________________ 126 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आलिकेरिते अभविष्यताम् ? पांशुराशिप्रभृतिष्वप्यज्ञास्येताम् , द्रव्यान्तरानुत्पत्तौ च तृणोपलकाष्ठादिषु जतुसंगृहीतेष्वपि नाभविष्यतामिति / ___ अथाऽवयविनं प्रत्याचक्षाणकः ‘मा भूत् प्रत्यक्षलोपः' इत्यणुसञ्चयं दर्शनविषयं प्रतिजानानः किमनुयोक्तव्यः ? इति, 'एकमिदं द्रव्यम्' इत्येकबुद्धेविषयं पर्यनुयोज्या किमेकबुद्धिरभिन्नार्थविषया? आहो भिन्नार्थविषया? इति, अभिन्नार्थविषयेति चेत ? अर्थान्तरानुज्ञानादवयविसिद्धिः, नानार्थविषयेति चेत् ? भिन्नेष्वेकदर्शनानुपपत्तिः= अनेकस्मिन् एक इति व्याहता बुद्धिर्न दृश्यते इति // 35 // सेनावनवद् ग्रहणमितिचेत् ? न- अतीन्द्रियत्वादणूनाम् // 36 // विपक्षे बाधकमाह- यदीति, यदि धारणाकर्षणे अवयवकारिते= अवयवानामेव साकल्येनाभविष्यतां तदा पांशुराशिप्रभृतिषु= धूलिराशेरपि अज्ञास्येताम्= भवेतां न च भवत इति धारणाकर्षणे अवयविन्येव संभवतो नावयवेष्विति अवयवी स्वीकार्य इत्यर्थः / अवयव्यस्वीकारे दोषमाह- द्रव्यान्तरेति, द्रव्यान्तरानुत्पत्तौ= अवयवातिरिक्तावयव्यस्वीकारे तृणादिषु जतुना= लाक्षया संगृहीतेष्वपि ( विषयत्वं सप्तम्यर्थः ) धारणाकर्षणे नाभविष्यताम्. जतुसंगृहीतेष्वप्यवयवेष्वेकत्वाभावात् साकल्येन धारणाकर्षणे न संभवतः अवयवातिरिक्तावयविनस्तु संभवत एकत्वादित्यर्थः / जतुना संग्रहश्चावयव्युत्पादनार्थ एव अन्यथा संग्रहवैय्यर्थ्यमेव- अवयवानां पूर्वमपि सत्त्वात. तथा च यः संग्रहविशिष्ट सोऽवयव्येवेति सिद्धोऽवयवीत्यर्थः // पूर्वपक्षिणि पूर्वपक्षमुपक्रमते- अथेति, यः पूर्वपक्षी अवयविनं न स्वीकरोति 'वृक्षोयम्' इत्याकारकप्रत्यक्षं च स्वीकरोतीति तादृशप्रत्यक्षस्य लोपो मा भूदिति हेतोरणुसञ्चयम्= परमाणुसमूहं दर्शनविषयम्= प्रत्यक्षविषयं प्रतिजानानः- स्वीकुर्वाणः= स्वीकरोति स किम्= कथम् अनुयोक्तव्यः प्रष्टव्यः ? येन परास्तः स्यादिति विचारः / प्रष्टव्यमाह- एकमिति, 'एकमिदं द्रव्यम्' इत्यत्रैकत्वज्ञानस्य विषयम्= विषयं प्रति= को विषय इति पर्यनुयोज्यः= प्रष्टव्य इत्यन्वयः / प्रष्टव्यं द्विधा विकल्पयतिकिमेकेति, 'एकमिदम्' इत्येषा एकत्वबुद्धिः किमभिन्नार्थविषया ? किं वा भिन्नार्थविषया? इति / प्रथमकल्पमनुवदति- अभिन्नेति, एकत्वबुद्धेरभिन्नार्थविषयकत्वे अर्थान्तरस्य अवयवातिरिक्तावयविनः अनुज्ञानात्= स्वीकारापत्त्या अवयविसिद्धिः संजाता यतोऽवयवानां परस्परं भेदाद् अभिन्नत्वं न संभवति एकत्वबुद्धेश्वाभिन्नार्थविषयकत्वं स्वीकृतमिति. अवयवी त्वेकत्वादभिन्न एवेति एकत्वबुद्धिरवयविविषया सिद्धेत्यर्थः / द्वितीयकल्पमनुवदति- नानाथेंति, भिन्नार्थविषया चेदित्यर्थः, अत्र दोषमाह-भिन्नेष्विति अवयवेषु भिन्नेषु= अनेकेषु एकदर्शनानुपपत्तिः= एकत्वज्ञानं नोपपद्यते विरोधात् , उक्तं व्याचष्टे- अने. कस्मिन्निति, अनेकस्मिन्= अनेकेष्ववयवेषु 'एकमिदम्' इति व्याहता विरुद्धा बुद्धिर्न दृश्यते= न संभवति तस्मात् एकत्वज्ञानमेकद्रव्यविषयकमिति वक्तव्यम् एकं च द्रव्यमवयव्येव संभवति- एकत्वसमवायात्. अनेकेष्ववयवेषु चैकत्वं नोपपद्यते इत्येकत्वबुद्धिविषयत्वेनाप्यवयवी अवयवातिरिक्तः सिद्ध इत्यर्थः / / 35 // पूर्वपक्षी अनेकेष्वप्यवयवेष्वेकत्वबुद्धिमुपपादयति- सेनेति, यथाऽनेकेष्वपि सेनाङ्गेषु हस्त्यादिषु वनाङ्गेषु च वृक्षेषु 'एका सेना' 'एकं वनम् / इत्येवमेकत्वबुद्धिरुपपद्यते तथाऽवयवेष्वप्यनेकेष्वेकत्वेन ग्रहणम् एकत्वबुद्धिरुपपद्यते इत्यर्थः / प्रत्याचष्टे- नेति, हेतुमाह- अतीति, सेनाङ्गानां वनाङ्गानां च स्थूलत्वेनेन्द्रियग्राह्यत्वात् तत्र तत्समुदायविषया एकत्वबुद्धिरुपपद्यते प्रकृतावयनां तु परमाणुरूपत्वेनाऽतीन्द्रियत्वात् तत्समुदायविषयाप्येकत्वबुद्धिनोपपद्यते यदि परमाणूनामिन्द्रियग्राह्यत्वं स्यात्तदा तत्रै