________________ प्रत्यक्षस्यानुमानान्तर्भावनिरासः] न्यायभाष्यम् / 121 एकदेशग्रहणमाश्रित्य प्रत्यक्षस्यानुमानत्वमुपपाद्यते तच्च न- प्रत्यक्षेण यावत् तावदप्युपलम्भात् // 31 // न प्रत्यक्षमनुमानम्, कस्मात् ?. प्रत्यक्षेणैवोपलम्भात्= यत् तदेकदेशग्रहणमाश्रीयते प्रत्यक्षेणासावुपलम्भः, न चोपलम्भो निर्विषयोस्ति यावच्चार्थजातं तस्य विषयस्तावदभ्यनुज्ञायमानं प्रत्यक्षव्यवस्थापकं भवति / किं पुनस्ततोऽन्यदर्थजाम् ?. अवयवी समुदायो वा / न चैकदेशनहणम् अनुमानं भावयितुं शक्यम्- हेत्वभावादिति // अन्यथापि च प्रत्यक्षस्य नानुमानत्वप्रसङ्गः- तत्पूर्वकत्वात् / प्रत्यक्षपूर्वकमनुमानम्- संबद्धावग्निधूमौ प्रत्यक्षतो दृष्टवतो धूमप्रत्यक्षदर्शनाद् अग्नावनुमानं भवति. यच्च * संबद्धयोलिङ्गलिङ्गिनोः प्रत्यक्षं यच्च लिङ्गमात्रप्रत्यक्षग्रहणं नैतदन्तरेणानुमानस्य प्रवृत्तिरस्ति न त्वेतदनुमानम्- इन्द्रियार्थसंनिकर्षजत्वात्. न चानुमेयस्येन्द्रियेण संनिकर्षादनुमानं भवति, सोयं प्रत्यक्षानुमानयोर्लक्षणभेदो 'महानायितव्य इति // 31 // अग्रिमसूत्रमवततरयति- एकदेशेति, इन्द्रियेण वृक्षकदेशस्य ग्रहणं भवति तेन वृक्षैकदेशान्तरस्य यद् ज्ञानं तदनुमानमेवेतिरीत्या प्रत्यक्षस्यानुमानत्वम्= अनुमानेऽन्तर्भाव उपपाद्यते तच्च प्रत्यक्षस्यानुमानत्वं नोपपद्यते इत्यन्वयः। नेति-प्रत्यक्षेण= इन्द्रियसंनिकर्षेण यावत्तावत्= यावतस्तावतः= यस्य कस्यचिद्भागस्य= वृक्षैकदेशस्योपलम्भात्= ग्रहणात् तच्च ग्रहणं प्रत्यक्षमेव- इन्द्रियसंनिकर्षजत्वादिति न प्रत्यक्षस्यानुमानत्वम्= अनुमानेऽन्तर्भाव उपपद्यते इतिसूत्रार्थः / वस्तुतस्त्वत्र 'न- प्रत्यक्षेणैकदेशोपलम्भस्वीकारात् ' इत्येवं सूत्रं पठनीयमासीत् / अत्र " यत्तदेकदेशग्रहणं भवताऽऽश्रीयते प्रत्यक्षं तत् तावतापि च प्रत्यक्षस्य लक्षणं सिध्यति. न चैवं प्रतिज्ञायते- सर्व प्रत्यक्षस्य विषयः किं तु यावदिन्द्रियार्थसंनिकर्षादुपलभ्यते तावत् प्रत्यक्षस्य विषय इति" इतिवार्तिकम् / व्याचष्टे- नेति / प्रत्यक्षं नानुमानमित्यत्र हेतुं जिज्ञासते- कस्मादिति / उत्तरमाह- प्रत्यक्षेणेति, वृक्षकदेशस्य प्रत्यक्षेणोपलम्भात् तादृशप्रत्यक्षस्य त्वयापि स्वीकार्यत्वान्न प्रत्यक्षमनुमानमित्यर्थः / उक्तमेव व्याचष्टे- यदिति, यदेकदेशग्रहणं तत् प्रत्यक्षकृतमेवेत्यर्थः / न चेति- उपलम्भो हि निर्विषयो न भवतीति तस्य= उपलम्भस्य यावदर्थजातं विषयस्तावदर्थजातं स्वीक्रियमाणं स्वविषयकोपलम्भस्य प्रत्यक्षस्य व्यवस्थापकम् साधकं भवतीति सिद्धमनुमानातिरिक्तं प्रत्यक्षमित्यर्थः / वृक्षैकदेशादतिरिक्तं वृक्षप्रत्यक्षविषयं पृच्छति-किमिति, तंतः= इन्द्रियसंनिकृष्टादेकदेशात् / उत्तरमाह- अवयवीति, अस्माकं मते एकदेशादतिरिक्तोऽवयवी प्रत्यक्षस्य विषयस्तव मते चावयवसमुदाय एव- न ह्येकदेशः समुदायो भवतीत्येकदेशादतिरिक्तः समुदाय एव वृक्षप्रत्यक्षविषय इत्यर्थः / उपसंहरति- न चेति, यत् खल्वेकदेशग्रहणं तद् अनुमानं भावयितुम्= कर्तुं न शक्यम्- तस्यानुमानत्वे हेतोरभावादिति तदेकदेशग्रहणं प्रत्यक्षमेव- इन्द्रियसंनिकर्षजन्यत्वादिति सिद्धमनुमानातिरिक्तं प्रत्यक्षमित्यन्वयः॥ प्रत्यक्षस्थानुमानेऽन्तर्भावनिरासमुपसंहरति- अन्यथेति, अन्यथा= प्रकारान्तरेणापि प्रत्यक्षस्यानुमानेऽन्तर्भावो न संभवति- तत्पूर्वकत्वात्= अनुमानस्य प्रत्यक्षपूर्वकत्वात् = हेतुभूतधूमादिप्रत्यक्षं विनाऽनुमानस्याऽसंभवादिति न प्रत्यक्षस्य स्वरूपाभावः संभवतीत्यर्थः / स्वयमेव व्याचष्टे- प्रत्यक्षेति, अनुमानस्य प्रत्यक्षपूर्वकत्वमुपपादयति- संबद्धति, संबद्धौ- समानाधिकरणौ किं वा व्याप्यव्यापकभावसंबन्धविशिष्टौ, दृष्टवतः= महानसादौ दृष्टवतः, धूमप्रत्यक्षदर्शनात्= धूमस्य प्रत्यक्षेण दर्शनात्, अग्नौ= अग्निविषयकम् / अनुमानस्य प्रत्यक्षं विनाऽसंभवमाह- यच्चेति, प्रत्यक्षं महानसादौ, एतदन्तरेण= उक्तप्रत्यक्षं विना / लिङ्गादिदर्शनं च नानुमानम्- इन्द्रियार्थसंनिकर्षजत्वादित्याह-न विति /