________________ 105 प्रमाणपरीक्षा] न्यायभाष्यम् / अस्यार्थस्यावद्योतनार्थमिदमुच्यते प्रमेयता च तुलाप्रामाण्यवत् // 16 // गुरुत्वपरिमाणज्ञानसाधनं तुला प्रमाणम्. ज्ञानविषयो गुरुद्रव्यं सुवर्णादि प्रमेयम्. यदा (च) सुवर्णादिना तुलान्तरं व्यवस्थाप्यते तदा तुलान्तरपतिपत्तौ सुवर्णादि प्रमाणं तुलान्तरं प्रमेयमिति, एवमनवयवेन तन्त्रार्थ उद्दिष्टो वेदितव्यः- आत्मा तावदुपलब्धिविषयत्वात् प्रमेये परिपठितः उपलब्धौ च स्वातन्त्र्यात् प्रमाता, बुद्धिरुपलब्धिसाधनत्वात् प्रमाणम्. उपलब्धिविषयत्वात् प्रमेयम्. उभयाभावात् प्रमितिः, एवमर्थविशेष समाख्यासमावेशो योज्यः।। ___ तथा च कारकशब्दा निमित्तवशात् समावेशेन वर्तन्ते इति. 'वृक्षस्तिष्ठति' इति स्वस्थितौ स्वातन्त्र्यात् कर्ता, 'वृक्षं पश्यति' इतिदर्शनेनाप्तुमिष्यमाणत्वात् कर्म. 'वृक्षेण चन्द्रमसं ज्ञापयति' इति ज्ञापकस्य साधकतमत्वात् करणम्. 'वृक्षायोदकमासिञ्चति' इति आसिच्यमानेनोदकेन वृक्षमभिप्रैतीति संप्रदानम्. 'वृक्षात् पर्ण पतति' इति “ध्रुवमपायेऽपादानम्" इत्यपादानम्. 'वृक्षे वयांसि सन्ति' इति “आधारोऽधिकरणम्" इत्यधिकरणम्, एवं च सति न द्रव्यमानं अग्रिमसूत्रमवतारयति- अस्येति, अस्यार्थस्य= प्रमाणप्रमेयसमाख्ययोः समावेशस्य. अवद्योतनार्थम्= उपपादनार्थम् , इदम्= अग्रिमसूत्रम् / प्रमेयतेति- यथा तुलायाः पदार्थान्तरपरिमाणज्ञाने प्रमाणत्वं भवति तुलान्तरेण तत्तुलायाः परिमाणज्ञाने च प्रमेयत्वमपि भवति तथा प्रत्यक्षादिप्रमाणानामपि प्रमेयस्वमपि संभवति- समाख्यानिमित्तात्= यथोपलब्धिसाधनत्वात् प्रमाणत्वमुपलब्धिविषयत्वाच्च प्रमेयत्वमितिसूत्रार्थः / अत्र 'तुलावत' किं वा 'तुलाप्रमाणवत्' इति वक्तव्यमासीत् / तुलायाः प्रामाण्येपि यथा प्रमेयता तद्वदेव सर्वप्रमाणानां प्रमेयता संभवतीति सुत्रान्वयः / व्याचष्टे- गुरुत्वेति, गुरुत्वादिलक्षणपरिमाणज्ञानसाधनत्वात् तुला प्रमाणं प्रमेयं च तया सुवर्णादि / तुलायाः प्रमाणत्वमुपपाद्य प्रमेयत्वमुपपादयति- यदेति, सुवर्णादिना= पलादिना परिमाणद्रव्येन तुलान्तरं व्यवस्थाप्यते= परिमीयते यदा तदा तादृशतुलान्तरस्य ज्ञाने सुवर्णादि परिमाणद्रव्यं प्रमाणं भवति तादृशतुलान्तरं च प्रमेयं भवतीत्येकस्या एव तुलायाः सुवर्णादेश्च प्रमाणत्वं प्रमेयत्वं चोपपादितम् एवं सर्वप्रमाणानां प्रमेयत्वमपि संभवतिज्ञानविषयत्वादित्यन्वयः। अत्र "सुवर्णादि" इत्यत्र 'तुलान्तरम्' इतिवक्तव्यमासीत् तथा च तलान्तरेण तलान्तरं प्रमेयमित्यर्थः स्यात / उपसंहरति- एवमिति, अनवयवेन= साकल्येन, तत्रार्थ:शास्त्रसिद्धान्तः= एकत्र विविधसमाख्यासमावेशः। उद्दिष्टः= प्रतिपादितः / आत्मनि प्रमेयप्रमातृसमाख्ययोः समावेशमाह- आत्मेति. नवमसत्रे परिपठितः, प्रमातृत्वमाह- उपलब्धाविति, प्रमाताप्रमितिकर्ता " स्वतन्त्रः कर्ता" इत्यनसंधेयम / बद्धौ प्रमाणप्रमेयप्रमितिसमाख्यानां समावेशमाहबुद्धिरिति, उभयाभावात्= उपलब्धिसाधनत्वविषयत्वयोरभावात् , प्रमितिरिति प्रमाणजन्यो बोधः स च न प्रमाणं न च प्रमेयम् / उपसंहरति- एवमिति, अर्थविशेषे= पदार्थान्तरेषु / यथेन्द्रियादिकमुपलब्धिसाधनत्वात् प्रमाणमुपलविषयत्वाच्च प्रमेयमित्यलम् / कादिकारकशब्दानां स्वस्वसमाख्याप्रवृत्तिनिमित्तवशादेकत्र समावेशमुदाहरति- तथा चेत्यादिना / एकस्यैव वृक्षस्य क्रमेण पदिधकारकत्वमुदाहरति- वृक्ष इत्यादिना, कर्तृसमाख्यासमावेशे स्वातन्त्र्यं निमित्तम्- " स्वतन्त्रः कर्ता” इतिसूत्रम् 1 / कर्मत्वमाह- वृक्षमिति, दर्शनेनाप्नुमिष्यमाणत्वात्= दर्शनविषयत्वात् , वृक्ष इतिशेष:, " कतुरीप्सिततमं कर्म " इतिसूत्रम् 2 / करणत्वमाह- वृक्षेणेति, ज्ञापकस्य चैत्रादेः ज्ञापनसाधकतमत्वाद् वृक्षः करणम् " साधकतमं करणम्" इतिसूत्रम् 3 / संप्रदानत्वमाह- वृक्षायेति, वृक्षः संप्रदानम् " कर्मणा यमभिप्रेति स संप्रदानम्" इतिसूत्रम् 4 / अपादानत्वमाह- वृक्षादिति, सूत्रमाह- ध्रुवमिति / इत्यत्र वृक्षोऽपादानम् 5 / अधिकरणत्वमाह- वृक्षे इति,