________________ प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेविशेषहेतुपरिग्रहे सति उपसंहाराभ्यनुज्ञानादप्रतिषेधः। विशेषहेतुपरिगृहीतस्तु दृष्टान्त एकस्मिन् पक्षे उपसंहियमाणो न शक्योऽननुज्ञातुम्. एवं च सति 'अनेकान्तः' इत्ययं प्रतिषेधो न भवति / प्रत्यक्षादीनां प्रत्यक्षादिभिरुपलब्धावऽनवस्थेतिचेत् ? न- संविद्विषय ___ निमित्तानामुपलब्ध्या व्यवहारोपपत्तेः / प्रत्यक्षेणार्थमुपलभे अनुमानेनार्थमुपलभे उपमानेनार्थमुपलभे आगमेनार्थमुपलभे इति. प्रत्यक्षं मे ज्ञानम् आनुमानिकं मे ज्ञानम् औपमानिकं मे ज्ञानम् आगमिकं मे ज्ञानमिति संविद्विषयं संविनिमित्तं चोपलभमानस्य धर्मार्थसुखापवर्गप्रयोजनः तत्सत्यनीकपरिवर्जनप्रयोजनश्च व्यवहार उपपद्यते सोयं तावत्यैव निवर्तते. न चास्ति व्यवहारान्तरमनवस्थासाधनीयं येन प्रयुक्तोऽनवस्थामुपाददीतेति // 19 // प्रदीपप्रकाशो दृष्टान्तो भवतु मा भूत् स्थाल्यादिदृष्टान्त इत्यत्रापि नियमहेतुर्वक्तव्यः, सोयमुभयथाऽनेकान्तो हेतुमन्तरेणाऽदृष्टान्तः प्रसक्तः" इति वार्तिकम् / तथा च स्थाल्यादिवत् प्रमाणान्यपि प्रमाणविषया भवन्तीति सारः // द्वितीयकल्पे स्वाभिप्रायमाह-विशेषेति, स्वयंप्रकाशत्वलक्षणविशेषहेतोः परिग्रहे सति= स्वयंप्रकाशत्वलक्षणहेतुना परिगृहीतोयं प्रदीपप्रकाशदृष्टान्तो यथा यो यः स्वयंप्रकाशः स प्रमाणान्तरानपेक्षः प्रदीपप्रकाशवदिति प्रदीपप्रकाशदृष्टान्तस्य एकस्मिन्नेव पक्षे= प्रमाणपक्षे एव उपसंहारस्य संभवेन अनुज्ञानात्= स्वीकारात् अप्रतिषेधः- 'अनेकान्तः' इत्युक्तप्रतिषेधो न संभवति यतो दीपप्रकाशस्य प्रकाशकत्वादेव प्रकाशान्तरानपेक्षत्वमुच्यते प्रकाशकत्वं च प्रमाणेष्वस्तीति प्रमाणानां प्रमाणान्तरानपेक्षत्वमापद्यते न तु घटादिप्रमेयाणामपि- घटादिषु प्रकाशकत्वाभावादिति प्रदीपप्रकाशदृष्टान्तेऽनेकान्तत्वदोषापत्तिर्नास्ति दोषान्तरं तु भवति यथा स्वप्रकाशकस्यापि दीपप्रकाशस्य चक्षुषा ग्रहणं भवति तथा प्रमाणानामपि प्रमाणान्तरैर्ग्रहणमुपपद्यते इति विरुद्धत्वं दोष इत्यर्थः / व्याचष्टे- विशेषेति, विशेषहेतुः प्रकाशकत्वम् / पक्षे= प्रमाणपक्षे / उपसंह्रियमाणः= समन्वीयमानः, अननुज्ञातुम्= अस्वीकर्तुं न शक्यः, एवं च सति= दृष्टान्ते दृष्टान्तोपसंहारे वा स्वीकृते 'अनेकान्तः' इति प्रतिषेधो न भवति= दृष्टान्तस्योक्तमनेकान्तत्वं न भवतीत्यन्वयः // __ अनवस्थादोषेणाशङ्कते- प्रत्यक्षादीनामिति, उत्तरोत्तरं प्रत्यक्षाद्यन्तरापेक्षयाऽनवस्था स्पष्टैवेति प्रमाणानां प्रमाणान्तरग्राह्यत्वं न स्वीकार्यमित्यर्थः, परिहरति-नेति, परिहारहेतुमाह- संविदिति, संविद्विषयाणां घटादीनां संविन्निमित्तानां प्रमाणानां चोपलब्ध्या संविद्विषयनिमित्तविषयकस्य व्यवहारस्योपपत्तिः संभवतीति नाऽनवस्थादोष इत्यन्वयः, यथा घटविषयकप्रमाणेन घटोपलब्धौ जातायां घटविषयको ग्रहणादिव्यवहार उपपद्यते न तु प्रमाणपरम्परापेक्षा तथा प्रमाणविषयकेणानुव्यवसायादिप्रमाणेन पूर्वप्रमाणोपलब्धौ जातायां प्रमाणविषयकः स्वप्रमेयविषयकत्वादिव्यवहारः प्रामाण्यव्यवहारो वोपपद्यते एवेति न प्रमाणपरम्परापेक्षा येनानवस्था स्यात्-द्वित्रकोटिपर्यन्तमात्रधावनेनाऽविश्वासनिवृत्तेः संभवादित्यर्थः / संविद्विषयोपलब्धिमुदाहरति- प्रत्यक्षेणेति, ‘अर्थमुपलभे' इति संविद्विषयस्योपलब्धिः स्पष्टैव तत्र प्रत्यक्षादिकं प्रमाणं करणम् , संविन्निमित्तस्य प्रमाणस्योपलब्धिमुदाहरति- प्रत्यक्षमिति, 'प्रत्यक्षं मे ज्ञानम्' इति प्रत्यक्षादेरुपलब्धिः प्रत्यक्षादिकं च संबिन्निमित्तमितीयं संविन्निमित्तोपलब्धिः, संविद्विविषयं घटादिकं संविन्निमितं प्रत्यक्षादिप्रमाणं चोपलभमानस्य= ज्ञातुः पुरुषस्य धर्मादिपुरुषार्थप्रयोजनः- धर्मादिषु प्रवृत्तिरूपो व्यवहारः तत्प्रत्यनीकपरिवर्जनप्रयोजनः= धर्मादिविरुद्धहिंसादिनिवृत्ति