________________ प्रसन्नपपरिभूषितम्- [2 अध्याये. मालिकेकारकं न वा क्रियामात्रम् / किं तर्हि ?, क्रियासाधनं क्रियाविशेषयुक्तं कारकम्- यत् क्रियासाधनं स्वतन्त्रः स कर्ता. न द्रव्यमानं न क्रियामात्रम्, क्रियया व्याप्नुमिष्यमाणतमं कर्म. न द्रव्यमानं न क्रियामात्रम्, एवं साधकतमादिष्वपि, एवं च कारकाऽन्वाख्यानं यथैवोपपत्तित एवं लक्षणतः कारकाऽन्वाख्यानमपि न द्रव्यमात्रेण न क्रियया वा / किं तर्हि ?. क्रियासाधने क्रियाविशेषयुक्त इति, कारकशब्दश्चायं प्रमाणं प्रमेयमिति स च कारकधर्म न हातुमर्हति. अस्ति भो कारकशब्दानां निमित्तवशात् समावेशः. प्रत्यक्षादीनि च प्रमाणानि- उपलब्धिहेतुत्वाव. प्रमेयं च- उपलब्धिविषयत्वात् , संवेद्यानि प्रत्यक्षादीनि प्रमाणानि च- 'प्रत्यक्षेणोपलभे अनुमानेनोपलभे उपमानेनोपलभे आगमेनोपलमे. प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं में ज्ञानम् आगमिकं मे ज्ञानम्' इति विशेषा गृह्यन्ते, लक्षणतश्च ज्ञाप्यमानानि ज्ञायन्ते विशेषेण- 'इन्द्रियार्थसंनिकर्पोत्पन्नं ज्ञानम् ' इत्येवमादिना // 16 // सूत्रमाह- आधार इति, इत्यत्र वृक्षोधिकरणम् / क्रियामात्रस्य वा क्रियारहितद्रव्यमात्रस्य वा कारकत्वं न भवति यद्येवं स्यात्तदा कादिकारकशब्दानामेकत्र समावेशो न स्यात् स्वरूपस्य वैविध्यासंभवादि. त्याह- एवमिति / कारकस्वरूपं जिज्ञासते-किमिति / कारकस्वरूपमाह- क्रियेति, क्रियासाधनस्वे सति क्रियाविशेषयुक्तत्वं कारकत्वं यथा दण्डस्य घटाद्युत्पत्तिसाधनत्वमप्यस्ति स्वयमपि चक्रभ्रामणादि क्रियायुक्तत्वमस्ति एवमन्यत्रापि बोध्यम्. तथा च द्रव्यक्रिययोस्तत्तद्विशेष्यविशेषणभाववैविध्येन विशेषणीभूतक्रियावैविध्येन वैकत्र विविधसमाख्यानां समावेशः संभवतीत्यर्थः / कर्तृसमाख्यानिमित्तमाहयदिति, स्वतन्त्रः क्रियासाधनमित्यन्वयः। प्रतिषेध्यमाह- नेति / कर्मसमाख्यानिमित्तमाह- क्रिययेति / प्रतिषेध्यमाह- नेति / कर्म विना क्रिया न भवतीति स्पष्टमेव / साधकतमादिषु= करणादिषु. व्याख्येयमितिशेषः, यथा 'साधकतमं करणम्' 'दानोद्देश्यं संप्रदानम् ' 'विभागे ध्रुवमपादानम् / 'आधारोऽधिकरणम् ' इति न द्रव्यमानं क्रियामानं वा करणादिकं भवतीति / उपसंहरति- एवं चेति, कादिकारकाणाम् ‘क्रियायां स्वातन्त्र्यात् कर्ता 'परसमवेतक्रियाफलशालित्वात् कर्म' इत्याशुपपतितोऽन्वाख्यानम्= उपपादनं तत्र च न द्रव्यमात्रस्य वा क्रियामात्रस्य वा कारकत्वं. तथा कादिकारकाणाम् ‘क्रियासाधने स्वतन्त्रः कर्ता''परसमवेतक्रियाफलशालि कर्म' इत्यादिलक्षणतोप्यन्वाख्यानं न द्रव्यमात्रेण द्रव्यत्वमात्रेण न वा क्रियया क्रियात्वमात्रेण संभवति, द्रव्यत्वं वा क्रियास्वं वान कारकलक्षणं किं तूक्तरूपमेवेत्यर्थः / कारकलक्षणान्वाख्यानं जिज्ञासते-किमिति / उत्तरमाह-क्रियासाधने इति, पूर्व व्याख्यातम् / पर्यवसितमाह- कारकशब्द इति, 'प्रमीयतेऽनेन' इतिव्युत्पत्त्या प्रमाणमिति करणकारकशब्दः, 'प्रमीयते ' इतिव्युत्पत्त्या प्रमेयमिति कर्मकारकशब्दः, सः= प्रमाणप्रमेयादिकारकशब्दवाच्यश्च कारकधर्मम् उपलब्धिसाधनत्वविषयत्वादिकं धर्म हातुं नार्हति / फलितमाहअस्तीति, कादिकारकशब्दानामेकत्रैव वृक्षे समावेश उदाहृतस्तथा च प्रमाणप्रमेयशब्दयोरपि कारकशब्दत्वात् प्रवृत्तिनिमित्तवशेनैकत्र समावेशः संभवत्येव तदेवाह- प्रत्यक्षादीनीति, प्रत्यक्षादीनि उपलब्धिहेतुत्वात् प्रमाणानि भवन्ति उपलब्धिविषयत्वाच्च प्रमेयाण्यपि भवन्ति-प्रमेयत्वस्य केवलान्व. यित्वात् / प्रत्यक्षादीनां प्रमेयत्वं प्रमाणत्वं चोपसंहरति- सेवेद्यानीति, संवेद्यानीस्यनेन प्रमेयत्वमुक्तम् / प्रत्यक्षादीनां प्रमाणत्वमुदाहरति- प्रत्यक्षेणेति, तृतीययोपलब्धिसाधनत्वं प्राप्तं तेन च प्रमाणत्वम् , प्रत्यक्षादीनां प्रमेयत्वमुदाहरति- प्रत्यक्षमिति, अत्र प्रत्यक्षादीनां परामर्शात् प्रमेयत्वं प्राप्तम् / इति= इत्येवं विशेषाः= प्रमाणत्वप्रमेयत्वलक्षणा विशेषाः / सामान्यतः प्रमाणत्वमुक्त्वा प्रत्यक्षत्वादिविशेषरूपमुक्तं सूचयति- लक्षणत इति, विशेषेण= प्रत्यक्षत्वादिविशेषतस्तु लक्षणतो ज्ञाप्यमानानि ज्ञायन्ते लक्षणं च 'इन्द्रियार्थसंनिकर्पोत्पन्नम् ' इत्यादिकं तच्च पूर्वमुक्तमित्यर्थः // 16 //