SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षस्यानुमानान्तर्भावः] न्यायभाष्यम्। 119 मिच्छाजनितः प्रयत्नो मनसः प्रेरक आत्मगुण एवमात्मनि गुणान्तरं सर्वस्य साधकं प्रवृत्तिदोषजनितमस्ति येन प्रेरितं मन इन्द्रियेण संवध्यते. तेन ह्यप्रेर्यमाणे मनसि संयोगाभावात् ज्ञानानुत्पत्तौ सर्वार्थताऽस्य निवर्तते. एषितव्यं चास्य गुणान्तरस्य द्रव्यगुणकर्मकारकत्वम् अन्यथा हि चतुर्विधानामणूनां भूतसूक्ष्माणां मनसां च ततोऽन्यस्य क्रियाहेतोरसंभवात् शरीरेन्द्रियविषयाणामनुत्पत्तिप्रसङ्गः // 29 // प्रत्यक्षमनुमानम्- एकदेशग्रहणादुपलब्धेः // 30 // यदिदमिन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानम् ‘वृक्षः' इति एतत् किल प्रत्यक्षं तत्खल्वनुमानमेव, कस्मात् 1. एकदेशग्रहणाद् वृक्षस्योपलब्धेः= अर्वाग्भागमयं गृहीत्वा वृक्षमुपलभते न चैकदेशो वृक्षः, तत्र या धूमं गृहीत्वा वह्निमनुमिनोति तादृगेव तद् भवति / दितमेव / उत्तरमाह- यथैवेति, यथा प्रणिधानादिकाले आत्मनि पदार्थज्ञानेच्छा जायते तया चेच्छया प्रयत्नो भवति स च प्रयत्न आत्मगुण एव मनसः प्रेरको भवतीति तेन प्रयत्नेन मनसि संनिकर्षानुकूला क्रिया जायते तया च क्रियया मनसः संनिकर्षस्तथैवात्मनि प्रवृत्तिजनितम्= धर्माधर्मजन्यं रागद्वेषादिदोषजन्यं च सर्वस्य साधकम्= जनकम् अदृष्टाख्यं गुणान्तरमप्यस्ति येन तेनादृष्टेन मनसः प्रेरणं भवति तादृशप्रेरणेन मनसि संनिकर्षानुकूला क्रिया जायते तया मनस इन्द्रियेण संनिकर्षों जायते तथा च सुप्तव्यासक्तमनसां यद् इन्द्रियार्थसंनिकर्षादुत्पद्यते ज्ञानं तत्र यो मनस्संनिकर्षस्तस्य कारणीभूता या क्रिया तस्याः कारणमात्मसमवेतमदृष्टमेवेत्यर्थः इदं चादृष्टं प्रणिधानादिकालेपि कारणं भवत्येवेत्यनुसंधेयम् / विपक्षे बाधकमाह- तेनेति, तेनादृष्टेन यदि मनसः प्रेरणं न स्यात्तदा मनस इन्द्रियेण संनिकोंपि न स्यात्तथा च ज्ञानमपि नोत्पद्येत ततश्च भोगोपि न स्यात् ततश्चाऽस्य= अदृष्टस्य सर्वार्थता= सर्वसाधकत्वं निवर्तेत, न चैवं संभवति भोगस्य प्रत्यक्षसिद्धत्वादित्यस्य= अदृष्टाख्यस्य गुणान्तरस्य= आत्मगुणस्य द्रव्यगुणकर्मसाधकत्वं स्वीकार्य तथा चैतादृशादृष्टमेव मनस्समवेतक्रियाका. रणमित्यन्वयः / विपक्षे बाधकमाह- अन्यथेति, यद्यदृष्टं मनसि क्रियाजनकं न स्यात्तदा भूतसूक्ष्माणां भूतसूक्ष्मरूपाणां पार्थिवादिचतुर्विधानामणूनां मनसां च या क्रिया तस्यास्ततः अदृष्टादन्यस्य हेतोरसंभवात् तादृशी क्रिया न स्यात् ततश्च शरीरादीनामुत्पत्तिरपि न स्यादित्यदृष्टस्य क्रियाकारणत्वं स्वीकार्यमित्यर्थः / शरीरादीनामुत्पत्तिश्च क्रियाविशिष्टपरमाणुभिरेवेति स्पष्टमेव / / 29 // // इति प्रत्यक्षलक्षणपरीक्षा समाप्ता // ___ संप्रति प्रत्यक्षस्यानुमानेन्तर्भावमाशङ्कले- प्रत्यक्षमिति, यदिदं प्रत्यक्षलक्षणसिद्धं प्रत्यक्षं तद् अनुमानमेव= अनुमानातिरिक्तं न संभवति, हेतुमाह- एकेति, यथानुमाने एकदेशस्य साधनस्य धूमादेग्रहणाद् एकदेशस्य वह्नयादेरुपलब्धिः= बोधो जायते तथैव प्रत्यक्षस्थलेपि वृक्षादिपदार्थस्यैकदेशेन पूर्वभागेनेन्द्रियसंनिकों भवतीति तावन्मात्रस्य ग्रहणाद् इन्द्रियाऽसंनिकृष्टस्य परभागस्योपलब्धिर्भवतीति अनुमानापेक्षया प्रत्यक्षे विशेषाभावात् प्रत्यक्षस्यानुमानेऽन्तर्भावो युक्त इतिसूत्रार्थः। व्याचष्टे- यदिदमिति, इन्द्रियार्थसनिक दुत्पद्यमानं यत् 'वृक्षोयम् / इत्याकारकं ज्ञानं तदेव प्रत्यक्षमित्युच्यते तत्त्वऽनुमानमेवेत्यन्वयः / प्रत्यक्षस्यानुमानत्वे हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- एकदेशेति, एकदेशग्रहणात्= वृक्षपूर्वभागमात्रग्रहणात् वृक्षस्योपलब्धिर्भवति न तु सर्वेण वृक्षेणेन्द्रियसंयोगो भवति- अशक्यत्वात्. अनुमानेप्युक्तरीत्यैकदेशग्रहणादुपलब्धिर्भवतीति तत्सादृश्यात् प्रत्यक्षमनुमानमेवेत्यर्थः / उक्तं विशयदति
SR No.004320
Book TitleNyayadarshanasya Nyayabhashyam
Original Sutra AuthorN/A
AuthorVatsyayan
PublisherManilal Iccharam Desai
Publication Year1922
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy