________________ 128 प्रसन्नपदापरिभूषितम्- [2 अध्याये. १आह्निकेयदपि मन्येत- दृष्टमिदं सेनावनाङ्गानां पृथक्त्वस्याग्रहणादभेदेन 'एकम्' इतिग्रहणं न च दृष्टं शक्यं प्रत्याख्यातुमिति / तच्च नैवम्- तद्विषयस्य परीक्षोपपत्तेः= दर्शनविषय एवायं परीक्ष्यते= योयमेकमिति प्रत्ययो दृश्यते स परीक्ष्यते-किं द्रव्यान्तरविषयो वा ? अथाणुसंचयविषयः ? इति, अत्र दर्शनमन्यतरस्य साधकं न भवति / नानाभावे चाणूनां पृथक्त्वस्याग्रहणादभेदेन 'एकम्' इतिग्रहणम्' अतस्मिंस्तदितिप्रत्ययो यथा स्थाणौ पुरुष इति / ततः किम् ?. अतस्मिंस्तदितिप्रत्ययस्य प्रधानापेक्षित्वात् प्रधानसिद्धिः / स्थाणौ पुरुष इति प्रत्ययस्य किं प्रधानम्?. योऽसौ पुरुषे पुरुषप्रत्ययः तस्मिन् सति पुरुषसामान्यग्रहणात् स्थाणौ पुरुषोयमिति, एवं नानाभूतेषु 'एकम्' इति सामान्यग्रहणात् प्रधाने सति भवितुमर्हति प्रधानं च सर्वस्याग्रहणाद् नोपपद्यते इति. तस्मादभिन्ने एवायमभेदप्रत्ययः- 'एकम्' इति / त्याशङ्कते- दृष्टमिति / परिहरति- नेति / परिहारहेतुमाह- तद्विषयस्येति, सेनावनाङ्गेषु य एकत्वप्रत्ययस्तद्विषयस्य परीक्षोपपत्तेः= परीक्षणीयत्वात्. नामैकत्वप्रत्ययस्य किं परमाणुसमूहो विषयः किं वाऽवयवी विषय इतिपरीक्षणीयमस्ति न तु परिक्षितमिति " सेनावनवत्" इतिदृष्टान्तस्यासिद्धत्वं तवस्थमेवेत्यर्थः / पूर्वपक्षं व्याचष्टे- यदपीति, 'एकम् ' इतीदं ग्रहणम्= एकत्वेन ग्रहणम्= एकत्वप्रत्ययविषयत्वं दृष्टमित्यन्वयः / दृष्टस्य= प्रत्यक्षस्य च प्रत्याख्यानं न संभवति तथा च "सेनावनवत" इतिदृष्टान्तः सिद्धस्तेन परमाणुसमूस्यैकत्वप्रत्ययविषयत्वं प्राप्नोतीत्यर्थस्तदाह-न चेति / उक्तं परिहरतितञ्चेति / परिहारहेतुमाह- तद्विषयस्येति / उक्तं व्याचष्टे- दर्शनेति, दर्शनविषयः= एकत्वप्रत्ययविषय एव परीक्ष्यते किमवयवी वा परमाणुसमूहो वेत्यर्थः / परीक्ष्यमाह- योयमिति / एकत्वप्रत्ययविषयं द्विधा विकल्पयति-किमिति / द्रव्यान्तरम् अवयवी / स्वविवक्षितमाह- अत्रेति, अत्र एवं संशये जाते दर्शनम् सेनावनाङ्गेषु 'एकम् ' इतिज्ञानमात्रम् अन्यतरस्य अन्यतरकल्पस्य= एकत्वप्रत्ययोणुसंचयविषयक इतिपक्षस्य साधकं न भवतीत्यन्वयः / उक्तदर्शनस्याऽसाधकत्वमुपपादयति- नानाभावे इत्यादिना, परमाणूनां नानाभावे नानात्वे सति तेषां पृथक्त्वस्याग्रहणादभेदेन यदिदम् ‘एकम् ' इति एकत्वेन ग्रहणं तद् अतस्मिंस्तदितिप्रत्ययः= अनेकस्मिन् एक इति प्रत्ययो यथा स्थाणौ पुरुष इति प्रत्ययस्तथा च मिथ्याभूत इति न साध्यसाधनसमर्थ इत्यन्वयः / ननु भवतु परमाणुषु एकमितिज्ञानम् अतस्मिंस्तदितिप्रत्ययस्तेन का नो हानिः प्राप्तेति जिज्ञासते- ततः किमिति / उत्तरमाह- अतस्मिन्निति, अतस्मिंस्तदितिप्रत्ययः प्रधानप्रत्ययसापेक्षः= तस्मिंस्तदितिप्रत्ययसापेक्षो भवति तथा च यथा रजते रजतज्ञानं विना शुक्तिरजतज्ञानं न संभवतीति शुक्तिरजतज्ञानेन रजते रजतज्ञानं सिध्यति तथा एकस्मिन् एकत्वज्ञानं विना अनेकस्मिन् एकत्वज्ञानं न संभवतीति अनेकस्मिन् एकत्वज्ञानेन एकस्मिन् एकत्वज्ञानं सिद्धम् तत्र परमाणोस्त्वेकस्य प्रत्यक्षं न संभवति- अतीन्द्रियत्वादिति प्रधानभूतमेकत्वज्ञानमऽवयविविषयकमेव स्वीकार्यमिति सिद्धोऽवयवीत्यर्थः। स्थाणौ पुरुषप्रत्ययस्य प्रधानप्रत्ययं जिज्ञासतेस्थाणाविति / उत्तरमाह- योसाविति, योऽसौ पुरुषे पुरुषप्रत्ययः स स्थाणौ पुरुषप्रत्ययस्य प्रधानमित्यन्वयः / तस्य प्राधान्यकारणमाह- तस्मिन्निति, तस्मिन्= पुरुषे पुरुषप्रत्यये जाते सति हि पुरुषसामान्यग्रहणात्- पुरुषसादृश्यग्रहणात् स्थाणावपि पुरुषोयमिति प्रत्ययः संभवतीति हेतोस्तस्य प्राधान्यम् , प्रकृतमाह- एवमिति, एवं नानाभूतेषु= अनेकेषु परमाणुषु 'एकम् ' इति प्रत्यक्षम् प्रधाने= एकस्मिन् एकमितिप्रत्यये सत्येव सामान्यग्रहणात्= अगृह्यमाणपृथक्त्वादिलक्षणसादृश्यग्रहणात् भवितुमर्हति, प्रधानम्= एकस्मिन् एकत्वज्ञानं च सर्वस्यावयवसमुदायस्याग्रहणान्नोपपद्यते सर्वेषामवयवानामग्रहणं च व्यवधानादुक्तमेव तथा च नानाभूतेषु परमाणुष्वेकत्वप्रत्ययसिद्धयर्थमेकस्मिन् एकत्वप्रत्ययः स्वीकार्यः स चाप्येकपरमाणुविषयको न संभवति परमाणोरतीन्द्रियत्वादिति अभिन्ने एकस्मिन् अवयविन्येवा