________________ 118 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १ाहिके न- अर्थविशेषप्राबल्यात् / / 29 // नास्ति व्याघात:- न ह्यात्ममनस्संनिकर्षस्य ज्ञानकारणत्वं व्यभिचरतिः इन्द्रियार्यसंनिकर्षस्य प्राधान्यमुपादीयते- अर्थविशेषप्रावल्याद्धि सुप्तव्यासक्तमनसां ज्ञानोत्पत्तिरेकदा भवति। अर्थविशेषः कश्चिदेवेन्द्रियार्थस्तस्य प्रावल्यं तीव्रतापटुते, तच्चाविशेषप्राबल्यमिन्द्रियार्थसंनिकर्षविषयं नात्ममनसोः संनिकर्षविषयं तस्मादिन्द्रियार्थसंनिकर्षः प्रधानमिति / ___असति प्रणिधाने संकल्पे चाऽसति सुप्तव्यासक्तमनसां यद् इन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानं तत्र मनस्संयोगोपि कारणमिति मनसि क्रियाकारणं वाच्यमिति, यथैव ज्ञातुः खल्वयतदा युगपज्ज्ञानानुत्पत्तिसमर्थनार्थ मनस्संनिकर्षस्यापि प्रत्यक्षकारणत्वं स्वीकार्य ततश्च मनसोऽणुत्वात् एकस्मिन् कालेऽनेकैरिन्द्रियैः संनिकों न संभवतीति युगपदनेकज्ञानापत्तिर्नास्ति ततश्च युगपदनेकज्ञानानुत्पत्तेफ्घातो नापद्यते किं तु मनस्संनिकर्षस्य प्रत्यक्षकारणत्वं प्राप्तं तेन तस्य प्रत्यक्षलक्षणे ग्रहणं कार्य न तु कृतमिति प्रत्यक्षलक्षणे स दोषस्तदवस्थ एवेत्याह- तदवस्थमिति, प्रत्यक्षकारणत्वादात्ममनसोः संनिकर्षस्य प्रत्यक्षलक्षणे ग्रहणं कर्यमितीदं प्रदर्शितं दूषणं तदवस्थमेव= पूर्ववत् प्राप्तमेवेत्यन्वयः // 28 // पूर्वपक्षिणा प्रदर्शितं व्याघातं प्रस्याचष्टे- नेति, प्रदर्शितो व्याघातो नास्ति-प्रत्यक्षे अर्थविशेषस्यइन्द्रियार्थसंनिकर्षस्य प्राबल्यात्- प्राधान्यादेव प्रत्यक्षलक्षणे ग्रहणं कृतं न तु मनस्संनिकर्षप्रतिषेधार्थम् तथा च प्रत्यक्षेपि मनस्संनिकर्षस्वीकाराद् युगपज्ज्ञानानुत्पत्तेव्याघातो नास्ति मनस्संनिकर्षश्च ज्ञानमात्रस्य साधारणं कारणमिति प्रत्यक्षेप्यर्थात् प्राप्तमेवेति तस्य प्रत्यक्षलक्षणे ग्रहणापेक्षा नास्तीति न तदग्रहणप्रयुक्तः प्रत्यक्षलक्षणे कोपि दोष इतिसूत्रार्थः / व्याचष्टे- नास्तीति / "संभवव्यभिचाराभ्यां स्याद्विशेषणमर्थवत्" इतिन्यायात् मनस्संनिकर्षस्य ज्ञानेषु व्यभिचाराभावादेव तस्य प्रत्यक्षलक्षणे ग्रहणं न कार्यम् इन्द्रियार्थसंनिकर्षस्य त्वनुमानादौ व्यभिचारात् ग्रहणं कार्यमित्याह- नहीति / किं च प्रत्यक्षलक्षणे इन्द्रियार्थसंनिकर्षस्य ग्रहणेन प्राधान्यमुपादीयते प्रतिपाद्यते न तु मनस्संनिकर्षस्याभावः प्रत्यक्षे इत्याह- इन्द्रियार्थेति / प्रत्यक्षे इन्द्रियार्थसंनिकर्षप्राबल्यस्योक्तं कारणं स्मारयति- अर्थविशेषेति, सुप्तव्यासक्तमनसामेकदा कदा चित् अर्थविशेषस्य= इन्द्रियसंयुक्तार्थस्य प्राबल्यादेव ज्ञानोत्पत्तिर्भवतीति प्रत्यक्षे इन्द्रियार्थसंनिकर्षस्य प्राधान्यं प्राप्तं प्राधान्यादेव प्रत्यक्षलक्षणे ग्रहणं कृतमित्यन्वयः तदेतत् पूर्वत्र स्पष्टम् / अर्थप्राबल्यस्वरूपमाह- अर्थेति, अर्थविशेषः शब्दादिः कश्चिदेव कदाचिद् इन्द्रियार्थः= इन्द्रियसंयुक्तो भवति न सर्वः सर्वदा तत्रेन्द्रियसंयुक्तस्य या तीव्रता पटुता वा तदेव प्राबल्यम् , तत्र शब्दे तीव्रता स्पर्श च पटुता निद्रानाशकता सर्वाङ्गीणता वा विज्ञेया, शब्दस्पर्शाभ्यामेव निद्रानाशसंभवात् / उक्तं चार्थविशेषस्य प्राबल्यमिन्द्रियार्थसंनिकर्षविषयम्= इन्द्रियार्थसंनिकर्षजनकं भवति नात्ममनसोः संनिकर्षजनकं भवतीति प्रत्यक्षे इन्द्रियार्थसंनिकर्षस्य प्राधान्यं प्राप्तं . प्राधान्याचास्य प्रत्यक्षलक्षणे ग्रहणं कृतं नान्यस्येत्यर्थः / इन्द्रियार्थसंनिकों विषयो यस्येत्येवं वा इन्द्रियार्थसंनिकर्षस्य विषय इत्येवं पुंस्त्वपरिणामेन वा व्याख्येयम् // ___ उक्तेन प्रत्यक्षे मनस्संनिकर्षस्यापि कारणत्वं प्राप्तं मनस्संनिकर्षश्च मनस्समवेतक्रियाजन्यो वाच्य इति तादृशक्रियाकारणं जिज्ञासते- असतीति, प्रणिधाने प्रयत्ने संकल्पे= इच्छायाम् अत्र " प्रयुक्तं प्रणिधानं संकल्प इच्छा " इति तात्पर्यटीका, यदा हि आत्मनि प्रणिधानादिकं भवति तदा तेन प्रेरिते मनसि क्रिया संभवति क्रियया च मनस्संनिकों यदा चात्मनि प्रणिधानादिकं न भवति तदात्मना प्रेरणाभावान्मनसि क्रिया न संभवति क्रियाया अभावे च मनस्संनिकर्षोपि न संभवति भवति च मनस्संनिकर्ष इति तादृशक्रियायाः कारणं वक्तव्यमिति जिज्ञासार्थः / अन्यत् पूर्व प्रतिपा