________________ 122 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेन चैकदेशोपलब्धिः - अवयविसद्भावात् // 32 // न चैकदेशोपलब्धिमात्रम्, किं तर्हि ?. एकदेशोपलब्धिः तत्सहचरिताऽवयव्युपलब्धिश्च, कस्मात् 1. अवयविसद्भावात् अस्ति ह्ययमेकदेशव्यतिरिक्तोऽवयवी, तस्यावयवस्थानस्योपलब्धिकारणप्राप्तस्य एकदेशोपलब्धौ अनुपलब्धिरनुपपन्नेति // __ अकृत्स्नग्रहणादितिचेत् ? न- कारणतोऽन्यस्यैकदेशस्याभावात् / न चावयवाः कृत्स्ना गृह्यन्ते- अवयवैरेवाऽवयवान्तरव्यवधानात्. नावयवी कृत्स्नो गृह्यते इति- नायं गृह्यमाणेष्ववयवेषु परिसमाप्त इति, सेयमेकदेशोपलब्धिरनिवृत्तैवेति / कृत्स्नअनुमेयन चेन्द्रियसंनिकर्षो न भवतीत्याह-न चेति, अनुमेयस्य यदनुमानं भवति तद् इन्द्रियसंनिकर्षान्न भवतीति नियमाद् लिङ्गविषयकं यदिन्द्रियसंनिकर्षजन्यं ज्ञानं तदप्यनुमानं न भवति किं तु प्रत्यक्षमेवेति सिद्धं प्रत्यक्षमित्यर्थः / उपसंहरति- सोयमिति, प्रत्यक्षमिन्द्रियसंनिकर्षजन्यं भवति अनुमानं चेन्द्रियसंनिकर्षजन्यं न भवतीत्ययं लक्षणभेदः= स्वरूपभेदः प्रत्यक्षनुमानयोर्महानस्तीति न प्रत्यक्षस्यानुमानेन्तर्भावः संभवतीत्यर्थः // 31 // ___ यदि प्रत्यक्षेण वृक्षकदेशमात्रस्योपलब्धिः स्यात्तदा वृक्षज्ञानमनुमानं स्यादपि न चैवमस्तीत्याहन चेति, प्रत्यक्षेण वृक्षकदेशमात्रस्योपलब्धिर्न भवति किं त्वऽवयविनः सद्भावात् तस्याप्यवयविभूतस्य वृक्षस्य प्रत्यक्षेणैवोपलब्धिर्भवतीति प्रत्यक्षस्यानुमानान्तर्भावे हेतुत्वेनोपन्यस्ता एकदेशमात्रोपलब्धिनिराकृता वेदितव्या- तादृशावयविज्ञानस्य व्याप्तिज्ञानादिमूलकत्वाभावेनानुमानत्वानुपपत्तेरिति सूत्रार्थः / व्याचष्टे- न चेति / एकदेशोपलब्धिमात्रम्= एकदेशमात्रोपलब्धिर्न भवतीत्यर्थः / यद्येकदेशस्योपलब्धिर्न भवति तदा कस्य भवतीति जिज्ञासते- किमिति / उत्तरमाह- एकदेशेति, वृक्षोयमिति प्रत्यक्षेणैकदेशस्य तदवयविनश्चोपलब्धिर्भवति न त्वेकदेशमात्रस्येत्यन्वयः / तत्सहचरितः= एकदेशसहचरितः= एकदेशविशिष्टः, किं वा वृक्षतदेकदेशयोरवयवसमुदायवृत्तित्वात् सहचारः सामानाधिकरण्यम् , अत्र " न हीन्द्रियेण संनिकृष्यमाणे एकदेशे तत्सहचरितोऽवयवी न संनिकृष्टः तेन यथैकदेशः संनिकर्षादुपलभ्यते एवमवयव्यपि संनिक दुपलभ्यते " इति वार्तिकम् / अवयव्युपलब्धिकारणं जिज्ञासतेकस्मादिति / उत्तरमाह- अवयविसद्भावादिति, अवयवातिरिक्तावयविसद्भावमाह- अस्तीति, तस्य= अवयविनः अवयवस्थानस्य= अवयवाः स्थानमाश्रयो यस्य तस्य अवयवसमवेतस्येत्यर्थः, उपलब्धिकारणेनेन्द्रियेण प्राप्तस्य= संनिकृष्टस्यैकदेशोपलब्धौ जातायामनुपलब्धिरनुपपन्नैवेत्यन्वयः / यथा घटज्ञाने जाते घटसमवेतरूपस्यापि ज्ञानं जायते एव तथैकदेशप्रत्यक्षे जाते एकदेशसमवेतावयविनः प्रत्यक्षमवश्यम्भावि, किं च स एकदेशोऽवयविन एवेति तदेकदेशप्रत्यक्षे तदद्वयविनोपि प्रत्यक्षमवश्यम्भावीति नैकदेशमात्रोपलब्धियेनावयविप्रत्यक्षमनुमानं स्यादित्यर्थः // ___ नन्ववयवी कृत्स्नेष्ववयवेषु वर्तते न त्वेकदेशमात्रे कृत्स्नानां चावयवानां प्रत्यक्षेण ग्रहणं न भवतीति नैकदेशोपलब्धौ अवयव्युपलब्धिरुपपद्यते इत्याशङ्कते- अकृत्स्नेति, कृत्स्नावयवग्रहणाभावानावयव्युपलब्धिः प्रत्यक्षेण संभवतीत्यर्थः / निराकरोति- नेति, वृक्षस्योपादानकारणभूतो योऽवयवसमुदायस्तदतिरिक्तस्यैकदेशस्याऽभावात्. यदि हि कारणातिरिक्तोप्येकदेशः स्यात्तदा तदुपलब्धावपि अवयव्युपलब्धिर्न स्यादपि न चैवमस्ति तथा चोपलभ्यमानोप्येकदेशोवयविन उपादानकारणमेव उपादानकारणोपलब्धौ च तत्समवेतावयविनोप्युपलब्धिरवश्यम्भाविनीत्येकदेशोपलब्धौ अवयव्युपलब्धिरुपपन्नेत्यर्थः / पूर्वपक्षं ब्याचष्टे- न चेति, उक्ते हेतुमाह- अवयवैरिति, अवयवैः= इन्द्रियसंनिहितैरवयवैः / अवयव्यनुपलब्धिमाह- नावयवीति, कृत्स्नः खल्ववयषसमुदायोऽवयवीत्युच्यते तत्रावयवा.