________________ 116 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आहिकेप्रसुप्तस्येन्द्रियार्थसनिकर्षनिमित्तं प्रबोधज्ञानमुत्पद्यते तत्र न ज्ञातुर्मनसव संनिकर्षस्य प्राधान्यं भवति, किं तर्हि 1. इन्द्रियार्थयोः संनिकर्षस्य- नह्यात्मा जिज्ञासमानः प्रयत्नेन मनस्तदा प्रेरय तीति / एकदा खल्वयं विषायान्तराऽव्यासक्तमनाः संकल्पवशाद् विषयान्तरं जिज्ञासमानः प्रयत्नप्रेरितेन मनसा इन्द्रियं संयोज्य तद् विषयान्तरं जानीते, यदा तु खल्वस्य निस्संकल्पस्य निर्जिज्ञासस्य च व्यासक्तमनसो बाह्यविषयोपनिपातनाद् ज्ञानमुत्पद्यते तदेन्द्रियार्थसंनिकर्षस्य प्राधान्यम्- न ह्यत्रासौ जिज्ञासमानः प्रयत्नेन मनः प्रेरयतीति / प्राधान्याञ्चेन्द्रियार्थसंनिकर्षस्य ग्रहणं कार्य गुणत्वान्नात्ममनसोः संनिकर्षस्येति // 26 // प्राधान्ये च हेत्वन्तरम् तैश्वापदेशो ज्ञानविशेषाणाम् // 27 // . तैः= इन्द्रियैरथैश्च व्यपदिश्यन्ते ज्ञानविशेषाः, कथम् ?. 'प्राणेन जिघ्रति' 'चक्षुषा पश्यति' 'रसनया रसयति' इति. 'घाणविज्ञानं चक्षुर्विज्ञानं रसनविज्ञानम् ' 'गन्धविज्ञानं अमुकसमये मयोत्थातव्यमितिसंकल्प्य सुप्तः प्रणिधानवशात्= तादृशसंकल्पवशात् प्रबुध्यते इति तत्रात्मनस्संनिकर्षोपि कारणं भवति / इन्द्रियार्थसंनिकर्षमात्रजन्यज्ञानमाह-यदेति, यदा तु सुप्तस्य तीव्रशब्देन वा तीव्रस्पर्शेन वा प्रबोधो जायते तदा तादृशं प्रबोधात्मकं ज्ञानमिन्द्रियमात्रस्य शब्दस्पर्शादिविषयेण संनिकर्षाज्जायते शब्दादेश्च तत्र प्रत्यक्षं भवति तत्रात्ममनस्संनिकर्षस्य मनइन्द्रियसंनिकर्षस्य च प्राधान्यं न भवति- सुप्तत्वात् , किं तु इन्द्रियार्थसंनिकर्षस्यैव प्राधान्यं भवतीति प्रत्यक्षमात्रव्यापकत्वेन प्राधान्यात् इन्द्रियार्थसंनिकर्षस्यैव प्रत्यक्षलक्षणे ग्रहणं कृतं नान्यस्येत्यन्वयः। उक्तप्रत्यक्षे कस्य प्राधान्यं भवतीति जिज्ञासते-किमिति / उत्तरमाह- इन्द्रियार्थयोरिति / उक्ते हेतुमाह- नहीति, उक्ताकस्मिकप्रबोधस्थले आत्मनः पदार्थजिज्ञासापि न भवति प्रयत्नोपि न भवति सुप्तत्वात् ततश्च न मनः= चित्तं प्रेरयति तस्मात् तत्रेन्द्रियार्थसंनिकर्षस्यैव प्राधान्यं भवतीत्यर्थः / जिज्ञासापूर्वकप्रत्यक्षमुदाहरति- एकदेति, एकदा= कदाचित्. अयम्= जीवः, यदा मनो विषयान्तरे व्यासक्तं न भवति तदा विषयान्तरज्ञानविषयकसंकल्पवशात् विषयान्तरं जिज्ञासमानः प्रयत्नेन मनः प्रेरयति प्रेरितं च मन इन्द्रियेण संयुज्यते इन्द्रियं च विषयेण संयुज्यते ततश्च तत्प्रत्यक्षं जायते एतादृशप्रत्यक्षे चात्ममनस्संनिकर्षोपि कारणं भवति / प्रकृतं व्यासक्तमनस इन्द्रियार्थसंनिकर्षमात्रजन्यं प्रत्यक्षमुदाहरति- यदेति, यदा जीवो व्यासक्तमना भवति तदा विषयान्तरस्य संकल्पो जिज्ञासा च न भवति अथापि बाह्यस्य विषयस्य शब्दादेरुपनिपातनात्= इन्द्रियेण तीव्रसंनिकर्षाद् ज्ञानम् तत्प्रत्यक्षं जायते तादृशप्रत्यक्षेपीन्द्रियार्थसंनिकर्षस्यैव प्राधान्यं भवति नात्ममनस्संनिकर्षादे:- तदाऽन्यत्र व्यासक्तमनस्त्वात् उक्तप्रत्यक्षविषयीभूतपदार्थस्य जिज्ञासायाः प्रयत्नस्य चाभावादित्यन्वयः। उक्ते हेतुमाह- नहीति, अत्र= बाह्यविषये किं वा मनसोऽन्यत्र व्यासक्तिकाले / असौ= व्यासक्तमनाः / यदि हि मनसः प्रेरणापूर्वकं संनिकर्षः स्यात्तदा स्यादपि तस्य प्राधान्यं न चैवमस्ति / उपसंहरति= प्राधान्यादिति, प्रत्यक्षलक्षणे इतिशेषः, गुणत्वात्= अप्रधानत्वात् / यद्यप्युक्तस्थलयोरप्यात्ममनस्संनिकों भवत्येव तथापि तस्य प्राधान्यं न भवतीत्यर्थः / एतादृशस्थले पदार्थ इन्द्रियेण इन्द्रियं मनसा मनश्चात्मना संयुज्यते इत्येवं व्युत्क्रमेण संयोगा भवन्तीति प्रथमं जायमानत्वादेवेन्द्रियार्थसंनिकर्षस्य प्राधान्यं विज्ञेयम् / / 26 // ___अग्रिमसूत्रमवतारयति- प्राधान्ये इति, प्रत्यक्षे इन्द्रियार्थसंनिकर्षस्य प्राधान्येऽग्रिमसूत्रेण हेत्वन्तरमाहेत्यन्वयः / तैरिति- ज्ञानविशेषाणाम्= प्रत्यक्षविशेषाणां तैः= इन्द्रियैरथैश्वाऽपदेशः= व्यपदेशो भवति यथा 'चाक्षुषं मे ज्ञानं रासनं मे ज्ञानम्' इतीन्द्रियैर्व्यपदेशः 'रूपज्ञानं रसज्ञानम्' इत्यर्थैर्यपदेशः- "प्राधान्येन व्यपदेशा भवन्ति " इतिन्यायात तथा चेन्द्रियैरथैश्च प्रत्यक्षाणां व्यपदेशात् प्रत्यक्षे.