________________ प्रत्यक्षपरीक्षा] न्यायभाष्यम्। तदयोगपद्यलिङ्गत्वाच न मनसः॥ 24 // ... अनवरोध इति वर्तते, " युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गगम् 1-1-16" इत्युच्यमाने सिध्यत्येव मनस्संनिकर्षापेक्ष इन्द्रियार्थसंनिकर्षों ज्ञानकारणमिति // 24 // प्रत्यक्षनिमित्तत्वाचेन्द्रियार्थयोः संनिकर्षस्य स्वशब्देन वचनम् // 25 // प्रत्यक्षानुमानोपमानशब्दानां निमित्तमात्ममनस्संनिकर्षः. प्रत्यक्षस्यैवेन्द्रियार्थसनिकर्ष इत्यऽसमानोऽसमानत्वात् तस्य ग्रहणम् // 25 // सुप्तव्यासक्तमनसां चेन्द्रियार्थयोः संनिकर्षनिमित्तत्वात् // 26 // इन्द्रियार्थसंनिकर्षस्य ग्रहणं नात्ममनसोः संनिकर्षस्येति, एकदा खल्वयं प्रबोधकालं प्रणिधाय सुप्तः प्रणिधानवशात् प्रबुध्यते, यदा तु तीव्रौ ध्वनिस्पर्शी प्रबोधकारणं भवतस्तदा मनइन्द्रियसंनिकर्षस्याप्यर्थात् प्राप्तिमाह- तदिति, मनसः तदयोगपद्यलिङ्गत्वात्= ज्ञानायौगपद्यज्ञाप्यत्वाद् मनइन्द्रियसंनिकर्षस्यापि अनवरोधः असंग्रहो नास्ति किं तु मनइन्द्रियसंनिकोंप्यर्थादेव ज्ञानकारणत्वेन प्राप्त इति प्रत्यक्षलक्षणे तस्याप्यवचनं न दोषायेति सूत्रार्थः / व्याचष्टे- अनवरोध इति, वर्तते= पूर्वसूत्रादनुवर्तनीयमित्यर्थः / मनस्संनिकर्षस्यावश्यकतामाह- युगपदिति, सूत्रमिदं पूर्वत्र व्याख्या. तम्, दृश्यमानाया युगपज्ज्ञानानुत्पत्तेः समर्थनाय मनस इन्द्रियेण संनिकर्षस्य ज्ञानकारणत्वं स्वीकार्यमेवेति इन्द्रियार्थसंनिकर्षों मनस्संनिकर्षापेक्षः= मनइन्द्रियसंयोगसापेक्ष एव ज्ञानकारणं भवतीति मनइन्द्रियसंनिकर्षस्य ज्ञानकारणत्वेनार्थादेव लभ्यमानत्वात् प्रत्यक्षलक्षणे तस्याप्यवचनं न दोषायेत्यर्थः / जानकारणमिति सिध्यत्येवेत्यन्वयः // 24 // ... ननु यदि प्रत्यक्षकारणस्यात्ममनस्संनिकर्षस्य मनइन्द्रियसंनिकर्षस्य चार्थात् प्राप्तिसंभवात् प्रत्यक्षलक्षणे कथनापेक्षा नास्ति तदा इन्द्रियार्थसंनिकोंपि न वक्तव्यः- अर्थात्प्राप्तिसंभवादित्याशङ्कय वास्तवमुत्तरमाह- प्रत्यक्षेति, इन्द्रियार्थयोः संनिकर्षस्य प्रत्यक्षनिमित्तत्वात् प्रत्यक्षासाधारणकारणत्वात् प्रत्यक्षलक्षणे " इन्द्रियार्थसंनिकर्षोत्पन्नम्" इत्येवं स्वशब्देन तद्वाचकशब्देन वचनम्= कथनमस्ति आत्ममनस्संनिकर्षस्तु ज्ञानमात्रस्य साधारणकारणमिति स नोक्त:- असाधारणस्यैव वक्तव्यत्वादिति न प्रत्यक्षलक्षणे कोपि दोष इतिसूत्रार्थः / व्याचष्टे- प्रत्यक्षेति, आत्ममनस्संनिकर्षः प्रत्यक्षादीनां सर्वेषामेव निमित्तम्= साधारणकारणमिति प्रत्यक्षलक्षणे नोक्तः, इन्द्रियार्थसंनिकर्षस्तु प्रत्यक्षस्वैवाऽसमानः= असाधारणकारणमित्यसमानत्वात् तस्य= इन्द्रियार्थसंनिकर्षस्य ग्रहणम्= कथनमस्त्येवेति न प्रत्यक्षलक्षणे कोपि दोषः / एवं मनइन्द्रियसंनिकर्षेपि विज्ञेयम् // 25 // __ प्रत्यक्षलक्षणे इन्द्रियार्थसंनिकर्षमात्रग्रहणे उपपत्त्यन्तरमाह- सुप्लेति, सुप्तस्य व्यासक्तमनसः= अन्यत्र संलग्नचित्तस्य च यत् प्रत्यक्षं जायते तस्य इन्द्रियार्थसंनिकर्षनिमित्तत्वात्= इन्द्रियार्थसंनिकर्ष. मात्रजन्यत्वादपि प्रत्यक्षलक्षणे इन्द्रियार्थसंनिकर्षमात्रस्य ग्रहणं कृतं नात्ममनस्संनिकर्षस्येत्यन्वयः, सुप्तिकाले ह्यात्मा न मनः प्रेरयति येनात्ममनस्संनिकों मनइन्द्रियसंनिकर्षश्च स्यात् किं तु सुप्तस्य य आकस्मिकः प्रबोधः स शब्दश्रवणेन्द्रियसंनिकर्षाद्वा त्वचा पदार्थसंनिकर्षाद्वा भवतीति तत् प्रत्यक्षं केवलमिन्द्रियार्थसंनिकर्षमात्रादेव जायते. यदा च पुरुषस्य चित्तं कचित्संलग्नं भवति तदापि यत्पदार्थान्तरप्रत्यक्षं तदपि इन्द्रियार्थसंनिकर्षमात्रादेव जायते- मनसोऽन्यत्र व्यासक्तत्वात् पदार्थान्तराभिमुख्यासंभवादिति सूत्रार्थः / व्याचष्टे- इन्द्रियार्थेति, प्रत्यक्षलक्षणे इतिशेषः / इन्द्रियार्थसंनिकर्षमात्रजन्यस्य प्रत्यक्षस्य प्रतिपादनमुपक्रमते- एकदेति, एकदा= कदाचितू, अयम्= जीवः, प्रबोधकालं प्रणिधायक