________________ प्रमाणपरीक्षा] न्यायभाष्यम्। 111 क चिन्निवृत्तिदर्शनादनिवृत्तिदर्शनाच्च क चिदनेकान्तः / यथाऽयं प्रसङ्गो निवृत्तिदर्शनात् प्रमाणसाधनायोपादीयते एवं प्रमेयसाधनायाप्युपादेयःअविशेषहेतुत्वात्, यथा स्थाल्यादिरूपग्रहणे प्रदीपप्रकाशः प्रमेयसाधनायोपादीयते एवं प्रमाणसाधनायाप्युपादेयः- विशेषहेत्वभावात् , सोयं विशेषहेतुपरिग्रहमन्तरेण दृष्टान्त एकस्मिन् पक्षे उपादेयो न प्रतिपक्षे इत्यनेकान्तः= एकस्मिंश्च पक्षे दृष्टान्त इत्यनेकान्त:- विशेषहेत्वभावादिति॥ स्वयंप्रकाश एव तथा प्रमाणान्यपि न प्रमाणान्तरसापेक्षाणि किं तु स्वयंप्रकाशान्येव तथा च प्रमाणानां प्रमाणान्तरग्राह्यत्वापेक्षा नोपपद्यते इत्यर्थः / अत्र " अपरे तु हेतुविशेषपरिग्रहमन्तरेण दृष्टान्तमात्रं प्रदीपप्रकाशसूत्रेणोपाददते यथा किल प्रदीपप्रकाशः प्रदीपान्तरप्रकाशमन्तरेण गृह्यते तथा प्रमाणान्यपि प्रमाणान्तरमन्तरेण ग्रहीष्यन्ते इति तान् प्रतीदमुच्यते- कचिन्निवृत्तिदर्शनात् ( इत्यादि )" इतिवार्तिकम / ये प्रदीपप्रकाशदृष्टान्तेन प्रमाणानां प्रमाणान्तराविषयत्वं साधयन्ति तेषां मतेऽत्र प्रदीप. प्रकाशः स्वरूपमात्रेण दृष्टान्तः स्वयंप्रकाशश्च किं वा स्वयंप्रकाशत्वहेतुना दृष्टान्त इति विकल्प्य प्रथमकल्पे दोषमाह- कचिदिति, स चायं प्रदीपप्रकाशः स्वरूपमात्रेण दृष्टान्तीकृतः कचिन्निवृत्तिदर्शनात् क्वचिदनिवृत्तिदर्शनाचाऽनेकान्तः= व्यभिचारी साध्यासाधक इत्यन्वयः, प्रकाशकापेक्षायाः कचिन्निवृत्तिदृश्यते यथा प्रदीपप्रकाशे- प्रदीपप्रकाशस्य स्वप्रकाशार्थ प्रकाशान्तरापेक्षा न भवतीति. 'कचिच्च प्रकाशकापेक्षाया निवृत्तिर्न दृश्यते यथा घटादौ- घटादेः स्वप्रकाशार्थ प्रकाशापेक्षाया दर्शनादिति स्वरूपमात्रतः प्रदर्शितेन प्रदीपप्रकाशदृष्टान्तेन पदार्थमात्रस्य प्रकाशकानपेक्षत्वं न सिध्यतीति प्रदीपप्रकाशदृष्टान्तः= अनेकान्तः= साध्यासाधक एव अन्यथा घटादीनामपि प्रकाशकानपेक्षत्वं स्यादित्यर्थः / प्रदीपप्रकाशस्य स्वरूपमात्रेण प्रकाशानपेक्षत्वं नास्ति येन प्रमाणानां प्रमाणान्तराविषयत्वमापद्येत किं तु स्वयंप्रकाशत्वेन. स्वयंप्रकाशत्वं च प्रमाणेषु नास्ति येन प्रमाणानां प्रमाणान्तरानपेक्षत्व. मापद्यतेति भावः / इदं च कचिदित्यादिवाक्यं सूत्रकारस्यैव सूत्रमित्यपि केषां चिन्मतम् / व्याचष्टे- यथेति, अयं प्रसङ्कः प्रकाशकानपेक्षत्वप्रसङ्गः किं वा प्रदीपप्रकाशदृष्टान्तोयं यथा * निवृत्तिदर्शनात्= प्रदीपप्रकाशप्रकाशार्थ प्रकाशकान्तरस्य निवृत्तिदर्शनात्= अनपेक्षादर्शनात् प्रमाण साधनाय= प्रमाणानां प्रमाणानपेक्षत्वसाधनायोपादीयते= प्रदर्यते तथा प्रमेयसाधनाय= प्रमेयाणामपि प्रमाणानपेक्षत्वसाधनाय= स्वयंप्रकाशत्वसाधनायोपादेयः- अविशेषहेतुत्वात्= विशेषहेतोरभावात् नाम प्रदीपप्रकाशदृष्टान्तेन प्रमाणानां स्वयंप्रकाशत्वं संभवति प्रमेयाणां च न संभवतीत्यत्र हेतोरभावात् तथा च सर्वप्रमाणविलोपः स्यादित्याशयः / विरुद्धदृष्टान्तमाह- यथेति, यथा स्थाल्यादिरूपग्रहणकाले प्रमेयसाधनाय= रूपनिश्चयाय प्रदीपप्रकाश उपादीयते तथा प्रमाणसाधनाय प्रमाणान्तरापेक्षा स्यादेवविशेषहेतोरभावात्= रूपादीनां परप्रकाश्यत्वं संभवति प्रमाणानां च न संभवतीत्यत्र हेतोरभावात् तथा च रूपादिवत् प्रमाणानामपि प्रमाणान्तरविषयत्वं सिद्धमित्यर्थः / उपसंहरति- सोयमिति, सोयं प्रदीप. प्रकाशो दृष्टान्तः स्वयंप्रकाशत्वहेतुपरिग्रहं विना स्वरूपमात्रेण एकस्मिन् प्रमाणानामेव प्रमाणान्तरानपेक्षत्वपक्षे उपादेयः- समर्थोस्ति न तु प्रतिपक्षे= प्रमेयाणां प्रमाणानपेक्षत्वेपीत्यनेकान्तः= साध्यासाधक इत्यन्वयः, उक्तमेव पुनराह- एकस्मिंश्चेति, दृष्टान्तस्यानेकान्तत्वे एकपक्षीयत्वं हेतुः एकपक्षीयत्वेपि विशेषहेतुर्नास्तीतिहेतुरित्यनेकान्तः, यद्येकपक्षीयत्वे विशेषहेतुः स्यात्तदा न स्यादप्यनेकान्तत्वमित्याशयः प्रतीयते / यदि महानसदृष्टान्तेन कस्य चिद्वह्निमत्वं स्यात् कस्य चिच्च न स्यात्तदा यथा महानसदृष्टान्तस्यानेकान्तत्वमापद्येत तथात्रापि विज्ञेयं. यथा च ' अयं विद्वान् चैत्रवत् ' इत्यत्र चैत्रदृष्टान्तेन मुर्खस्य विद्वत्त्वं नापद्यते इति दृष्टान्तस्यानेकान्तत्वं तथा प्रदीपप्रकाशदृष्टान्तेन प्रमेयाणां स्वयंप्रकाशत्वं नापद्यते इति दृष्टान्तस्यानेकान्तत्वं प्राप्तं ततश्च प्रमाणेष्वपि स्वयंप्रकाशत्वसाधकत्वं नोपपद्यते इत्यर्थः / अत्र " अयं च प्रदीपप्रकाशदृष्टान्तः प्रमाणपक्षे भवतु मा भूत् प्रमेयपक्षे इत्यत्रापि नियमहेतुर्वक्तव्यः,