________________ अक्यविसाधनम् ] न्यायभाष्यम। 127 यथा सेनाङ्गेषु वनाङ्गेषु च दूरादगृह्यमाणपृथक्त्वेषु 'एकम्' इत्युपपद्यते बुद्धिः एवमहुषु संचितेष्वगृह्यमाणपृथक्त्वेषु 'एकम्' इत्युपपद्यते बुद्धिरिति / यथाऽगृह्यमाणपृथक्त्वानां सेनावनाङ्गानाम् आरात् कारणान्तरतः पृथक्त्वस्याग्रहणं यथाऽगृह्यमाणजातीनां पलाश इति वा खदिर इति वा नाऽऽरात् जातिग्रहणं भवति यथाऽगृह्यमाणप्रस्पन्दानां नाऽऽरात् स्पन्दग्रहणम्. गृह्यमाणे चार्थजाते पृथक्त्वस्याऽग्रहणात् 'एकम्' इति भाक्तः प्रत्ययो भवति. न त्वणूनां गृह्यमाणपृथक्त्वानां कारणतः पृथक्त्वस्याग्रहणाद् भाक्त एकप्रत्ययः- अतीन्द्रियत्वादणूनामिति / इदमेव परीक्ष्यते- किमेकमत्ययोऽणुसंचयविषयः ? आहो स्विन्न ? इति, अणुसंचय एव सेनावनाङ्गानि. न च परीक्ष्यमाणमुदाहरणमिति युक्तम्- साध्यत्वादिति // ___ दृष्टमितिचेत् ? न- तद्विषयस्य परीक्षोपपत्ते / / कत्वबुद्धिरपि जायेत न चैवमस्तीत्येकत्वबुद्धरुपपत्त्यर्थमवयवी स्वीकार्यः स च एकः स्थूलश्चेति तत्रैकत्वबुद्धिरुपपद्यते इति सूत्रार्थः / पूर्वपक्षं व्याचष्टे- यथेति, दूरादगृह्यमाणं पृथक्त्वं येषां तेषु / पृथक्त्वग्रहणे टेकत्वबुद्धिर्न जायते इत्यनुसंधेयम् / प्रकृतमाह- एवमिति, संचितेषु= एकत्रीभूतेषु. परमाणूनामेकत्रीभावं विनेन्द्रियग्राह्यत्वासंभवादित्याशयः / उक्तं प्रत्याख्यातुमारभते- यथेति, अगृह्यमाणपृथकत्वानाम् पृथक्त्वेन ग्रहणायोग्यानाम् आरात्- दूरात् कारणान्तरतः= दृष्टिदोषात् पृथक्त्वस्य ग्रहणं न भवतीति. यथा चा गृह्यमाणजातीनाम्= पलाश इति वा खदिर इति वेति पलाशत्वादिजात्या ग्रहणायोग्यानां वनाङ्गानां दूरात् पलाशत्वादिजातिग्रहणं न भवतीति. यथा चा गृह्यमाणप्रस्पन्दानाम्= ग्रहणायोग्यकम्पानां वृक्षाणां दूरात् स्पन्दग्रहणं न भवतीति. तत्रार्थजाते= सेनाद्यते गृह्यमाणे सति तद्धर्मस्य पृथक्त्वस्याऽग्रहणात् 'एकमिदम्' इति भाक्तः= गौणः प्रत्ययः= ज्ञानं जायते. अनेकेष्वेकत्वज्ञानं गौणमेवेति स्पष्टमेवेत्यन्वयः / एवं जातिग्रहणाभावे भाक्तः साम्यप्रत्ययः स्पन्दग्रहणाभावे च भाक्तो निश्चलत्वप्रत्ययो विज्ञयः, अत्र- "भक्तिर्नामाऽतथाभूतस्य तथाभावि सामान्यं उभयेन भज्यते इति भक्तिः * यथा वाहीकस्य मन्दामन्तस्संज्ञामुपादाय वाहीको गौरिति" इतिवार्तिकम् , उभयेन= उपमानोपमेयाभ्यामित्यर्थः प्रकृते एकत्वविशिष्टाविशिष्टयोरेकत्वप्रत्ययस्य साम्येन जायमानत्वाभाक्तत्वं विज्ञेयम् / प्रकृ. तमाह-न विति, पूर्व यथाशब्दप्रयोगादत्र तश्रेत्यध्याहार्यम् , परमाणूनां तु गृह्यमाणपृथक्त्वानाम्= अनुमानादिना पृथक्त्वेन ग्रहणयोग्यानामित्यर्थः विशेषणमिदं न समञ्जसमिति ' अगृह्यमाणपृथक्त्वानाम् / इतिपठनीयम्' कारणतः पृथक्त्वस्याऽग्रहणादपि भाक्तोपि एकत्वप्रत्ययो न संभवति-परमाणूनामतीन्द्रियत्वेन कथमपि प्रत्यक्षविषयत्वं नोपपद्यते इति न संचितेष्वपि परमाणुषु सेनावनाङ्गवदेकत्वबुद्धिरुपपद्यते तस्मादेकत्वबुद्धेरुपपत्त्यर्थ तद्विषयोऽवयवी स्वीकार्य इत्यर्थः / इदं ह्यस्य भाष्यकारस्य लेखपाण्डित्यं यदुत्तरपक्षारम्भोप्यत्र न स्पष्ट इति विभावनीयम् / सेनावनाङ्मयोदृष्टान्तत्वासंभवमाह- इदमेवेति / परीक्ष्यमाह-किमेकेति, किमेकत्वप्रत्ययः परमाणुसमूहविषयकः संभवति किं वा न संभवतीति परीक्षणीयमस्ति-यतः सेनावनामानि दृष्टान्तभूतानि भवन्मते परमाणुसमूह एव- अवयविनोऽस्वीकारात् तथा च सेवावनाङ्गानामप्येकत्वप्रत्ययविषयत्वं परीक्ष्यमाणमेवास्ति न तु सिद्धं. परीक्ष्यमाणं चोदाहरणं न युक्तम् न संभवति- साध्यत्वात् साध्यनिश्चयाविषयत्वात् सिद्धस्यैवोदाहरणत्वसंभवात् तथा च परमाणुभूतेषु सेनावनाङ्गेष्वेवैकत्वप्रत्ययविषयत्वं नास्तीति कथं सदृष्टान्तेन वृक्षाद्यवयवभूतपरमाणुष्वेफत्वप्रत्ययविषयत्वं स्यात, यदि सेनावनाङ्गानि स्थूलानि तदा स्थूलस्यावयवित्वात् सिद्धोऽवयवी तस्मादेकत्वप्रत्ययविषयोऽवयवी स्वीकार्य इत्यर्थः // ननु सेनावनाङ्गेषु 'एकमिदम् ' इत्येवमेकत्वप्रत्ययो दृष्ट इति न " सेनावनवत् " इति दृष्टान्तस्यासिद्धिरिति तद्वत् प्रकृतेप्यवयसमूहस्यैकत्वप्रत्ययविषयत्वं संभवतीति नाऽवयविस्वीकारापत्तिरि