमेव- प्रामाण्यस्योपलब्धिहेतुत्वरूपत्वादित्यर्थः / स्वयं व्याचष्टे- यश्चेति, एवम्= समाख्यायाहेतोः= प्रवृत्तिनिमित्तस्य कालत्रयसंबन्धं नाभ्यनुजानीयात्= न स्वीकुर्यात् तस्य 'पाचकमानय' इत्यादिव्यवहारस्यानुपपत्तिः प्रदर्शितरीत्या विज्ञेया / अनुपपत्तिप्रदर्शनार्थ पूर्वपक्षप्रथमसूत्रमनुवदति- प्रत्यक्षादीनामिति, वाक्यम्= सूत्रवाक्यम् / तत्रेति विषयत्वं सप्तम्यर्थः, अयम् पूर्वपक्षी। प्रष्टव्यमाह-- अथेति, प्रत्यक्षादीनामित्यादिप्रतिषेधवाक्यं किमर्थमित्यर्थः। उक्तप्रतिषेधवाक्यप्रयोजनं द्विधा विभजते-किमिति, अत्र “अनेन प्रतिषेधेन" इत्यनुवर्तनीयम् / प्रथमकल्पे दोषमुद्घाटयति- तद् यदीति, यद्यनेन प्रतिषेधेन प्रमाणेषु प्रामाण्यस्य संभवो निवर्त्यते= संभवाभावः प्रतिपाद्यते तदा निष्प्रतियोगिकस्याभावस्याऽसंभवात् प्रामाण्यसंभवः प्रतियोगी स्वीकार्यस्तथा च प्रत्यक्षादिप्रमाणानां प्रामाण्यसंभवे सति प्रतिषेधानुपपत्तिः= प्रामाण्यप्रतिषेधो नोपपद्यते इत्यर्थः / द्वितीयकल्पे दोषमुद्घाटयति- अथेति, यद्यनेन प्रतिषेधेन प्रत्यक्षादिषु विद्यमान एव प्रमाण्यासंभवो ज्ञाप्यते प्रदीपेन घट इव तथा च प्रमाण्यसंभावाभावप्रतियोगित्वेन प्रमाण्यसंभवापत्तिर्नास्तीत्यभिप्रायस्तदा त्वत्प्रदर्शितः प्रतिषेधः= प्रामाण्यप्रतिषेधः प्रमाणलक्षणम् = प्रामाण्यं प्राप्तः- प्रामाण्यासंभवज्ञापकत्वात् ज्ञापकस्यैव प्रमाणत्वादित्यन्वयः, प्रामाण्यासंभवज्ञापकस्य प्रमाण्यप्रतिषेधस्य प्रामाण्यप्राप्ती हेतुमाह- प्रमाणासंभवस्येति, प्रमाणस्य- प्रामाण्यस्याऽसंभवोऽनेनेति प्रमाणासंभव:प्रामाण्यप्रतिषेधस्तस्य उपलब्धिहेतुत्वात् प्रामाण्यासंभवज्ञापकत्वात् ज्ञापकस्य च प्रामाण्यावश्यम्भावात् प्रामाण्यस्य ज्ञापकत्वलक्षणत्वादित्यन्वयः। किंवा प्रमाणासंभवस्येत्यस्य प्रामाण्यासंभवज्ञापकस्य प्रतिषेधस्येत्यर्थः, उक्तप्रतिषेधस्य प्रामाण्ये ह्यविशेषात प्रत्यक्षादीनामपि प्रामाण्यं सिद्धम् अप्रामाण्ये चाऽप्रामाण्यसाधकत्वं नोपपद्यते इत्युभयतः पाशारज्जुरित्यर्थः // 11 // प्रामाण्यप्रतिषेधस्य प्रतिषेधसूत्रमवतारयति- किं चेति, अतः= एतत्सूत्रोक्तप्रकारतश्चापि प्रमाणानां प्रामाण्यस्य प्रतिषेधो नोपपद्यते इत्यर्थः / त्रैकाल्यासिद्धेरिति- यथा प्रमाणानां त्रैकाल्यासिद्धथा प्रामाण्यानुपपत्तिर्भवता प्रदर्शिता तथैव भवदुक्तस्य प्रामाण्यप्रतिषेधस्यापि त्रैकाल्यासिद्धया प्रामाण्यं नोपपद्यते प्रामाण्यप्रतिषेधस्य प्रामाण्याभावे च प्रमाणानां प्रामाण्यमुपपन्नं, यदि च त्रैकाल्यासिद्धिदोषे सत्यपि भवदुक्तप्रतिषेधस्य प्रामाण्यमस्ति तदा तद्वत् प्रमाणानामपि त्रैकाल्यासिद्धिदोषे सत्यपि प्रामाण्यमुपपन्नमिति सूत्रार्थः / व्याचष्टे- अस्येति, अस्य= एतत्सूत्रार्थस्य पूर्वापरसहभावैविधा विभागो यथा पूर्व प्रामाण्यप्रतिषेधः पश्चाच्च प्रमाणप्रामाण्यमिति प्रथमः कल्पस्तत्र प्रतिषेध्ये पूर्व सत्येव तत्प्रतिषेधः संभवति नान्यथा अत्र च पक्षे प्रतिषेध्यं पूर्व नास्तीति व्यर्थः प्रामाण्यप्रतिषेधः / यदि च प्रतिषेध्यं प्रामाण्यं