________________ प्रमाणपरीक्षा] न्यायभाष्यम् / सेयमुपलब्धिः प्रत्यक्षादिविषया किं प्रमाणान्तरतः ? अथाऽन्तरेण प्रमाणम्= असाधना ? इति, कश्चात्र विशेषः?, प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः॥१७॥ यदि प्रत्यक्षादीनि प्रमाणेनोपलभ्यन्ते ? येन प्रमाणेनोपलभ्यन्ते तत् प्रमाणान्तरमस्तीति प्रमाणान्तरसद्भावः प्रसज्यते इत्यनवस्थामाह- तस्याप्यन्येन तस्याप्यन्येनेति, न चानवस्था शक्याऽनुज्ञातुम्- अनुपपत्तेरिति // 17 // तद्विनिवृत्तेर्वा ? प्रमाणसिद्धिवत् प्रमेयसिद्धिः // 18 // यदि प्रत्यक्षायुपलब्धौ प्रमाणान्तरं निवर्तते ? आत्मेत्युपलब्धावपि प्रमाणान्तरं निवमंति- अविशेषात्. एवं च सर्वप्रमाणविलोप इति // 18 // अत आह न-प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः // 19 // यथा प्रदीपप्रकाशः प्रत्यक्षाङ्गत्वाद् दृश्यदर्शने प्रमाणं स च प्रत्यक्षान्तरेण= चक्षुषः पूर्वपक्षी जिज्ञासते- सेयमिति, प्रत्यक्षादीनां प्रमेयत्वेन योपलब्धिरुक्ता सा प्रमाणान्तरेण भवति किं वा विनैव प्रमाणान्तरमिति जिज्ञासा, द्वितीयपक्षं विशदयति-असाधनेति / उक्तोपलब्धिः प्रमाणान्तरेण वा भवतु प्रमाणान्तरं विना वा कोत्र विशेष इति सिद्धान्ती जिज्ञासते- कश्चेति / पूर्वपक्षी सूत्रेण विशेषमाह- प्रमाणत इति, यदि प्रत्यक्षादीनामुपलब्धिः प्रमाणान्तरेण सिध्यति तदा तादृशप्रमाणान्तरस्याप्युपलब्धिः प्रमाणान्तरेणैव स्यादित्युत्तरोत्तरं प्रमाणोपलब्ध्यर्थं प्रमाणानाम्= प्रमाणविषयकाणां प्रमाणान्तराणां सिद्धिप्रसङ्गः= आपत्तिः स्यादित्यनवस्थादोष इति प्रथमपक्षे विशेष इतिसूत्रान्वयः / व्याचष्टे- यदीति, प्रमाणेन= प्रमाणान्तरेण / उक्त दोषमाह- येनेति, प्रत्यक्षादीनीति शेषः, तथा च प्रत्यक्षाद्युपलब्ध्यर्थं प्रमाणान्तरं स्वीकार्य तादृशप्रमाणान्तरस्याप्युपलब्ध्यर्थ प्रमाणान्तरं स्वीकार्यमिति तस्य तस्य प्रमाणान्तरस्य अन्येनान्येन प्रमाणान्तरेणोपलब्धावनवस्थेत्याह- तस्येति / अनवस्था च न स्वीकर्तुं शक्येत्याह- न चेति / उक्ते हेतुमाह- अनुपपत्तेरिति, अनवस्थायां पदार्थसिद्धेः पर्यवसानं न संभवतीति नानवस्था स्वीकर्तुं शक्येत्यन्वयः // 17 // .. प्रमाणान्तरमन्तरेण प्रमाणसिद्धौ दोषमाह- तदिति, तद्विनिवृत्तेः= प्रमाणान्तरविनिवृत्तेः, यदि प्रमाणन्तरं विना प्रत्यक्षादिप्रमाणसिद्धिरिति नानवस्था ? तदा यथा प्रमाणं विना प्रमाणसिद्धिस्तथा प्रमाणं विना प्रमेयसिद्धिरपि स्यादिति सर्वप्रमाणविलोप एव स्यादिति द्वितीयपक्षे विशेष इतिसूत्रार्थः / व्याचष्टे- यदीति, निवर्तते= नापेक्ष्यते, अत्र पक्षे दोषमाह- आत्मेति, विषयमात्रोपलब्धी प्रमाणापेक्षा न स्यादित्यर्थः, प्रमेयस्य प्रमाणेनोपलब्धिर्न प्रमाणस्येत्यत्र विशेषाभावात् / उपसंसहरति-एवं चेति॥१८॥ ____ अग्रिमसूत्रमवतारयति-अत इति, अतः= पूर्वोक्तदोषप्राप्तः। नेति-पूर्वोक्तदोषो नास्तीत्यर्थः, उक्ते हेतुमाह-प्रदीपेति, यथा घटादिभासकस्य प्रदीपप्रकाशस्य सिद्धयर्थम्= उपलब्ध्यर्थ प्रकाशान्तरापेक्षा न भवति तथा तत्सिद्धेः प्रमाणसिद्धयर्थमपि प्रमाणान्तरापेक्षा न भवतीति प्रदीपप्रकाशसिद्धिवत् प्रमाणसिद्धिस्वीकारे न कोपि दोष इतिसूत्रार्थः, यदा हि प्रमाणानामुपलब्धिः प्रमाणान्तरेण तदाप्रमाणानां प्रमेयत्वमेव न प्रमाणत्वं प्रमेयस्य च प्रमाणेनोपलब्धौ नदोषः यदा हि प्रमाणत्वं तदा नोपलब्धिविषयत्वमिति न प्रमाणान्तरापेक्षेत्याशयः, अन्यथा स्वतःप्रामाण्यापत्तिः स्यात् सा चात्रानिष्टेत्यनुसंधेयम् व्याचष्टे यथेति, प्रत्यक्षाङ्गत्वात्= प्रत्यक्षसहकारित्वात् , इत्यनेन प्रदीपप्रकाशस्य प्रमाणत्वमुक्तं. प्रमेयत्वं चाह- स चेति,