________________ अवयविसाधनम् ] न्यायभाष्यम् / 125 विशेषसमवायाः / कथं कृत्वा ?, परमाणुसमवस्थानं तावद् दर्शनविषयो न भवति- अतीन्द्रियत्वादणूनाम्. द्रव्यान्तरं चावयविभूतं दर्शनविषयो नास्ति. दर्शनविषयाश्चेमे द्रव्यादयो गृह्यन्ते ते निरधिष्ठाना न गृोरन् गृह्यन्ते तु- 'कुम्भोयं श्याम एको महान् संयुक्तः स्पन्दते अस्ति मृन्मयश्च' इति. सन्ति चेमे गुणादयो धर्मा इति. तेन सर्वस्य ग्रहणात् पश्यामोऽस्ति द्रव्यान्तरभूतोऽवयवीति // 34 // धारणाकर्षणोपपत्तेश्च // 35 // अवयव्यर्थान्तरभूत इति, संग्रहकारिते वै धारणाकर्षणे, संग्रहो नाम संयोगसहचरितं गुणान्तरं स्नेहद्रवत्वकारितम् अपां संयोगादामे कुम्भे अग्निसंयोगात् पक्के / यदि त्ववयवकाउक्तं सर्वपदार्थ जिज्ञासते- किमिति / सर्वपदार्थमाह- द्रव्येति, 'वृक्षोयम् ' इत्यत्र द्रव्यं पत्रादिकं रूपादिर्गुणः कर्म चलनकम्पनादिकं सामान्यं वृक्षत्वं विशेषः तद्व्यक्तित्वं किं वा सजातीयविजातीयभेदः समवायः वृक्षत्वसंबन्धः अवयवावयविसंबन्धश्चेति द्रव्यादीनां समुदायः सर्वपदार्थः / अवयव्यऽस्वीकारपक्षे पूर्वपक्षी सर्वग्रहणासंभवं जिज्ञासते- कथमिति, कथंकृत्वा= केन प्रकारेण सर्वाग्रहणमुच्यते इत्यर्थः / सर्वाग्रहणमुपपादयति- परमाण्विति, परमाणुसमवस्थानम्= परमाणुसमुदायो दर्शनविषयः= प्रत्यक्षविषयो न भवति- अणूनाम्= परमाणूनामतीन्द्रियत्वात् इन्द्रियाग्राह्यत्वात् . अवयविभूतं द्रव्यान्तरं स्थूलमपि दर्शनविषयो न भवति- त्वयाऽवयिनोऽस्वीकारात्- अस्वीकृतस्य दर्शनविषयत्वासंभवादित्यन्वयः / विपक्षे बाधकमाह- दर्शनविषया इति, गृह्यन्ते तु इमे द्रव्यगुणादयो दर्शनविषयाः= दर्शनविषयीभूतास्ते द्रव्यादयो निरधिष्ठानाः= निराश्रया न गृोरन्= न ग्रहीतुं शक्यन्ते तस्मात्तेषां गृह्यमाणानां ग्रहणसिद्धयर्थं तेषामश्रयीभूतोऽवयवी स्वीकार्य इत्यर्थः, एतदेवाह- गृह्यन्ते इति, कुम्भ इति द्रव्यमुक्तं 'श्याम एको महान् संयुक्तः' इत्यनेन रूपसंख्यामहत्त्वसयोगा गुणा उक्ता. स्पन्दते इति कर्म. अस्तीति * सामान्यं सत्तारूपत्वात् . मृन्मय इति विशेषः / स्वाभिप्रायमाह- सन्तीति, गुणादयो धर्मा एव धर्माश्च निराश्रया न भवन्तीति तेषामाश्रयभूतोऽवयवी स्वीकार्य इत्यर्थः। उपसंहरति- तेनेति, सर्वस्य= द्रव्यादिसमुदायस्य ग्रहणात् द्रव्यान्तरभूतः= अवयवातिरिक्तोऽवयवी सिद्धस्तथा च तद्ग्रहणेन तदाश्रितानां तद्धर्मभूतानां गुणादीनां ग्रहणं संभवति एक इतिबुद्धिरपि संभवति. अवयव्यस्वीकारपक्षे च सर्वग्रहणम् एक इतिज्ञानं चोक्तरीत्या न संभवति- अनेकेष्ववयवेष्वेकत्वस्यासंभवादित्यन्वयः // 34 // __अवयविसद्भावे हेत्वन्तरमाह- धारणेति, धारणं यथा घटस्य शिरसि स्थापनम् आकर्षणं सर्वस्य ग्रहणं स्वाभिमुखीकरणं वा एतयोर्धारणाकर्षणयोरुपपत्त्यर्थमपि एकोऽवयवी स्वीकार्यस्तस्यैकत्वाद् धारणाकर्षणे संभवतः, अवयवानां तु धारणाकर्षणे न संभवत एकत्वाभावात् अवयवावस्थायां परस्परं संयुक्तत्वाभावाच्च सिकताराशिवदिति सूत्रार्थः, धारणाकर्षणयोरवयविन्येवोपपत्तेरवयविसद्भावः सिद्ध इत्यन्वयः / व्याचष्टे- अवयवीति, धारणाकर्षणोपपत्तेरवयवी अर्थान्तरभूतः= अवयवातिरिक्त: सिद्ध इत्यर्थः / उपपादयति-- संग्रहेति, धारणाकर्षणे संग्रहकारिते= एकत्रीभावकृते= अवयवानां परस्परहढसंयोगेन संभवत इति अवयव्यवस्थानापन्नानाम् अवयवानां परस्परं दृढसंयोगाभावात् साकल्येन धारणाकर्षणे न संभवत इति तदुपपत्त्यर्थमवयवी स्वीकार्य इत्यर्थः / संग्रहपदार्थमाह- संग्रह इति, संयोगसहचरितम्= संयोगसमानाधिकरणं गुणान्तरम्= धर्मान्तरं एकत्रीभावलक्षणं किं वा दाढ्यम् , तदेतद् घटादिषु प्रत्यक्षम् / अस्य कारणमाह- स्नेहेति, स्नेहेन द्रवीभावेन चायं संग्रहो जायते यथा घृतेन वा जलेन वा गोधूमचूर्णस्य / उदाहरति- अपामिति, आमे= अपक्के कुम्भे यः संग्रहः= अवयवसंयोगः स मृत्तिकायामपां संयोगात् जायते. पक्के च कुम्भे यः संग्रहः सोऽग्निसंयोगाज्जायते इत्यन्वयः /