________________ 104 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेस्थानं यथा विज्ञायेत / अनियमदी खल्वयं कृषिनियमेन प्रतिषेधं प्रत्याचष्टे- त्रैकाल्यस्य चायुक्तः प्रतिषेध इति / ___ तत्रैकां विधामुदाहरति- शब्दादातोद्यसिद्धिवदिति, यथा पश्चात् सिद्धेन शब्देन पूर्वसिद्धमातोद्यमनुमीयते. साध्यं चातोयं साधनं च शब्दः. अन्तर्हिते ह्यातोये स्त्रनतोऽनुमानं भवतीति- वीणा वाद्यते वेणुः पूर्यते इति स्वनविशेषेणातोद्यविशेष प्रतिपद्यते. तथा पूर्वसिद्धमुपलब्धिविषयं पश्चासिद्धेनोपलब्धिहेतुना प्रतिपद्यते इति. निदर्शनार्थत्वाचास्य शेषयोर्विधयोयथोक्तमुदाहरणं वेदितव्यमिति / कस्मात पुनरिह तन्नोच्यते पूर्वोक्तमुपपाद्यते ? इति, सर्वथा तावदयमर्थः प्रकाशयितव्यः स इह वा प्रकाश्येत तत्र वा न कश्चिद्विशेष इति / प्रमाणं प्रमेयमिति च समाख्या समावेशेन वर्तते- समाख्यानिमित्तवशात्. समाख्यानिमित्तं तूपलब्धिसाधनं प्रमाणम् उपलब्धिविषयश्च प्रमेयमिति. यदा चोपलब्धिविषयः कचिदुपलब्धिसाधनं भवति तदा प्रमाणं प्रमेयमिति चैकोऽर्थोऽभिधीयते // 15 // भाष्यारम्भे द्रष्टव्यम् / तदिति- उपलब्धिहेतोरित्यादिभाष्यं यत्पूर्वमुक्तं तत्= तस्य इत:= अस्मात् सूत्रात् समुत्थानम् = उपपत्तिः समर्थनं वा यथा विज्ञायेत अत इदं सूत्रमुच्यते इत्यन्वयः प्रतिभाति, वस्तुतस्त्वयुक्तमेवेदं पूर्वजातेन सूत्रेण पश्चाद्भाविभाष्यस्य समर्थनासंभवात् / सूत्रप्रथमखण्डस्याभिप्रायमाह- अनियमति, अनियमदर्शी= प्रमाणप्रमेययोरुक्तरीत्या पूर्वापरसहभावानामनियमदर्शी अयम्= सूत्रकारो ऋषिः पूर्वपक्षिणा पूर्वापरसहभावनियमेन= तादृशनियममाश्रित्य नवमसूत्रमारभ्य यः प्रामाण्यप्रतिषेध उक्तस्तं प्रत्याचष्टे इत्यन्वयः / प्रत्याख्यानवाक्यमाह- त्रैकाल्यस्येति, तदिदं सूत्रपूर्वखण्डस्य व्याख्यानम् / प्रमाणप्रमेययोः पूर्वापरसहभावनियमो नास्ति येन त्रैकाल्यप्रतिषेधः स्यात् किं तु यथायथं पूर्वापरसहभावसंभवात् त्रैकाल्यमुपपद्यते इत्यर्थः / ____ तत्रेति-तत्र पूर्वापरसहभावेषु. विधाम्= प्रकारम् / उक्तं व्याचष्टे- यथेति, आतोद्यम्= वाद्यं पूर्वसिद्धं तदुत्पन्नेन तत्पश्चाद्भाविना शब्देनानुमीयते- एतच्छब्दकारणीभूतं वाद्यं गृहाभ्यन्तरेऽस्तीति / साध्यसाधनपदार्थविभागमाह- साध्यमिति / पर्यवसितमाह- अन्तर्हिते इति, अन्तर्हिते= प्रत्यक्षागोचरे विषयत्वं सप्तम्यर्थः, स्वनतः= शब्दात् / अनुमितिमाह- वीणेति, वेणौ फूत्कारपूरणेन वादनं भवतीति "पूर्यते " इत्युक्तम् / दृष्टान्तमुपसंहरति- स्वनेति, वीणाशब्देन वीणां वेणुशब्देन वेणुं प्रतिपद्यते= जानाति= अनुमिनोतीत्यर्थः। प्रकृतमाह- तथेति, यथा पूर्वसिद्धमातोद्यं तच्छब्देन पश्चाद्भाविना प्रतिपद्यते तथा पूर्वसिद्धं घटादिकं पश्चाद्भाविना प्रत्यक्षादिप्रमाणेन प्रतिपत्तुं शक्यते इति न प्रमाणानामप्रामाण्यापत्तिरित्यर्थः / प्रकृतमुपसंहरति- निदर्शनेति, “शब्दादातोद्यसिद्धिवत्" इत्यस्य सूत्रवाक्यस्य निदर्शनार्थत्वात्= दृष्टान्तार्थत्वात्= दिप्रदर्शनार्थत्वात् प्रमाणप्रमेययोः पूर्वापरसहभावेषु शेषयोर्द्वयोः प्रकारयोः समाधानभाष्यारम्भोक्तमुदाहरणं वेदितव्यं यथा “कचिदुपलब्धिहेतुः पूर्व पश्चादुपलब्धिविषयो यथाऽऽदित्यस्य प्रकाशः” इति, उत्पत्तिकालिकविषयस्य विज्ञाने प्रमाणप्रमेययोः सहभाव उदाहर्तव्य इति / तादृशप्रकारद्वयमत्र किं नोदाहृतमिति जिज्ञासते- कस्मादिति / उपपाद्यते= स्मार्यते / उत्तरमाह- सर्वथेति / अयमर्थः= प्रमाणप्रमेययोः पूर्वापरसहभावः / प्रकाशयितव्यः= उदाहर्तव्यः / तत्र पूर्वत्र / प्रमाणमपि प्रमेयं भवत्येवेत्याह- प्रमाणमिति / समाख्यासमावेशे हेतुमाह- समाख्येति / प्रमाणप्रमेयसमाख्ययोनिमित्तम्= प्रवृत्तिनिमित्तमाह-समाख्यानिमित्तमिति / समावेशमुदाहरतियदेति, यथकैमेव चक्षुरुपलब्धिसाधनत्वात् प्रमाणमुपलब्धिविषयत्वाच्च प्रमेयमपि भवति, एवमेकोपि पदार्थः प्रत्यक्षादिः प्रमाणं च प्रमेयं च भवतीत्यभिधीयते इति न कश्चिद्विरोधः / स्पष्टमन्यत् // 15 //