SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 113 प्रत्यक्षपरीक्षा] न्यायभाष्यम् / सामान्येन प्रमाणानि परीक्ष्य विशेषेण परीक्ष्यन्ते, तत्र प्रत्यक्षलक्षणानुपपत्तिः- असमग्रवचनात् // 20 // आत्ममनस्संनिकों हि कारणान्तरं नोक्तमिति, न चासंयुक्ते द्रव्ये संयोगजन्यस्य गुणस्योत्पत्तिरिति. ज्ञानोत्पत्तिदर्शनादात्ममनस्संनिकर्षः कारणम् / मनस्संनिकर्षानपेक्षस्य चेन्द्रियार्थसंनिकर्षस्य ज्ञानकारणत्वे युगपदुत्पघेरन् बुद्धय इति मनस्संनिकर्षोपि कारणम् // 20 // तदिदं सूत्रं पुरस्तात् कृतभाष्यम् नात्ममनसोः संनिकर्षाभावे प्रत्यक्षोत्पत्तिः // 21 // आत्ममनसोः संनिकर्षाभावे नोत्पद्यते प्रत्यक्षम् इन्द्रियार्थसंनिकर्षाभाववदिति, सति चेन्द्रियार्थसंनिकर्षे ज्ञानोत्पत्तिदर्शनात् कारणभावं ब्रुवते // 21 // रूपश्च व्यवहार उपपद्यते एव सोयं व्यवहारः तावत्यैव= संविद्विषयनिमित्तयोरुपलब्धिमात्रेणैव निवर्तते= संपद्यते एवेति नानवस्थापत्तिरित्यन्वयः / अनवस्थापत्तिं प्रत्याचष्टे- न चेति, उक्तप्रमाणप्रमेयविषयकव्यहारातिरिक्तं अनवस्थासाधनीयम्= प्रमाणपरम्परासाध्यं व्यवहारान्तरमेव नास्ति यदर्थ प्रमाणानवस्था स्वीक्रियेतेति नानवस्थापत्तिर्दोष इत्यन्वयः / येन व्यवहारान्तरेण, उपाददीत= स्वीकुर्यात् / तावतीशब्द उक्तोपलब्धिपरः // 19 // // इति सामान्यतः प्रमाणपरीक्षा समाप्ता // सामान्यतः प्रमाणपरीक्षा समाप्य विशेषतः प्रमाणपरीक्षारम्भमाह- सामान्येनेति / विशेषविरीक्षायां प्रत्यक्षपरीक्षासूत्रमवतारयति-तत्रेति / प्रत्यक्षेति- चतुर्थसूत्रोक्तं प्रत्यक्षलक्षणं नोपपद्यते-असमग्रवचनात्= सर्वेषां प्रत्यक्षकारणानामकथनादित्यन्वयः, आत्मा मनसा युज्यते मन इन्द्रियेणेन्द्रियमर्थेन ततः प्रत्यक्षमिति न्यायशाने प्रत्यक्षप्रकारस्तत्र प्रत्यक्षलक्षणसूत्रे प्रत्यक्षकारणीभूत इन्द्रियार्थसंनिकर्ष एवोक्त आत्ममनस्संनिकर्षो मनइन्द्रियसंनिकर्षश्च नोक्त इत्येवमसमग्रवचनात् प्रत्यक्षलक्षणस्यानुपपत्तिः- असंभवदोषप्रस्तत्वात् केवलमिन्द्रियार्थसंनिकर्षमात्रेण प्रत्यक्षमात्रस्योत्पत्तेरसंभवादिति सूत्रार्थः। व्याचष्टेआत्मेति, आत्ममनस्संनिकर्षोपि प्रत्यक्षकारणं तच्च प्रत्यक्षलक्षणे नोक्तमित्यसमग्रवचनता प्राप्ता / आत्ममनसंनिकर्षस्य प्रत्यक्षकारणत्वमाह- न चेति, यथा वहिसंयोगजन्यस्य रूपस्य गुणस्य वह्निसंयोगं विनोत्पत्तिर्न संभवति तथाऽऽत्ममनस्संयोगजन्यस्य प्रत्यक्षस्य ज्ञानस्यापि मनसाऽसंयुक्त आत्मनि द्रव्ये उत्पत्तिर्न संभवति आत्ममनस्संनिकर्षेण च ज्ञानोत्पत्तिदर्शनात् आत्ममनस्संनिकोंपि कारणं स च प्रत्यक्षलक्षणे नोक्त इत्यसमप्रवचनता / विपक्षेबाधकमाह- मन इति, यद्यात्ममनस्संनिकर्षों मनइन्द्रियसंनिकर्षश्च प्रत्यक्षकारणं न स्यात्तदा पञ्चानामपीन्द्रियाणामेकस्मिन्नपि काले स्वस्वविषयै रूपादिभिः संयोगसंभवात् सर्वैरपि तादृशेन्द्रियैरेकस्मिन् काले आत्मनोपि विभुत्वेन संयोगसंभवाद् युगपदेव रूपाद्यनेकार्थविषयकाणि ज्ञानान्युत्पद्येरन नचोत्पद्यन्ते इति आत्ममनस्संनिकर्षोपि प्रत्यक्षकारणं स्वीकार्य तथा चैकस्मिन् काले सर्वेषामिन्द्रियाणां स्वस्वविषयैस्तादृशेन्द्रियैश्चात्मनः संयोगस्य संभवेपि मनसः सर्वैरिन्द्रियैरेकस्मिन् काले संयोगो न संभवति- अणुत्वादिति युगपज्ज्ञानानुत्पत्तिसमर्थनार्थ मनस्संनिकोंपि प्रत्यक्षकारणं स्वीकार्य तच्च प्रत्यक्षलक्षणे नोक्तमित्यनुपपत्तिरित्यन्वयः // 20 // "नात्ममनसोः" इत्यप्रिमसूत्रेण यत्प्रतिपाद्यं तत् प्रत्यक्षलक्षणसूत्रभाष्ये प्रतिपादितमेवेत्याहतदिदमिति / "तदिदम्= नात्ममनसोः संनिकषैत्यादि" इति तात्पर्यटीका। वस्तुतस्त्विदं वाक्यं भाष्यान्ते वक्तव्यमासीत् / नात्मेति-आत्ममनसोः संनिक भावे प्रत्यक्षोत्पत्तिर्न संभवतीत्यात्ममनस्संनिकर्षोपि
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy