________________ प्रसन्नपदापरिभूषितम्- 2 अध्याये. जाहिकेदिग्देशकालाकाशेष्वप्येवं प्रसङ्गः // 22 // दिगादिषु सत्सु ज्ञानभावात् तान्यपि कारणानीति. अकारणभावेपि ज्ञानोत्पत्तेदिगादिसंनिधेरवर्जनीयत्वात्= यदाप्यकारणं दिगादीनि ज्ञानोत्पत्तौ तदापि सत्सु दिगादिषु ज्ञानेन भवितव्यं न हि दिगादीनां संनिधिः शक्यः परिवर्जयितुमिति / तत्र कारणभावे हेतुवचनम्- एतस्माद् हेतोदिंगादीनि ज्ञानकारणानीति / आत्ममनस्संनिकर्षस्त पसंख्येय इति // 22 // तत्रेदमुच्यते ज्ञानलिङ्गत्वादात्मनो नाऽनवरोधः // 23 // ज्ञानमात्मलिङ्गम्- तद्गुणत्वात्. न चासंयुक्ते द्रव्ये संयोगजस्य गुणस्योत्पत्तिरस्तीति // 23 // प्रत्यक्षकारणं तच प्रत्यक्षलक्षणे नोक्तमिति प्रत्यक्षलक्षणस्याऽसमग्रवचनत्वं प्राप्तमिति दोष इति सूत्रा. न्वयः / व्याचष्टे- आत्मेति, यथेन्द्रियार्थसंनिकर्षाऽभावे प्रत्यक्षं नोत्पद्यते इन्द्रियार्थसंनिकर्षे सति चोत्पद्यते इत्यन्वयव्यतिरेकाभ्यामिन्द्रियार्थसंनिकर्षस्य कारणभावम् प्रत्यक्षकारणत्वं ब्रुक्ते= कथयन्ति शास्त्रकारास्तथात्ममनस्संनिकर्षस्याप्यऽभावे प्रत्यक्षं नोत्पद्यते भावे चोत्पद्यते इति तस्यापि प्रत्यक्षकारणत्वं प्राप्तं सच्च प्रत्यक्षलक्षणे नोक्तमित्यसमग्रवचनता ततश्चासंभवदोषः प्राप्त इत्यन्वयः // 21 // उक्तमन्यत्रातिदिशति-दिगिति, दिम्देशकालाकाशेषु सत्सु प्रत्यक्षमुत्पद्यते न चासस्विति तेषामपि कारणत्वेनाऽकथनात् एवम् उक्तवत् प्रसङ्गः= असमप्रवचनताप्रसङ्गः, सप्तम्यों निरूपितत्वमिति सूत्रार्थः / व्याचष्टे-दिगादिष्विति, तानि= दिगादीनि / अकारणभावे प्रत्यक्षं प्रत्यकारणत्वेपि दिगादिसंयोगस्य निवृत्तिन संभवतीति प्रत्यक्षं प्रति कारणत्वं प्राप्तं स च नोक्त इति प्रत्यक्षलक्षणे दोष इत्यर्थः, उक्तं विशदयत्ति- यदापीति / दिगादिसंयोगस्य कारणत्वं नास्ति- अन्यथासिद्धत्वादित्याह सिद्धान्तीतत्रेति, कारणभावे= दिगादेः कारणत्वे, उक्तं विशदयति- एतस्मादिति, तथा च दिगादीनामकारणत्वेन तदकथनं न दोष इत्यर्थः / अत्र- "नित्यं दिगादि व्यापकं चेति नित्यत्वाद् व्यापकत्वाच न शक्यः संनिधिः परिवर्जयितुमिति तत्र कारणभावे हेतुर्वक्तव्यः- न हि संनिधिमात्रं हेतुत्वे कारणम् // इतिकार्तिकम् / पूर्वपक्ष्याह- आत्मेति, अस्तु दिगादीनामकारणत्वम् आत्ममनस्संनिकर्षस्तु प्रत्यक्षकारणमस्ति स तूपसंख्येयः= प्रत्यक्षलक्षणे वक्तव्यो न चोक्त इति प्रत्यक्षलक्षणे समप्रवचनाभावो दोषः प्राप्त इत्यन्क्यः // 22 // ___उक्तपूर्वपक्षस्य प्रत्याख्यानारम्भमाह- तत्रेदमिति, तत्र प्रत्यक्षलक्षणदोषे प्राप्त इदम्= अग्रिम सूत्रमुच्यते / ज्ञानेति- आत्मनो ज्ञानलिङ्गत्वात्= ज्ञानज्ञाप्यत्वात्= ज्ञानगुणकत्वात् तादृशज्ञानस्य च भावकार्यत्वात् भावकार्यस्य चाऽसमवायिकारणसापेक्षत्वात् असमवायिकारणं चात्रात्ममनस्संनिकर्ष एक संभवति- ज्ञानसमवायिकारणे आत्मनि वर्तमाननादित्यात्ममनस्संनिकर्षस्य अनवरोधः= असंग्रहो नास्ति किं त्वर्थादेव संग्रहः संभवतीति न प्रत्यक्षलक्षणे आत्ममनस्संनिकर्षस्याऽवचनं दोष:- अर्थादेव प्राप्तत्वादिति सूत्रार्थः / ब्याचष्टे- ज्ञानमिति, ज्ञानस्यात्मलिङ्गत्वे हेतुमाह- तदिति, ज्ञानस्य तद्गुणत्वात् आत्मासाधारणधर्मत्वादात्मलिङ्गत्वम् , तच्च ज्ञानमात्ममनस्संनिकर्षजन्यमेव न चासंयुक्ते द्रव्ये आत्मनि संयोगजस्य गुणस्य ज्ञानस्योत्पत्तिः संभवतीति अर्थादेव ज्ञानकारणीभूत आत्ममनस्संनिकर्ष उपलभ्यते इति न प्रत्यक्षलक्षणे आत्ममनस्संनिकर्षस्यावचनं दोषायेत्यर्थः // 23 // -