________________ प्रमाणपरीक्षा] न्यायभाष्यम। 103 ____तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः // 14 // प्रतिषेधलक्षणे स्ववाक्ये तेषामवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्येऽभ्यनुज्ञायमाने परवाक्येप्यवयवाश्रितानां प्रामाण्यं प्रसज्यते- अविशेषादिति. एवं च न सर्वाणि प्रमाणानि प्रतिषिध्यन्ते इति / “विप्रतिषेधः" इति वीत्ययमुपसर्गः संप्रतिपत्त्यर्थे न व्याघाते- अर्थाभावादिति // 14 // त्रैकाल्याप्रतिषेधश्च- शब्दादातोद्यसिद्धिवत्तत्सिद्धेः // 15 // किमर्थं पुनरिदमुच्यते ? पूर्वोक्तनिबन्धनार्थम् . यत्तावत् पूर्वोक्तम्- 'उपलब्धिहेतोरुपलब्धिविषयस्य चार्थस्य पूर्वापरसहभावानियमाद् यथादर्शनं विभागवचनम्' इति तदितः समुप्रयोगोऽर्थस्य= अप्रामाण्यस्य साधनायैवास्ति तत्रैतादृशानुमानस्य प्रमाण्यं स्वीकार्यमिति न सर्वेषां प्रमाणानामप्रामाण्यमुपपद्यते इत्यर्थः / द्वितीयपक्षमाह- अथेति, उक्तदोषपरिजिहीर्षया यादाहरणं नोपादीयते तदा दृष्टान्ते अप्रदर्शितहेत्वर्थस्य= अप्रदर्शितहेतुत्वस्य- व्याप्तिग्रहरहितस्य त्रैकाल्यासिद्धेरितिहेतोः प्रमाण्याभावसाधकत्वं नोपपद्यते इति प्रामाण्यप्रतिषेधो नोपपद्यते- प्रामाण्यप्रतिषेधकस्य काल्यासिद्धेरिति हेतोहेतुत्वासिद्धरित्यन्वयः / दृष्टान्तप्रदर्शनं विना साध्यसाधकत्वं न संभवतीत्यर्थः / / 13 // विपक्षे बाधकमाह- तदिति, तत्= तस्य प्रामाण्यप्रतिषेधवाक्यस्य यदि प्रामाण्यमभ्युपगम्यते तदा सर्वेषां प्रमाणानां विप्रतिषेधः= प्रामाण्यप्रतिषेधो नोपपद्यते-प्रामाण्यप्रतिषेधवाक्यस्यापि प्रमाणत्वात् तस्य च त्वया प्रामाण्यस्वीकारात् किं च तदृष्टान्तेन सर्वेषामपि प्रमाणानां प्रामाण्यं सिद्धम् , प्रामाण्यप्रतिषेधवाक्यस्य प्रामाण्यास्वीकारे च तेन प्रामाण्यप्रतिषेधो नोपपद्यते- अप्रमाणस्य साधकत्वासंभवादिति सूत्रार्थः / व्याचष्टे- प्रतिषेधेति, प्रतिषेधलक्षणे = प्रतिषेधरूपे स्ववाक्ये- 'प्रत्यक्षादीन्यप्र. माणानि त्रैकाल्यासिद्धेः' इतिवाक्ये अवयवाश्रितानाम्= प्रतिज्ञाद्यवयवमूलकानां तेषामनुमानप्रत्यक्षादीनां प्रामाण्ये स्वीकृते परवाक्येपि प्रतिज्ञाद्यवयवाश्रितानां प्रत्यक्षादीनां प्रामाण्य प्रसज्यते- अविशेषात्= स्ववाक्यस्य प्रामाण्यं न तु परवाक्यस्येत्यत्र विशेषाभावादित्यन्वयः / उपसंहरति- एवमिति, एवम् स्ववाक्यप्रामाण्यात् तद्दृष्टान्तेन च सर्वेषां प्रामाणानां प्रामाण्यापत्त्या न सर्वप्रमाणप्रामाण्यप्रतिषेध उपपद्यते, प्रतिषिध्यन्ते= प्रतिषेद्बुमर्हन्ति / विप्रतिषेधशब्दघटकस्य वीत्युपसर्गस्यार्थमाह-वीति, संप्रतिपत्त्यर्थे = विशेषार्थे, व्याघाते= विरुद्धार्थे न- अर्थाभावात्= वाक्यार्थानुपपत्तेः, अत्र यदि वीत्ययमुपसों व्याघाते स्यात्तदा सर्वप्रमाणानां विप्रतिषेधः प्रतिषेधाभावस्तस्य च नेतिपदेन प्रतिषेधे सर्वप्रमाणानां प्रतिषेध एव प्राप्तः स्यात् स च न सूत्रार्थः संभवतीति वीत्ययमुपसर्गों न व्याघाते किं तु संप्रतिपत्त्यर्थक इत्यर्थः / / 14 // प्रमाणानां त्रैकाल्यप्रतिषेधो नोपपद्यते इत्याह-त्रैकाल्येति, प्रमाणानां त्रैकाल्यस्य= कालत्रयेपि यथायथं प्रमेयग्राहकत्वस्य अप्रतिषेधः- प्रतिषेधो नोपपद्यते- यथा शब्दात्= वाद्योत्पन्नशब्दाद् आतोद्यस्य= तच्छब्दोत्पादकवाद्यस्य सिद्धिः= अनुमितिर्भवति तथा तत्सिद्धेः= प्रमाणानां त्रैकाल्यसिद्धिः संभवति किं वा प्रमाणैर्जायमानप्रमया प्रमाणानां प्रामाण्यसिद्धिः संभवति-प्रामाण्यं विना प्रमोत्पत्तेरसंभवात् किं वा तत्सिद्धेः- प्रमाणात् प्रमेयसिद्धेः संभवात् प्रमाणानां त्रैकाल्यं सिद्धमिति न त्रैकाल्यप्रतिषेधः संभवतीति सूत्रार्थः / अत्र 'शब्दादातोद्यसिद्धिवत् त्रैकाल्याप्रतिषेधसिद्धिः' इत्येवं वक्तव्यमासीत् , अत एवात्र- "अत्र चकारान्तं न सूत्रान्तर्गतमिति तत्त्वालोके " इतिवृत्तिः / त्रैकाल्यासिद्धिस्त पूर्व द्वादशसूत्रे प्रत्याख्यातैवेति किमर्थमिदं सूत्रमिति जिज्ञासते- किमर्थमिति / उत्तरमाह- पूर्वेति, पूर्वोक्तस्य निबन्धनार्थम्= दाार्थम् / पूर्वोक्तं वाक्यमुपस्थापयति- उपलब्धीति, तदेतत् समाधान