________________ न्यायभाष्यम्। 109 प्रमाणपरीक्षा ] तेनैव तस्याऽग्रहणमिति चेत् ? न- अर्थभेदस्य लक्षणसामान्यात् / प्रत्यक्षादीनां प्रत्यक्षादिभिरेव ग्रहणमित्ययुक्तम्- अन्येन ह्यन्यस्य ग्रहणं दृष्टमिति, नअर्थभेदस्य लक्षणसामान्यात्-प्रत्यक्षलक्षणेनाऽनेकोथः संगृहीतस्तत्र केन चित् कस्यचिद् ग्रहणमित्यदोषः, एवमनुमानादिष्वपीति, यथोद्धृतेनोदकेनाऽऽशयस्थस्य ग्रहणमिति // __ ज्ञातृमनसोश्व दर्शनात् / 'अहं सुखी अहं दुःखी च' इति तेनैव ज्ञात्रा तस्यैव ग्रहणं दृश्यते. “युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् " इति च तेनैव मनसा तस्यैवानुमानं दृश्यते, ज्ञातुज्ञेयस्य चाभेदो ग्रहणस्य ग्राह्यस्य चाभेद इति // यदुक्तम्- " सेयं प्रत्यक्षादिभिरेव प्रत्यक्षादीनां यथादर्शनमुपलब्धिः " इति तत्रामाश्रयदोषेणाशङ्कते- तेनैवेति, तनैव प्रत्यक्षेण तस्यैव प्रत्यक्षस्य ग्रहणं नोपपद्यते- आत्माश्रयदोषादसंभवाञ्चेत्यर्थः, उक्तं परिहरति- नेति, परिहारहेतुमाह- अर्थेति, लक्षणसामान्यात= सामान्यलक्षगाद् अर्थभेदस्य= 'लक्ष्यपदार्थभेदस्य प्राप्तत्वात्. सामान्यलक्षणं हि लक्ष्याणामनेकत्वे एव क्रियते न त्वेकव्यक्तिमात्रस्य प्रत्यक्षादीनां च " इन्द्रियार्थसंनिकर्षोत्पन्नम्" इत्यादि सामान्यलक्षणं कृतं तेन लक्ष्याणां प्रत्यक्षव्यतीनां भेदः= अनेकत्वं प्राप्तं तथा चैकस्याः प्रत्यक्षव्यक्तेरपरया प्रत्यक्षव्यक्त्या ग्रहणम्= उपलब्धिर्भवतीति नात्माश्रयदोषो न चाप्यनवस्था- उत्तरोत्तरप्रत्यक्षाणां नियमेन ग्रहणेच्छाया असंभवात् द्वित्रकोटिपर्यन्तं धावनेनाऽनाश्वासनिवृत्तिसंभवादित्यर्थः / अत्र " प्रत्यक्षजातीयेन प्रत्यक्षजातीयस्य ग्रहणमातिष्ठामहे न चानवस्थास्ति- किंचित् प्रमाणं यत् स्वज्ञानेनान्यधीहेतुर्यथा धूमादि किंचित् पुनरज्ञातमेव बुद्धिसाधनं यथा चक्षुरादि. तत्र पूर्व स्वज्ञाने चक्षुराद्यपेक्षं चक्षुरादि तु ज्ञानानपेक्षमेव ज्ञानसाधनमिति काऽनवस्था, बुभुत्सया च तदपि शक्यज्ञानं सा च कदाचिदेव कचिदिति नानवस्था " इति तात्पर्यटीका / ध्याचष्टे- प्रत्यक्षादीनामिति, अयं हि सिद्धान्तिवाक्यानुवादः / अत्र पूर्वपक्षी दोषमाह- अन्येनेति, तथा च तेनैव प्रत्यक्षादिना तस्यैव प्रत्यक्षादेर्ग्रहणं नोपपद्यते इत्यर्थः। परिहरति- नेति / परिहारहेतुमाह- अर्थभेदस्येति, एतद्वाक्यं व्याचष्टे- प्रत्यक्षेति, "इन्द्रियार्थसंनिकर्षोत्पन्नम्" इतिप्रत्यक्षलक्षणेन अनेकोर्थः= प्रत्यक्षाणामनेकत्वं प्राप्तं तथा च केनचित् प्रत्यक्षेण कस्यचित् प्रत्यक्षान्तरस्य ग्रहणं भवतीति नात्माश्रयदोषः। एवमनुमानादिष्वप्यन्येनान्यस्य ग्रहणे न कोपि दोष इत्याह- एवमिति / सजातीयेन सजातीयग्रहणे दृष्टान्तमाह- यथेति, यथोर्ध्वमुद्धृतेनोदकेन तत्सजातीयत्वमाशयस्थस्य= कूपादिनिष्ठस्य जलस्य गृह्यते- मधुरमित्यादि. तथैव प्रत्यक्षान्तरेण प्रत्यक्षान्तरग्रहणे न कोपि दोष इत्यर्थः, अत्र " उद्धृतजलजातीयत्वं कूपादिस्थस्य जलस्योद्धृतादन्यस्यैव गृह्यते न तेनैव तस्य ग्रहणं तथेहापीत्यर्थः” इति श्रीगुरुचरणाः / / तेनैव तस्य ग्रहणे दृष्टान्तमाह- ज्ञातृमनसोरिति, यथा ज्ञात्रैवात्मना ज्ञाता गृह्यते यथा च मनसा मनो ग्राह्यते तथा प्रत्यक्षादिना प्रत्यक्षादिग्रहणे न कोपि दोष इत्यर्थः / दर्शनात्= ग्रहणदर्शनात् / क्याचष्टे- अहमिति, इति= इत्यत्र, ज्ञात्रा= आत्मना / तस्य= अहमित्यात्मनः / मनसा मनोग्रहणमुदाहरति- युगपदिति, युगपज्ज्ञानानुत्पत्तिलक्षणेन लिङ्गेन मनसैव मनसो ग्राह्यत्वं दृश्यते, स्वाभिप्रायमाहज्ञातुरिति, ज्ञात्रा ज्ञातृग्रहणे स एव ज्ञाता स एव च ज्ञेय इति ज्ञातृज्ञेययोरभेद एव. मनोनुमाने च मन एव ग्रहणम्= ग्रहणसाधनं करणे ल्युट्प्रत्ययश्रयणात् ग्राह्यं चेति ग्रहणग्राह्ययोरभेद इति यथात्राभेदेपि ग्राह्यत्वग्राहकत्वमुभयमुपपद्यते तथा प्रत्यक्षादीनामपि प्रत्यक्षादिभिर्ग्रहणमुपपद्यते इत्यर्थः // ..