________________ 120 . प्रसन्नपदापरिभूषितम्- [2 अध्याये. १ाहिके____किं पुनर्गृह्यमाणादेकदेशाद् अर्थान्तरमनुमेयं मन्यसे ?, अवयवसमूहपक्षे अवयवान्तराणि द्रव्योत्पत्तिपक्षे तानि चाऽवयवी चेति / अवयवसमूहपक्षे तावदेकदेशग्रहणाद् वृक्षबुद्धेरभावःन ह्यऽगृह्यमाणमेकदेशान्तरं वृक्षो गृह्यमाणैकदेशवदिति / अथ एकदेशग्रहणादेकदेशान्तरानुमाने समुदायप्रतिसंधानात् तत्र वृक्षबुद्धिः 1, न तर्हि वृक्षबुद्धिरनुमानमेवं सति भवितुमर्हतीति / द्रव्यान्तरोत्पत्तिपक्षे नाऽवयव्यऽनुमेयः- अस्यैकदेशसंबद्धस्याग्रहणाद् ग्रहणे चाविशेषादनुमेयत्वाभावः, तस्माद् वृक्षबुद्धिरनुमानं न भवति // 30 // अर्वागिति, अयं पुरुषः अर्वाग्भागम्= वृक्षस्येन्द्रियसंनिकृष्टभागमात्रं गृहीत्वा वृक्षमुपलभते= वृक्षविषयकज्ञानवान् भवति वृक्षकदेशस्तु वृक्षो न भवति तथा च यथा धूमग्रहणेन वहिज्ञानं जायते तथैव वृक्षैकदेशग्रहणेन वृक्षज्ञानं जायते इति तत्= प्रत्यक्षं तादृगेव= अनुमानसदृशमेव भवतीत्यनुमानमेव न प्रमाणान्तरमित्यन्वयः। 'वृक्षोयम् ' इतिप्रत्यक्षेऽनुमेयव्यक्तिं सिद्धान्ती पृच्छति- किमिति, यथा गृह्यमाणाद् धूमादनुमेयो वह्निः पदार्थान्तरमेव तथा 'वृक्षोयम्' इतिप्रत्यक्षस्थले गृह्यमाणाद् वृक्षैकदेशाद् विज्ञेयो वृक्षो न पदार्थान्तरं यदनुमेयं स्यादित्याक्षेपः / पूर्वपक्षी अत्रानुमेयमाह- अवयवेति, अवयविनो बौद्धमतेन अवयवसमूहरूपत्वपक्षे अवयवान्तराणि= इन्द्रियासंनिकृष्टान्यवयवान्तराण्यनुमेयानि, द्रव्योत्पत्तिपक्षे= अवयवेष्वऽवयविन उत्पत्तिपक्षे= अवयसमूहातिरिक्तावयविपक्षे च तानि= अवयवान्तराणि अवयवी चानुमेयःइन्द्रियासंनिकृष्टत्वादित्यर्थः / अत्रोत्तरमाह- अवयवसमूहेति, अवयवसमुदायातिरिक्तोऽवयवी नास्तीतिपक्षे वृक्षज्ञानाभाव एव- वृक्षज्ञानोपपत्तेरभावात्. इन्द्रियेण तावद् वृक्षैकदेश एव गृहीतः स च न वृक्ष इति त्वयैवोक्तम. यथा हीन्द्रियसंनिकृष्ट एकदेशो वृक्षो न भवति तथैवाऽद्यमाणमपि वृक्षस्यैकदेशान्तरं वृक्षो न भवति- एकदेशत्वादिति ज्ञानद्वयमपि तत्तदेकदेशविषयकं जातं न तु अवयवसमूहविषयकं वृक्षश्वाऽवयवसमूह एव न तु एकदेश इति प्रथमकल्पे वृक्षबुद्धेरभाव एव प्राप्तः न चैतद्युक्तमिति नावयव समहोऽवयवीत्यर्थः / भवति चेन्द्रियसंनिकर्षे सति वृक्षप्रतिभास इति तदेव वृक्षप्रत्यक्षं न त्वनमानमि. त्याशयः / नन्वेकदेशग्रहणादेकदेशान्तरस्यानुमाने जाते मिलितस्य समुदायस्यापि प्रतिसंधानम् ज्ञानं जायते इति तत्र प्रथमकल्पे वृक्षबुद्धिरुपपद्यते- समुदायप्रतिसंधानस्यैव वृक्षबुद्धिरूपत्वादित्याशङ्कतेअथेति / प्रत्याचष्टे- नेति, एवं सति वृक्षबुद्धिरनुमानं न भवितुमर्हति यत एकदेशान्तरविषयकमेवानुमानं न तु समुदायविषयकं. वृक्षज्ञानं तु अवयवसमुदायविषयकमिति नानुमानमित्यर्थः / द्वितीयकल्पे दापमाह- द्रव्यान्तरति, अवयवष्ववयवसमुदायातिरिक्ताऽवयाविन उत्पत्तिपक्ष= अवयवसमूहातिरिक्तावयविपक्षे तस्यावयविनः 'वृक्षोयम्' इतिप्रत्यक्षस्थलेऽनुमेयत्वं न संभवति, अत्र हेतुमाह- अस्येति, अस्य= वृक्षस्य एकदेशे संबद्धस्य समवेतस्याऽग्रहणात् अग्रहणे चैकदेशासंबद्धत्वं हेतुः नहि वृक्ष एकदेशसंबद्धो भवति येनैकदेशसंबद्धस्य ग्रहणं स्यात् किं तु सर्वावयवसंबद्धो भवति. सर्वेषां चावयवानां ग्रहणं न संभवति- संनिकृष्टैरवयवैर्व्यवधानात्, ग्रहणे= एकदेशसंबद्धस्य ग्रहणे चाविशेषात् एकदेशवद् वृक्षस्यापि प्रत्यक्षविषयत्वं प्राप्तं नानुमेयत्वमिति वृक्षस्यानुमेयत्वाभावः प्राप्त इति नेन्द्रियसंनिकर्षजन्या वृक्षबुद्धिरनुमानं भवितुमर्हतीति उपसंहरति- तस्मादिति / वृक्षो यथेन्द्रियसंनिकृष्टभागमात्रसमवेतो न भवति तथेन्द्रियासंनिकृष्टभागमात्रसमवेतोपि न भवति यदीन्द्रियासंनिकृष्टभागमात्रसमवेतः स्यात्तदेन्द्रियासंनिकृष्टभागस्यानुमेयत्वे वृक्षोनुमेयः स्यादपि न चैवमस्तीत्याशयः। अत्र" यथैवायमर्वाग्भागमिन्द्रियसंबद्धं प्रत्यक्षत उपलभते तथा वृक्षमपीति नानुमेयो वृक्षः" इतिवार्तिकम् / " ग्रहणे " इत्यत्र " एकदेशसंबद्धस्य ग्रहणे " इत्यपि पाठान्तरम् // 30 //