________________ 117 प्रत्यक्षपरीक्षा ] न्यायभाष्यम् / रूपविज्ञानं रसविज्ञानम् ' इति च, इन्द्रियविषयविशेषाच्च पञ्चधा बुद्धिर्भवति अतः प्राधन्यमिन्द्रियार्थसंनिकर्षस्येति // 27 // यदुक्तम्- 'इन्द्रियार्थसंनिकर्षग्रहणं कार्य नात्ममनसोः संनिकर्षस्येति. कस्मात् ?. सुप्तव्यासक्तमनसामिन्द्रियार्थयोः संनिकर्षस्य ज्ञाननिमित्तत्वात्' इति. सोयम् व्याहतत्वादहेतुः // 28 // यदि तावत् कचिदात्ममनसोः संनिकर्षस्य ज्ञानकारणत्वं नेष्यते ? तदा " युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् 1-1-16" इति व्याहन्येत. नेदानी मनसः संनिकर्षमिन्द्रियार्थसंनिकर्षोऽपेक्षते. मनस्संयोगानपेक्षायां च युगपज्ज्ञानोत्पत्तिप्रसङ्गः। अथ मा भूद् व्याघात इति सर्वविज्ञानानामात्ममनसोः संनिकर्षः कारणमिष्यते ? तदवस्थमेवेदं भवति- 'ज्ञानकारणत्वादात्ममनसोः संनिकर्षस्य ग्रहण कार्यम्' इति // 28 // विन्द्रियार्थसंनिकर्षस्य प्राधान्यं प्राप्तं तेन तस्य प्रत्यक्षलक्षणे ग्रहणं कृतं नात्ममनस्संनिकर्षस्येति सूत्रार्थः / व्याचष्टे- तैरित्यादिना, ज्ञानविशेषाः= प्रत्यक्षाणि / उक्तव्यपदेशस्य प्रकारं जिज्ञासते- कथमिति / इन्द्रियैर्व्यपदेशमुदाहरति- घ्राणेनेति, करणत्वं तृतीयार्थः, इदं भेदगर्भमुदाहरणम् , अभेदगर्भमाह- घणविज्ञानमित्यादिना, घणजन्यं विज्ञानमित्यर्थः / अर्थेन व्यपदेशमुदाहरति- गन्धविज्ञानमित्यादिना, पूर्वत्रेन्द्रियस्य ज्ञाननिरूपकत्वादिन्द्रियेण ज्ञानव्यपदेश उत्तरत्रार्थस्य ज्ञाननिरूपकत्वादर्थेन ज्ञानव्यपदेशः / इन्द्रियेति- इन्द्रियाणां चक्षुरादीनां पञ्चानां विषयाणां शब्दस्पर्शरूपरसगन्धानां च पञ्चानां विशेषात= भेदाद् रूपादिविषया चक्षुरादिजन्या बुद्धिः= प्रत्यक्षं पञ्चधा भवति / उपसंहरति-अत इति, प्रत्यक्षे इन्द्रियार्थसंनिकर्षस्यैव प्राधान्यमिति तस्यैव प्रत्यक्षलक्षणे ग्रहणं कृतं नान्यस्य, प्राधान्ये चात्रेन्द्रियाणामर्थानां च प्रत्यक्षव्यपदेशमूलत्वमेव हेतुरित्यन्वयः // 27 // पूर्वपक्षी दूषयितुं सिद्धान्तिनोक्तमनुवदति- यदुक्तमित्यादिना, 'सुप्तव्यासक्तमनसां यज्ज्ञानं जायते तद् इन्द्रियार्थसंनिकर्षेण जायते नात्ममनस्संनिकर्षेणेति प्रत्यक्षे इन्द्रियार्थसंनिकर्षस्य प्राधान्यं प्राप्तं तेन च प्रत्यक्षलक्षणे इन्द्रियार्थसंनिकर्षस्य ग्रहणं कार्य नात्ममनस्संनिकर्षस्य ' इति यदुक्तम्= योयं हेतुरुक्तः सोय हेतुरहेतुरेव व्याहतत्वादित्यन्वयः / उक्तां त्रिसूत्रीं पूर्वपक्षी प्रत्याचष्टे- व्याहतत्वादिति, यदुक्तसूत्रत्रयेण प्रत्यक्षे इन्द्रियार्थसंनिकर्षस्य प्राधान्यं कारणत्वं चोपपादितं तत् युगपज्ज्ञानानुत्पत्तिसिद्धान्तेन विरुद्धत्वाद् व्याहतं व्याहतत्वाच्चाहेतुः, यदि प्रत्यक्षे इन्द्रियार्थसंनिकर्ष एव कारणं स्यात्तदा एकस्मिन्नपि काले चक्षुरादीनां पञ्चानामपीन्द्रियाणां स्वस्वविषयै रूपादिभिः संनिकर्षसंभवाद् युगपदप्यनेकानि ज्ञानान्युत्पधेरन् न चैवं स्वीकृतमिति युगपज्ज्ञानानुत्पत्तिसमर्थनार्थ मनस्संनिकर्षस्यापि प्रत्यक्षकारणत्वं स्वीकार्य तथा चेन्द्रियार्थसंनिकर्षमात्रस्य प्रत्यक्षकारणत्वे य उक्तो हेतुः स व्याहतत्वात् साध्यसाधको न भवतीति प्रत्यक्षलक्षणे मनस्संनिकर्षस्य ग्रहणं कार्य न च कृतमिति प्रत्यक्षलक्षणे दोषः प्राप्त इतिसूत्रार्थः। व्याचष्टे- यदीति, त्वदुक्तरीत्याऽऽत्ममनस्संनिकर्षस्य ज्ञानाऽकारणत्वे स्वीकृता युगपदनेकज्ञानानुत्पत्ति ाहन्येतेत्यर्थः / सिद्धान्त्युक्तपक्षे मनस्संनिकर्षानपेक्षामाह- नेदानीमिति, इदानीम्= इन्द्रियार्थसंनिकर्षमात्रस्य प्रत्यक्षकारणत्वपक्षे प्रत्यक्षोत्पादने इन्द्रियार्थसंनिकर्षस्य मनस्संनिकर्षापेक्षा न संभवतिस्वमात्रस्य कारणत्वात् , अत्रानिष्टमाह- मन इति, मनस्संयोगानपेक्षायाम्= मनस्संनिकर्षस्य प्रत्यक्षाकारणत्वे युगपदनेकज्ञानोत्पत्तिप्रसङ्गः स्यात्- सर्वेषामपीन्द्रियाणामेकस्मिन्नपि काले स्वस्वविषयैः सह संनिकर्षसंभवात् तादृशेन्द्रियैश्च सह विभोरात्मनोप्येकस्मिन् काले संनिकर्षसंभवादित्यर्थः / उक्तव्याघातास्वीकारपक्षे प्रकृतदोषमाह- अथेति, यदि युगपदनेकज्ञानानुत्पत्तेः प्रदर्शितव्याघातो न स्वीक्रियते