________________ 124 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेसमुदायो वृक्षः स्यात् ? तत्माप्तिा ? उभयथा ग्रहणाभावः= मूलस्कन्धशाखापलाशादीनामशेषता वा समुदायो वृक्ष इति स्यात् ? प्राप्तिर्वा समुदायिनामिति ? उभयथा ( अपि ) समुदायभूतस्य वृक्षस्य ग्रहणं नोपपद्यते इति= अवयवैस्तावदवयवान्तरस्य व्यवधानादशेषग्रहणं नोपपद्यते प्राप्तिग्रहणमपि नोपपद्यते- प्राप्तिमतामग्रहणात् , सेयमेकदेशग्रहणसहचरिता वृक्षबुद्धिव्यान्तरोत्पत्तौ कल्पते न समुदायमात्रे इति // 32 // साध्यत्वादवयविनि संदेहः // 33 // "अवयविसभावात्" इत्ययमहेतुः-साध्यत्वात= साध्यं तावदेतत-कारणेभ्यो द्रव्यान्तरमुत्पद्यते इति. अनुपपादितमेतत्, एवं च सति विप्रतिपत्तिमात्रं भवति विप्रतिपत्तेश्चावयविनि संशय इति // 33 // सर्वाग्रहणमवयव्य सिद्धेः॥ 34 // यद्यवयवी नास्ति ? सर्वस्य ग्रहणं नोपपद्यते / किं तत् सर्वम् ?, द्रव्यगुणकर्मसामान्यउभयथापि= कल्पद्वयेपि ग्रहणाभावः= वृक्षग्रहणाभावः- वृक्षबुद्धेरभाव एव स्यादित्यर्थः, तदेतदने स्पष्टम् / प्रथमकल्पं विशदयति- मूलेति, मूलादयो ह्यवयवास्तेषां याऽशेषता स समुदायः स एव वृक्ष इति, वाशब्दार्थश्चिन्त्यः / द्वितीयकल्पं विशदयति-प्राप्तिरिति, समुदायिनामवयवानां प्राप्तिः= परस्परसंबन्धो वा वृक्ष इत्यर्थः / कल्पद्वयेपि वृक्षबुद्धेरभावमाह- उभयथेति / प्रथमकल्पे वृक्षग्रहणासंभवमाह- अवयवैरिति, इन्द्रियसंनिकृष्टैरवयवैरवयवान्तराणां व्यवधानादशेषावयवग्रहणं नोपपद्यते अशेषतैव समुदाय इति समुदायग्रहणं नोपपद्यते समुदाय एव भवन्मते वृक्ष इति वृक्षग्रहणमपि नोपपद्यते इत्यर्थः / द्वितीयकल्पे वृक्षग्रहणाभावमाह-प्राप्तीति, प्राप्तिमताम्= अशेषावयवानां ग्रहणं नोपपद्यते व्यवधानादित्युक्तमेव तत्र प्राप्तिमतामग्रहणे प्राप्तिग्रहणमपि नोपपद्यते अत्र पक्षे प्राप्तिरेव वृक्ष इति वृक्षग्रहणमपि नोपपद्यते तथा च कल्पद्वयेपि पूर्वपक्षिमते वृक्षबुद्धेरभावः सिद्धः। उसंहरति- सेयमिति, एकदेशग्रहणेन सह जायमाना सेयं वृक्षबुद्धिव्यान्तरोत्पत्तौ= अवयवातिरिक्तावयविस्वीकारपक्षे एव कल्पते= उपपद्यते न तु अवयवसमुदायमात्रपक्षे इति तदुपपादनार्थमवयवसमुदायातिरिक्तोऽवयवी स्वीकार्य इत्यर्थः // 32 // ___पूर्वसूत्रेऽवयव्युपलब्धौ अवयविसद्भावो यो हेतुरुक्तस्तं पूर्वपक्षी प्रत्याचष्टे- साध्यत्वादिति, अवयविनः साध्यत्वात्= सिद्धत्वाभावात्तत्रावयविनि संदेह एव- अवयवी अस्ति न वेति, तथा च "अवयविसद्भावात्" इतिहेतुर्न संभवतीति सूत्रार्थः / व्याचष्टे- अवयवीति, अहेतुः= अवयव्युपलब्धेरहेतुः / अहेतुत्वे हेतुमाह- साध्यत्वादिति, उक्तं व्याचष्टे-साध्यमिति, साध्यमाह- कारणेभ्य इति, कारणेभ्यः उपादानकारणीभूतावयवेभ्यः, द्रव्यान्तरम्= अवयवातिरिक्तोऽवयवी उत्पद्यते इति साध्यमेव न सिद्धम् , पर्यवसितमाह-अनुपपादितमिति, एतत्= अवयविसद्भावः / उपसंहरति- एवं चेति, एवम्= “अवयवि. सद्भावात्" इतिवचनमात्रात् अवयविनि विप्रतिपत्तिमात्रम्= विरुद्धपक्षोत्थापनमात्रं जातं तादृशविप्रतिपत्तेश्वावयविनि संशयो जातो न निश्चय इति “अवयविसद्भावात्" इत्ययमहेतु:- अवयविसद्भावस्य सिद्धत्वाभावादित्यन्वयः // 33 // ___ अवयविसद्भावास्वीकारे सिद्धान्ती दोषमाह- सर्वेति, अवयव्यसिद्धेः= यद्यवयविसद्भावो न . स्वीक्रियते तदा सर्वग्रहणं नोपपद्यते- सर्वैरवयवैरिन्द्रियसंनिलांसंभवात् इन्द्रियसंनिकृष्टैकदेशेन एकदेशान्तरस्य व्यवधानाद् व्यवधाने च ग्रहणासंभवादिति सर्वग्रहणानुपपत्तिः, अवयविस्वीकारे तु एकदेशेन सहावयविनोपि ग्रहणमुपपद्यते अवयवी चैक एवेति सर्वग्रहणमुपपद्यते अवयविस्वीकारे च " अवयविसद्भावात् " इति हेतुरुपपन्न इतिसूत्रार्थः / व्याचष्टे- यदीति, तदेत्यध्याहार्यं तदा सर्वस्येत्यन्वयः /