________________ 116 110 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १माहिके निमित्तभेदोऽत्रेति चेत् ? समान / मानिमित्तान्तरेण विना ज्ञाताऽऽत्मानं जानीते. न च निमित्तान्तरेण विना मनसा मनो गृह्यते इति, समानमेतत्= प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रहणम् इत्यत्राप्यर्थभेदो न गृह्यते इति // प्रत्यक्षादीनां चाविषयस्यानुपर्पत्तेः।। यदि स्यात् किंचिदर्थजातं प्रत्यक्षादीनामविषयः यत् प्रत्यक्षादिभिर्न शक्यं ग्रहीतुं तस्य ग्रहणाय प्रमाणान्तरमुपादीयेत तत्तु न शक्यं केन चिदुपपादयितुमिति, प्रत्यक्षादीनां यथादर्शनमेवेदं सच्चाऽसच सर्व विषय इति // केचित्तु दृष्टान्तमपरिगृहीतं हेतुना= विशेषहेतुमन्तरेण साध्यसाधनायोपाददते यथा प्रदीपप्रकाशः प्रदीपान्तरप्रकाशमन्तरेण गृह्यते तथा प्रमाणानि प्रमाणान्तरमन्तरेण गृह्यन्ते इति. स चायम् पूर्वपक्षी शङ्कते- निमित्तेति, अत्र= ज्ञात्रा ज्ञातृग्रहणे मनसा च मनोग्रहणे निमित्तभेदोस्ति अर्थात् आत्मा केनचित् निमित्तेन- विशेषणेन ज्ञाता भवति यथा मनस्संयोगेन. केनचित् निमित्तेन सुखादिसमवायेन च ज्ञेयो भवति. मनोपि इन्द्रियसंयुक्तत्वादिना विशेषणेन ग्रहणम्= ग्रहणंसाधनं भवति' ज्ञानविषयत्वादिना च ग्राह्यं भवतीति निमित्तमेदादभेदेपि ग्राह्यग्राहकत्वमुपपद्यते न चैवं प्रत्यक्षादिभिः प्रत्यक्षादिग्रहणे निमित्तमेदः संभाव्यते इत्यर्थः / उत्तरमाह- समानमिति, निमित्तभेदोयं प्रत्यक्षादिध्वपि समानो यथोपलब्धिसाधनत्वात् प्रमाणत्वमुपलब्धिविषयत्वाञ्च प्रमेयत्वमिति निमित्तभेदस्यापि सत्वात् प्रत्यक्षादीनां प्रत्यक्षादिर्भिग्रहणे न कोपि दोष इत्यर्थः / पूर्वपक्षं व्याचष्टे- नेति, निमित्तान्तरं चोक्तमेव. आत्मानम्= स्वम्। उत्तरपक्षं व्याचष्टे- समानमिति, प्रत्यक्षादिष्वितिशेषः, उक्तं ब्याचष्टेप्रत्यक्षादिभिरिति, प्रत्यक्षादिभिः प्रत्यक्षादीनां ग्रहणेपि अर्थभेदः= दृष्टान्तादुक्ताद् वैसादृश्यं न गृह्यते किंतु उक्तो निमित्तभेदोस्त्येवेत्यमेदेपि ग्राह्यग्राहकत्वमुपपद्यते इत्यर्थः / अत्र " अर्थमेदो गृह्यते " इतिपाठपक्षे तु अर्थभेदः= निमित्तभेदो गृह्यते= अस्त्येव प्रत्यक्षादिभिः प्रत्यक्षादिग्रहणे इत्यर्थः / निमित्तभेदश्वोक्त एव- प्रमेयत्वेन रूपेण ग्राह्यत्वं प्रमाणत्वेन च रूपेण ग्राहकत्वमिति // प्रत्यक्षादीनां प्रत्यक्षादिविषयत्वे उपपत्तिमाह- प्रत्यक्षादीनामिति, प्रत्यक्षादीनामविषयः कोपि नास्ति किं तु सर्वमेव पदार्थजातं प्रत्यक्षादीनां विषय एव-प्रमेयत्वस्य केवलान्वयित्वादिति प्रत्यक्षादीनामपि प्रत्यक्षादिविषयत्वं प्राप्तं तेन प्रत्यक्षादिभिः प्रत्यक्षादिग्रहणं सिद्धमिति मूलार्थः / प्रत्यक्षादीनां कोप्यविषयोस्तीत्यत्रोपपत्तेरभवादित्यन्वयः, प्रत्यक्षाद्यविषयत्वानुपपत्तेरिति यावत् / व्याचष्टे- यदीति, यदि किंचिदर्थजातं प्रत्यक्षादीनामविषयः स्यात्तदा यत् प्रत्यक्षादिभिर्ग्रहीतुं न शक्येत तस्य ग्रहणाय प्रमाणान्तरमुपादीयेत= अपेक्ष्येत ततश्च प्रत्यक्षादीनां प्रत्यक्षाद्याविषयत्वं स्यादपि तत= पदार्थमात्रस्य प्रत्यक्षाद्यविषयत्वं तु केनाप्युपपादयितुं न शक्यते किं तु यथादर्शनम्= यथायोग्यमिदं सर्व सञ्चाऽसच्च पदार्थजातं यदस्ति तत्सर्वमेव प्रत्यक्षादीनां विषयो भवत्येवेति पदार्थत्वात् प्रत्यक्षादीनामपि प्रत्यक्षादिविषयत्वं सिद्धमित्यर्थः / असतः शाब्दबोधविषयत्वं भट्टपादैरुक्तम्- " अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि" इति // "न प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः” इत्युक्तसूत्रविषयक प्रमाणानां स्वयंप्रकाशत्ववादिनामभिप्रायमनबदति- केचिदिति, दृष्टान्तम= तत्सूत्रोक्तं प्रदीपप्रकाशलक्षणं दृष्टान्तं हेतुनाऽपरिगृहीतम= चिोपडेतं पिनव- स्वयंप्रकाशत्वहेतमपेक्ष्य स्वरूपमात्रेण साध्यसाधनाय=प्रमाणेष प्रमाणान्तरानपेक्षत्वसाधनायोपादपते- समर्थयन्ति तथा हि- यथा प्रदीपप्रकाशो न प्रदीपान्तरसाक्षेपः किं तु