________________ 104 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेसंनिकर्षण गृह्यते, प्रदीपभावाभावयोर्दर्शनस्य तथाभावाद् दर्शनहेतुरनुमीयते. 'तमसि प्रदीपमुपाददीयाः' इत्याप्तोपदेशेनापि प्रतिपद्यते, एवं प्रत्यक्षादीनां यथादर्शनं प्रत्यक्षादिभिरेवोपसब्धिः। इन्द्रियाणि तावत् स्वविषयग्रहणेनैवानुमीयन्ते. अर्थाः प्रत्यक्षतो गृह्यन्ते. इन्द्रियार्थसंनिकर्षास्त्वावरणेन लिङ्गेनानुमीयन्ते. इन्द्रियार्थसंनिकर्पोत्पन्नं ज्ञानमात्ममनसोः संयोगविशेषादात्मसमवायाच सुखादिवद् गृह्यते. एवं प्रमाणविशेषो विभज्य वचनीयः / यथा च दृश्यः सन् प्रदीपप्रकाशो दृश्यान्तराणां दर्शनहेतुरिति दृश्यदर्शनव्यवस्थां लभते एवं प्रमेयं सत् किंचिदर्थजातमुपलब्धिहेतुत्वात प्रमाणप्रमेयव्यवस्थां लभते, सेयं प्रत्यक्षादिभिरेव प्रत्यक्षादीनां यथादर्शनमुपलब्धिर्न प्रमाणान्तरतो न च प्रमाणमन्तेरण निस्साधनेति // तस्य प्रदीपप्रकाशस्य चक्षुस्संनिकर्षग्राह्यत्वात् प्रमेयत्वमपि प्राप्तमिति प्रदीपप्रकाशवत् सर्वप्रमाणानां प्रमाणत्वं प्रमेयत्वं चोपपन्नमित्यर्थः / प्रदीपप्रकाशस्यानुमितिविषयत्वमाह- प्रदीपभावेति, तथाभावात्= भावाभावयोः संभवात् , प्रदीपसत्त्वे दर्शनसत्त्वं प्रदीपासत्त्वे तमसि दर्शनासत्त्वमित्यन्वयव्यतिरेकाभ्यां प्रदीपप्रकाशो दर्शनहेतुरित्यनुमीयते अनुमितिविषयत्वाच्च प्रमेयत्वं प्राप्तम् , प्रदीपप्रकाशस्य शाब्दबोधविषयत्वमाह- तमसीति, इत्याप्तोपदेशेनापि प्रदीपप्रकाशो दर्शनहेतुरिति प्रतिपद्यते= ज्ञायते इति ज्ञानविषयत्वात् प्रमेयत्वं प्राप्तमित्यन्वयः / उपसंहरति- एवमिति, यथादर्शनम्= लोके यथा दृश्यते तदनुसारेणेत्यर्थः / वस्तुतस्तु प्रदीपप्रकाशस्य ग्राहकत्वेन प्रमाणत्वं ग्राह्यत्वेन प्रमेयत्वं चोपक्रम्य एवमुपसंहारः प्रमादकृत एवेत्यनुसंधेयम्- उपक्रमोपसंहारयोरेकविषयकत्वनियमात् / प्रत्यक्षादीनां प्रत्यक्षादिभिरेव सिद्धिसंभवात् प्रमाणान्तरस्वीकारापेक्षा नास्तीत्याशयः। प्रत्यक्षकारणीभूतानां पदार्थानां ज्ञानप्रकारमाह- इन्द्रियाणीति, आत्मा विभुरेवातो मनस्संयुक्तोप्यथापि कदाचिद् घटादिप्रत्यक्षं न भवति कदाचिद् भवतीति घटादिज्ञानेन तत्साधनीभूतानीन्द्रियाण्यनुमीयन्ते- क्रियामात्रस्य सकरणकत्वनियमेन ज्ञानक्रियाया अपि सकरणकत्वात् ज्ञानक्रियाकरणं चेन्द्रियाणीत्यर्थः। घटादीनां प्रत्यक्षग्राह्यत्वमाह- अर्था इति / इन्द्रियाणामपि आवृतपदार्थग्राहकत्वं न दृश्यते गृहाभ्यन्तरस्थितपदार्थग्रहणाभावादितीन्द्रियाणां ग्राह्येन संनिकर्षापेक्षा प्राप्ता- इन्द्रियैः स्वसंनिकृष्टस्यैव ग्रहणादित्यावरणेन लिङ्गेन= आवरणस्य पदार्थग्रहणप्रतिबन्धकत्वेनेन्द्रियार्थसंनिकर्षा अनुमीयन्ते, प्रत्यक्षस्य ग्रहणप्रकारमाह- इन्द्रियार्थेति, यथात्मनि समवेतत्वादात्मना मनस्संयोगविशेषेण सुखादिकं गृह्यते तथैव प्रत्यक्षादिज्ञानमप्यात्मनि समवेतत्वादात्मना मनस्संयोगविशेषेण गृह्यते चेतनस्य ग्रहणसमर्थत्वात् / स्वाभिप्रायमाह- एवमिति, किं केन प्रमाणेन कथं गृह्यते इति विभज्य= विशेषरूपेण वक्तव्यं न तु सामान्यरूपेण- सर्वस्य सर्वग्राहकत्वाभावात्, तथा च प्रत्यक्षादिज्ञानमात्मना गृह्यते ज्ञानं चात्मसमवेतमेवेति तद्ग्रहणाथै बाह्यप्रमाणापेक्षा नास्ति येनानवस्था स्यात्. घटादिकं च नात्मसमवेतं येन ज्ञानवद् बाह्यप्रमाणं विनापि गृह्यतेति न सर्वप्रमाणविलोपापत्तिरित्यर्थः / प्रदीपप्रकाशस्य प्रमाणत्वं प्रमेयत्वं चाह- यथेति, दृश्यदर्शनव्यवस्थाम्= प्रमेयप्रमाणस्वरूपताम् / दृश्यतेऽनेनेति दर्शनम् दर्शनप्रमाणमित्यर्थः। प्रमाणानां प्रमेयत्वमाह- एवमिति, किं चिदर्थजातम्= प्रत्यक्षादिकम् आत्मग्राह्यत्वात् प्रमेयं घटादिग्राहकत्वाच प्रमाणमिति प्रमाणप्रमेयज्यवस्थाम= प्रमाणप्रमेयस्वरूपतां लभते / उपसंहरति- सेयमिति, प्रत्यक्षादीनामुपलब्धिः प्रमाणान्तरतोपि नास्ति येनोक्तानवस्था स्यात् प्रमाणं विनापि नास्त्रि येन निस्साधना स्यात् ततश्चोक्तरीत्या सर्वप्रमाणविलोपापत्तिः स्यात् / प्रत्यक्षाद्युपलब्धौचात्ममनस्संयोग एव साधनं न बाह्यं प्रमाणमित्युक्तमेवेति नानवस्थेत्यर्थः //