________________ 123 अवयविनि पूर्वपक्षः] न्यायभाष्यम् / मिति वै खल्वशेषतायां सत्यां भवति. अकृत्स्नमिति शेषे सति. तच्चैतद् अवयवेषु बहुष्वस्तिअव्यवधाने ग्रहणाद् व्यवधाने चाग्रहणादिति / ___ अङ्ग तु भवान् पृष्टो व्याचष्टाम्- गृह्यमाणस्यावयविनः किमगृहीतं मन्यसे ? येनैकदेशोपलब्धिः स्यादिति, न ह्यस्य कारणेभ्योऽन्ये एकदेशा भवन्तीति, तत्रावयववृत्तं नोपपद्यते इति / इदं तस्य वृत्तम्- येषामिन्द्रियसंनिकर्षादू ग्रहणमवयवानां तैः सह गृह्यते येषामवयवानां व्यवधानादग्रहणं तैः सह न गृह्यते / न चैतत्कृतोस्ति भेद इति / समुदायोप्यशेषता वा न्तरव्यवधानात् कृत्स्नस्यावयवसमुदायस्य ग्रहणासंभवात् कृत्स्नावयवसमुदायलक्षणस्यावयविनो ग्रहणं न संभवतीत्यर्थः / उक्ते हेतुमाह- नायमिति, यद्यवयवी गृह्यमाणेष्वेकदेशावयवेषु परिसमाप्तः= पर्याप्त्या समवेतः स्यात्तदैकदेशोपलब्धौ अवयव्युपलब्धिः स्यादपि नचायमेकदेशमात्रसमवेत इत्येकदेशोपलब्धावपि नोपलभ्यते प्रत्यक्षेणेत्यर्थः / उपसंहरति- सेयमिति, तथा चैकदेशमात्रस्य योपलब्धिरुक्ता सा न निवर्तते= न प्रत्याख्यातुं शक्यते तथा चैकदेशमात्रोपलब्ध्याऽवयविनः प्रत्यक्षाभावादनुमानमेव भवतीत्यर्थः / प्रत्याख्यानमारभते- कृत्स्नमिति, अशेषतायाम्= यदि शेषो न भवति तदा कृत्स्नशब्दप्रयोगो भवति. यदि च शेषो भवति, तदैवाऽकृत्स्नशब्दप्रयोगो भवति. तच्चैतत्= कृत्स्नाकृत्स्नशब्दप्रयोगः किं वा कृत्स्नाऽकृस्नग्रहणमवयवानां बहुत्वे सति भवति तत्र अव्यवधाने कृत्स्नग्रहणात् व्यवधाने च कृत्स्नाग्रहणात्. तथा चावयवानां बहत्वात् कृत्स्नग्रहणमकृत्स्नग्रहणं वा संभवति अवयवी त्वेक एवेति न तस्य कृत्स्नाकृत्स्नग्रहणमुपपद्यते किं त्वेकदेशप्रत्यक्षे सति एकदेशसहचरितावयविनः प्रत्यक्षं स्यादेवेति यदुक्तम्-" नावयवी कृत्स्नो गृह्यते” इति तदनुपपन्नमित्यर्थः / अत्र- " उत्तरभाष्यविवरणपरं भाष्यम्- कृत्स्नमिति वै खल्वित्यादि. तदेकग्रन्थतया अङ्ग तु भवानित्यादिसंबोधनोपक्रमं भाष्यं व्यवस्थितम्" इति तात्पर्यटीका वस्तुतस्तु कृत्स्नमित्यादिभाष्यमपि पूर्वपक्षभाष्यमेवेति रोचते यत:- कृत्स्नाकृत्स्नगहणमवयषानामेवोपपद्यते नावयवित इत्यवयविनोनुमानमेव स्वीकार्यमित्याशयः, अत एवाग्रे अङ्गेत्यादिकं सिद्धान्तिवाक्यं संगच्छते,। ___ एकदेशमात्रोपलब्ध्यनुपपत्तिप्रतिपादनमारभते- अनेति, संबोधनमिदम् / व्याचष्टाम्= वदतु / वक्तव्यं पृच्छति- गृह्यमाणस्येति, एकदेशग्रहणेऽवयविग्रहणं भवत्येवेति नैकदेशमात्रोपलब्धिरित्यर्थः / अस्य= अवयविनः कारणेभ्यः= अवयवभूतेभ्य उपादानकारणेभ्योऽन्ये एकदेशा न भवन्ति किं तूपादानकारणान्येव. तेषु च गृहीतेषु तत्समवेतस्यावयविनोपि ग्रहणं भवत्येवेति नैकदेशमात्रोपलब्धिरित्याहन हीति / तत्र= कारणातिरिक्तैकदेशेषु अवयववृत्तम्= अवयत्वं नोपपद्यते- उपादानकारणानामेवाऽवयव्यवयवत्वादित्याह- तत्रेति, किं वा तत्र अवयविनि अवयववृत्तम् अवयवस्वभावः= एकदेशे उपलभ्यमाने एकदेशान्तरवद् अनुपलभ्यमानत्वं नोपपद्यते किं तूपलभ्यमानत्वमेवेत्यवयविग्रहणमुपपन्नमित्यर्थः / पूर्वपक्षी स्वाभिप्रायमाह- इदमिति, तस्य= अवयविनः, वृत्तम्= स्वभावः / येषामवयवानामिन्द्रियसंनिकर्षाद् ग्रहणं भवति तैरवयवैः सहावयवी गृह्यते येषां चावयवानां व्यवधानादग्रहणं तैरवयवैः सह= तादृशावयवसमवेतो न गृह्यते इति वृत्तं तथा चैकोऽवयवी न सिध्यति एकत्वे ग्रहणाग्रहणयोरुभयोरसंभवादित्यऽवयवसमुदायातिरिक्तोऽवयवी नास्तीत्यर्थः, तथा चात्र वार्तिकम्- “यथा गृह्यमाणानामगृह्यमाणानां चावयवानां भेदस्तथाऽवयविनोपि गृह्यमाणागृह्यमाणावयवाश्रितस्य भेदः प्राप्तस्ततश्च नैकोऽवयवी" इति / एतत् प्रत्याचष्टे- न चेति, एतत्कृतः अवयवानां ग्रहणाग्रहणकृतोऽवयवानामेव भेदः सध्यति न त्ववयविनोपीत्यर्थः / अवयवसमूहमात्रपक्षे= अवयव्यस्वीकारपक्षे वृक्षबुद्धेरभावमुपपादयतिसमुदायोपीत्यादिना, वाशब्द एवकारार्थः- अशेषतैव समुदायपदार्थस्तत्र वृक्षबुद्धिविषयो वृक्षः किमवय वसमुदायः ? किं वा तत्प्राप्तिः= अवयवसंयोगः ? इतिवक्तव्यम् , स्वाभिप्रायमाह- उभयथेति उभयथा