________________ 102 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेपश्चात् सिद्धौ प्रतिषेधासिद्धिः- प्रतिषेधाभावादिति, युगपत्सिद्धौ प्रतिषेध्यसिद्धयभ्यनुज्ञानादनर्थकः प्रतिषेध इति, प्रतिषेधलक्षणे च वाक्येऽनुपपद्यमाने सिद्धं प्रत्यक्षादीनां प्रमाणत्वमिति // 12 // सर्वप्रमाणप्रतिषेधाच प्रतिषेधानुपपत्तिः // 13 // कथम् ?. "त्रैकाल्यासिद्धेः” इत्यस्य हेतोर्यादाहरणमुपादीयते ? हेत्वर्थस्य साधकत्वं दृष्टान्ते दर्शयितव्यमिति. न च तर्हि प्रत्यक्षादीनामप्रामाण्यम्, अथ प्रत्यक्षादीनामप्रामाण्यम् ?. उपादीयमानमप्युदाहरणं नार्थ साधयिष्यतीति. सोयं सर्वप्रमाणैाहतो हेतुरहेतु:- "सिद्धान्तमम्युपेत्य तद्विरोधी विरुद्धः 1-2-6 "इति, वाक्यार्थो ह्यस्य सिद्धान्तः स च वाक्यार्थः -'प्रत्यशादीनि नार्थ साधयन्ति ' इति. इदं चावयवानामुपादानमर्थस्य साधनायेति / अथ नोपादी. यते? अप्रदर्शितहेत्वर्थस्य दृष्टान्ते न साधकत्वमिति प्रतिषेधो नोपपद्यते-हेतुत्वासिद्धेरिति // 13 // पूर्वमस्ति पश्चाच्च प्रतिषेधसिद्धिरिति द्वितीयः कल्पस्तदापि पूर्वसिद्धस्य प्रामाण्यस्य प्रतिषेधासिद्धिःप्रतिषेधासंभवादित्याह- पश्चादिति / पूर्वसिद्धस्य प्रामाण्यस्य पश्चात्सिद्धेन प्रामाण्यप्रतिषेधेन प्रतिषेधो नोपपद्यते- सिद्धस्य प्रतिषेधासंभवादित्यर्थः / यदि च प्रतिषेध्यस्य प्रामाण्यस्य तत्प्रतिषेधस्य च युगपत्सिद्धिरिति तृतीयः कल्पस्तदापि प्रतिषेध्यस्य प्रामाण्यस्य सिद्धिस्वीकारात् तत्प्रतिषेधो नोपपद्यते इति व्यर्थ एवेत्याह-युगपदिति / प्रतिषेधलक्षणे= प्रतिषेधरूपे वाक्येऽनुपपद्यमाने च प्रत्यक्षादीनां प्रामाण्यमुपपन्नमेवेत्याह-प्रतिषेधलक्षणे इति // 12 // दोषान्तरमाह- सर्वेति, सर्वेषां प्रमाणानां प्रामाण्यस्य प्रतिषेधे भवता कृते शब्दप्रमाणरूपस्य प्रामाण्यप्रतिषेधस्यापि प्रामाण्यं नोपपद्यते तथा चाऽप्रमाणेन पदार्थसिद्धयसंभवात् प्रमाण्यप्रतिषेधस्यानुपपत्तिस्ततश्च सिद्धं प्रमाणानां प्रामाण्यमिति सूत्रान्वयः / उक्तां प्रतिषेधानुपपत्तिं जिज्ञासते- कथमिति / उत्तरमाह- त्रैकाल्येति, प्रमाणानामप्रामाण्ये त्रैकाल्यासिद्धेरितिहेतुरुक्तस्तत्र हेतोरुदाहरणानुकूल्येनैव साध्यसाधकत्वं भवतीति त्रैकाल्यासिद्धरित्यपि हेतुना प्रामाण्याभावसाधनार्थमुदाहरणं प्रदर्शनीयं तत्र यादाहरणमुपादीयते= प्रदर्यते तदा तत्र दृष्टान्ते हेत्वर्थस्य= हेतुभूतपदार्थस्य त्रैकाल्यासिद्धेः साध्य. साधकत्वं प्रदर्शनीयं साध्यसाधकत्वं चात्र प्रामाण्याभावसाधकत्वमेव प्रामाण्याभावसिद्धिश्च प्रामाण्य. प्रसिद्धिं विना नोपपद्यते-निष्प्रतियोगिकामावस्यासंभवात् प्रामाण्यप्रसिद्धिश्च प्रत्यक्षादिष्वेव प्रदर्शनीयेति प्रत्यक्षादिषु प्रामाण्यप्रसिद्धिस्वीकारे प्रत्यक्षादीनामप्रामाण्यं नोपपद्यते इत्याशयः प्रतीयते, किं वा प्रदर्शितदृष्टान्ते हेतोः साध्यसाधकत्वे प्रामाण्यं स्वीकार्यमेव तथा च न प्रामाण्यप्रतिषेधोपपत्तिरिति न प्रत्यक्षादीनामप्यऽप्रामाण्यमित्याशयः, विपक्षे बाधकमाह- अथेति / उपादीयमानमपीति-प्रदर्शितमप्युदाहरणमर्थम् प्रामाण्याभावं न साधयिष्यति- प्रत्यक्षादीनां सर्वेषामपि प्रमाणानामप्रामाण्यस्वीकारेण प्रामाण्याभावसाधकानुमानस्याप्यऽप्रामाण्यप्रसङ्गात् अनुमानाप्रामाण्ये च प्रदर्शितस्यापि दृष्टान्तस्य साध्यसाधकत्वासंभवादित्यर्थः / त्रैकाल्यासिद्धेरितिहेतोर्हेत्वाभासत्वमाह- सोयमिति, प्रमाणानामप्राण्ये किमपि न सिध्यतीति प्रमाणाप्रामाण्यसाधकोयं हेतुः सर्वप्रमाणैाहत एवेत्यऽहेतुः= हेत्वाभास एव / कोयं हेत्वाभास इत्याशङ्कयाह- सिद्धान्तमिति, सूत्रमिदं पूर्वत्र व्याख्यातं तथा च सिद्धान्तविरुद्धत्वाद् विरुद्ध इत्यर्थः / अस्य= पूर्वपक्षिणः सिद्धान्तमाह- वाक्यार्थ इति, वाक्यार्थः= प्रतिषेधसूत्रार्थः / तादृशवाक्यार्थमाह- प्रत्यक्षादीनीति, प्रत्यक्षादीन्यप्रमाणानीति पूर्वपक्षिणः सिद्धान्तस्तत्साधकत्वं च त्रैकाल्यासिद्धेरितिहेतोर्न संभवति प्रत्युत स्वप्रामाण्यापेक्षित्वेनाऽप्रामाण्यविरुद्धत्वमेव जातमिति नाऽप्रामाण्यसाधकत्वं संभवतीत्यर्थः / स्वाभिप्रायमाह- इदमिति, अत्र प्रत्यक्षादिकं पक्षीकृत्य अर्थासाधकत्वम्= अप्रामाण्यं त्रैकाल्यासिद्धेरितिहेतुना साध्यते तथा चेदं प्रतिज्ञाद्यवयवानामुपादानम्=